SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३३६ [काव्यानुशासनम् अभिसरत्यभिसारयति वा कामार्ता कान्तमित्यभिसारिका । यथा उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ। प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्रासोद्धान्ता दिशो मुहुरीक्षसे ।।७२२॥ [अमरु० ३१] तथा न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैवमभिगम्य वदेरभिदूति काचिदिति संदिदिशे ।।७२३।। [शिशुपाल० ९.५६] अन्वर्थ एवासां लक्षणमित्याहत्य लक्षणं न कृतम् । १७४) अन्त्यव्यवस्था परस्त्री ॥३१॥ परस्त्रियौ तु कन्योढे । संकेतात् पूर्वं विरहोत्कण्ठिते, पश्चाद् विदूषकादिना सहाभिसरन्त्यावभिसारिके । कुतोऽपि कारणात् सङ्केतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थतैवानयोरिति । नायिकानां प्रतिनायिकामाह१७५) ईर्ष्याहेतुः सपत्नी प्रतिनायिका ॥३२॥ यथा रुक्मिण्याः सत्यभामा। दूत्यश्च नायिकानां लोकसिद्धा एवेति नोक्ताः । अथ स्त्रीणामलङ्कारानाह१७६) सत्त्वजा विंशतिः स्त्रीणामलङ्काराः ॥३३॥ संवेदनरूपात् प्रसृतं यत्ततोऽन्यद्देहधर्मत्वेनैव स्थितं सत्त्वम् । यदाह (४०) 'देहात्मकं भवेत् सत्त्वम्' (नाट्यशास्त्र २४.७. (C.S.S.), २२.६ (GOS) इति । ततो जाताः सत्त्वजाः । राजसतामसशरीरेष्वसंभवात् । चाण्डालीनामपि हि रूपलावण्यसम्पदो दृश्यन्ते न तु चेष्टालङ्काराः । तासामपि वा भवन्त उत्तमतामेव सूचयन्ति । अलङ्कारा: देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः। ते २५ यौवने उद्रिक्ता दृश्यन्ते बाल्येऽनुद्भिन्ना वार्द्धके तिरोभूताः । ते यद्यपि चैते पुरुषस्यापि सन्ति तथापि योषितां त एवालङ्कारा इति तद्गतत्वेनैव वर्णिताः । पुंसस्तूत्साहवृत्तान्त एव परोऽलङ्कारः । तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शृङ्गारादयो धीरललित इत्यादौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy