SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ३३२ १० १५ २० २५ सामान्यां लक्षयति १७२) गणिका सामान्या ॥ २९ ॥ कलाप्रागल्भ्यधौर्त्याभ्यां गणयति कलयति गणिका । सामान्या निर्गुणस्य सगुणस्य च साधारणी । केवलधनलाभालम्बनेन कृत्रिमप्रेमत्वात् । यथा गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं संदष्टाधरमुक्तसीत्कृतलसद्भ्रान्तभ्रु नृत्यत्करम् । चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ||७१४|| [शृङ्गारतिलक परि. १ का ६८ अनन्तरम् ] स्वपरस्त्रीणामवस्था आह १७३) स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धाभिसारिका चेति स्वस्त्रीणामष्टाववस्थाः ||३०|| रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात् स्वाधीन आयत्तः पतिर्यस्याः सा तथा । यथासालोए च्चि सूरे धरिणी घरसामियस्स घेत्तूण | च्छंतस्स य चलणे धुयइ हसंती हसंतस्स ॥ ७१५|| [ सप्तशती १३०; गाथासप्तशती २.३० ) इति ।] कार्यतः प्रोषितो देशान्तरं गतो भर्ता यस्याः सा तथा । यथाश्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥ ७१६ ॥ वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ताः खण्डिता । यथानवनखपदमङ्गं गोपयस्यंशुकेन Jain Education International स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन् [काव्यानुशासनम् नवपरिमलगन्धः केन शक्यो वरीतुम् ॥७१७॥ [ शिशुपाल ० ११.३४ ] For Private & Personal Use Only ] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy