Book Title: Kavyanushasanam
Author(s): Hemchandracharya, T S Nandi, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
३३२
१०
१५
२०
२५
सामान्यां लक्षयति
१७२) गणिका सामान्या ॥ २९ ॥
कलाप्रागल्भ्यधौर्त्याभ्यां गणयति कलयति गणिका । सामान्या निर्गुणस्य सगुणस्य च साधारणी ।
केवलधनलाभालम्बनेन कृत्रिमप्रेमत्वात् । यथा
गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं संदष्टाधरमुक्तसीत्कृतलसद्भ्रान्तभ्रु नृत्यत्करम् । चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ||७१४|| [शृङ्गारतिलक परि. १ का ६८ अनन्तरम् ]
स्वपरस्त्रीणामवस्था आह
१७३) स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धाभिसारिका चेति स्वस्त्रीणामष्टाववस्थाः ||३०|| रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात् स्वाधीन आयत्तः पतिर्यस्याः सा तथा । यथासालोए च्चि सूरे धरिणी घरसामियस्स घेत्तूण | च्छंतस्स य चलणे धुयइ हसंती हसंतस्स ॥ ७१५||
[ सप्तशती १३०; गाथासप्तशती २.३० ) इति ।] कार्यतः प्रोषितो देशान्तरं गतो भर्ता यस्याः सा तथा । यथाश्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥ ७१६ ॥
वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ताः खण्डिता । यथानवनखपदमङ्गं गोपयस्यंशुकेन
Jain Education International
स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्
[काव्यानुशासनम्
नवपरिमलगन्धः केन शक्यो वरीतुम् ॥७१७॥
[ शिशुपाल ० ११.३४ ]
For Private & Personal Use Only
]
www.jainelibrary.org
Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548