Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३३६
[काव्यानुशासनम् अभिसरत्यभिसारयति वा कामार्ता कान्तमित्यभिसारिका । यथा
उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ। प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्रासोद्धान्ता दिशो मुहुरीक्षसे ।।७२२॥
[अमरु० ३१]
तथा
न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैवमभिगम्य वदेरभिदूति काचिदिति संदिदिशे ।।७२३।।
[शिशुपाल० ९.५६] अन्वर्थ एवासां लक्षणमित्याहत्य लक्षणं न कृतम् । १७४) अन्त्यव्यवस्था परस्त्री ॥३१॥
परस्त्रियौ तु कन्योढे । संकेतात् पूर्वं विरहोत्कण्ठिते, पश्चाद् विदूषकादिना सहाभिसरन्त्यावभिसारिके । कुतोऽपि कारणात् सङ्केतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थतैवानयोरिति ।
नायिकानां प्रतिनायिकामाह१७५) ईर्ष्याहेतुः सपत्नी प्रतिनायिका ॥३२॥ यथा रुक्मिण्याः सत्यभामा। दूत्यश्च नायिकानां लोकसिद्धा एवेति नोक्ताः । अथ स्त्रीणामलङ्कारानाह१७६) सत्त्वजा विंशतिः स्त्रीणामलङ्काराः ॥३३॥ संवेदनरूपात् प्रसृतं यत्ततोऽन्यद्देहधर्मत्वेनैव स्थितं सत्त्वम् । यदाह
(४०) 'देहात्मकं भवेत् सत्त्वम्' (नाट्यशास्त्र २४.७. (C.S.S.), २२.६ (GOS) इति । ततो जाताः सत्त्वजाः । राजसतामसशरीरेष्वसंभवात् । चाण्डालीनामपि हि रूपलावण्यसम्पदो दृश्यन्ते न तु
चेष्टालङ्काराः । तासामपि वा भवन्त उत्तमतामेव सूचयन्ति । अलङ्कारा: देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः। ते २५ यौवने उद्रिक्ता दृश्यन्ते बाल्येऽनुद्भिन्ना वार्द्धके तिरोभूताः । ते यद्यपि चैते पुरुषस्यापि सन्ति तथापि योषितां
त एवालङ्कारा इति तद्गतत्वेनैव वर्णिताः । पुंसस्तूत्साहवृत्तान्त एव परोऽलङ्कारः । तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शृङ्गारादयो धीरललित इत्यादौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548