Page #1
--------------------------------------------------------------------------
________________
॥ॐ श्री जिनाय नमः ॥
॥ श्री मृगावतीचरित्रम् ॥
( कर्ता-मलधारि श्री देवप्रभसूरिः ) छापी प्रसिद्ध करनार-वीठलजी हीरालाल लालन ( जामनगरवाळा ) वीरसंवत्-२४५५. विक्रमसंवत–१९८५. सने १९२९.
किं. रु.-२-०-० - सूर्योदय प्रिन्टिंग प्रेस-जामनगर. .
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
मृगावती
॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीमृगावतीचरित्रं प्रारभ्यते ॥
( कर्ता-मलधारिश्रीदेवप्रभसूरिः ) छपावी प्रसिद्ध करनार-वीठलजी हीरालाल शाह. ( जामनगरवाळा ) जयंति वर्धमानस्य, जितदंभोलिवैभवाः । मोहांधतमसध्वंस-हेलयः सत्त्वकेलयः ॥ १॥ सारसारस्वतामोद-मेदस्कररसायनं । गुरूणामुपदेशस्य, महेम महिमाद्भुतं ॥ २॥ लब्धेऽस्मिन् पुण्यनै- 10 lal पुण्या-न्मानुषत्वेऽपि दुर्लभे । धर्मकर्माणि निर्मातुं, यतितव्यं सचेतसा ॥ ३ ॥ परोपकाररूपश्च,
धर्मः सर्वत्र सम्मतः । कृताद्वितोपदेशाच्च, नोपकारः परः पुनः ॥ ४ ॥ तेनोर्जितरजःपुंज-मार्जनं IRI IR सद्गुणार्जनं । मृगावत्यादिदृष्टांते-स्तदेतदुपदिश्यते॥५॥ उद्दामविनयस्थूल-मूलो गुणगणद्रुमः ।।
Page #4
--------------------------------------------------------------------------
________________
मृगावती | मृगावत्या इव श्रेयः-श्रीसंबंधनिबंधनं ॥ ६॥ श्रीवत्स इव वत्साख्यो, देशः ख्यातोऽस्ति भारते चरित्रम्
। अच्युतश्रीपरीभोग-सुभगो भावुकस्थितिः ॥ ७ ॥ ग्रामाः कुर्कुटसंपात्या-पक्कशालेयशालिनः ।। ॥२॥
गोपीगीतकलवान-रध्वन्यान् यत्र रुंधतः ॥ ८॥ तत्र श्रीवेश्मकौशांबी-त्यस्ति राजन्वती पुरी । ||2|| इभाश्च यस्यामिभ्याश्च, दधते दानसौरभं ॥ ९॥ यस्यां वास्तव्यलोकस्य, जन्मापूर्वमिदं द्वयं । परचक्रोद्भवा भीतिः, प्रार्थना च परंप्रति ॥ १० ॥ पराजितपरानीकः, शतानीकोऽवनीपतिः । तां पुरीं । पालयामास, स्वःपुरीमिव वासवः ॥ ११ ॥ येनारिनारीनेत्राणा-मश्रु दत्वा प्रसृत्वरं । अंजनं कृत्स्न-ol | मादाय, विदधे धवलं यशः॥ १२ ॥ अभृन्मृगावतो तस्य, पत्नी प्रीतिलतावनिः । यदीयरूपकाव्यस्य, | | समश्याः स्वर्गयोषितः ॥ १३ ॥ अवरोधवधूवीरु-त्सार्थे बहुविधेऽपि च । सल्लकी सिंधुरस्येव, तस्य । सैवातिवल्लभा ॥ १४ ॥ धुरं युगंधरेऽमात्ये, राज्यमारोप्य भूपतिः। मृगावत्या समं कामं, काममेवा
कृतार्थयत् ॥ १५ ॥ रहः स्मररहस्येषु, मिथः प्राप्तोपदेशयोः । पर्यायेण तयोरासोद्, गुरुशिष्यविधि| क्रमः ॥ १६ ॥ छेकोक्तिभिस्तथा कांतो, दूरमाराधितस्तया । ददौ सर्वाधिकारित्वं, यथास्याः स्मरके
॥२॥
Page #5
--------------------------------------------------------------------------
________________
३॥
मृगावती लिषु ॥ १७ ॥ बुभुजे भूभुजा तेन, रणारंभैर्भुवस्तलं । निःसपत्नमुरस्तस्य लीलयैव तया पुनः ॥१८॥ इत्थं विषय सर्वस्व - स्वादमानंदचेतसः । अजायत मृगावत्या, गर्भोऽत्यद्भुतभाग्यतः ॥ १९ ॥ इंदुगभैव दिक्पूर्वा, सुतिगर्भेव केतकी । आपन्नसत्त्वा सा राज्ञी, किंचिदुच्छ्वसिता बभौ ॥ २० ॥ वितीर्णवर्णसौभाग्यः, पांडुभावः कपोलयोः । तस्या गर्भप्रबंधस्य, विदधे विवृतिं तदा ॥ २१ ॥ कदाचिदुलसत्प्रोति-रंतःपुरमुपेयिवान् । खेदसादितसवांगी-मीक्षांचके नृपः प्रियां ॥ २२ ॥ सविकल्पमनल्पं त्वं प्रिये किमिति खिद्यसे । कीनासः कुपितस्तस्य यः स्यात्खेदयिता तव ॥२३॥ राज्ञी व्यज्ञपयदेव, नान्यखेदस्य कारणं । अत्यंत दुर्वचाः किंतु, दोहदो मेऽपराध्यति ॥२४॥ सद्यो निवेद्यतां किंतु, दुःपूरः कोऽपि दोहदः । इति निर्बंधतापृष्टा, व्याचष्टेस्म मृगावती ॥२५॥ आपूर्णायां जपावर्णे - राकर्णं रुधिरांबुभिः । कुर्वे वाप्यां यदि स्नानं, तदा स्यां पूर्णदोहदा ॥ २६ ॥ प्रतापं चानुरागं च, गर्भेऽस्मिन् सूचयत्ययं । दोहदस्तव देवीति, राजा राज्ञ्यै न्यवेदयत् ॥ २७ ॥ ततश्चादिक्षदाक्षेपा - दमात्यं मंत्रिपुंगवं । दुःकरो दोहदार्थश्च देवी च परिताम्यति ॥ २८ ॥ चिंतयोपायकं कंचि - नैषा दुःखायते यथा । इति मंत्री
TE
'
चरित्रम्
॥ ३ ॥
Page #6
--------------------------------------------------------------------------
________________
10
मृगावती
धरित्रीश-निर्देशं प्रत्यपद्यत ॥ २९ ॥ वापी विधाय कोसुंभ-रसरंगतरंगितां। ततोऽमात्यो मृगावत्यै, चरित्रम् कथयामास सादरः ॥ ३० ॥ वृद्धाभिः कृतमंगल्या, पौरोभिरभिनंदिता । कोसुंभवसना फुल्ल-सुम- | नोमाल्यभारिणी ॥ ३१ ॥ दुर्वायवांकुरोत्तंसा, मौक्तिकप्रायभूषणा । उल्लासितसितच्छत्रा, प्राप वापी || मृगावती ॥ ३२ ॥ युग्मं ॥ कृपाणपाणिरेतस्याः, कौशांबीपरमेश्वरः । कक्षीकृत्य स्वयं रक्षा-मारक्षप-18 दवीं दधौ ॥ ३३ ॥ एतामावृत्य सामंतै-राशासु निखिलास्वपि । नानास्त्रपाणिभिस्तस्थे, दिक्पालैरिव 4 | रक्षिभिः ॥ ३४ ॥ उद्दीप्रमणिसोपानां, पुष्पप्रकरदंतुरां । रोमांचितवपुर्वापी-मवतीर्णा मृगावती॥३५॥ सा स्वच्छंदकृतोत्साहा, स्नांती सुचिरमन्वभूत् । सर्वांगीणसुधासेकात्, सातिरेकं सुखोत्सवं ॥ ३६॥10 अथासौ तत्र संपूर्ण-रुधिरस्नानदोहदा । यावल्लोहितलिप्तेव, वाप्याः किंचिच्च निर्ययो ॥ २७ ॥ अकांड इव चंडेन, भारंडेण पतत्रिणा । कुतोऽप्यागत्य सालोकि, नव्यामिषमनीषया ॥ ३८ ॥ सर्वेषां पश्यतामेव, स पापः पश्यतोहरः । एतां क्रमाभ्यामाक्रम्य, दूरमूवं खमुद्ययो ॥ ३९ ॥ अहो गृह्णीत | | गृह्णीत, वेगेन विहगाधमं । मम जीवितमादाय, सैष गच्छति गच्छति ॥ ४० ॥ हो धावत सामंताः,
OOOOOOOO
Page #7
--------------------------------------------------------------------------
________________
मृगावती
समंतादपि सोद्यमाः । वेष यास्यति पापीयान्, द्रुतं युष्मदनादृतः ॥ ४१ ॥ इति भूभर्तुरादेशा-तु- चरित्रम् ल्यकालं प्रधाविताः । सुप्रतीपेन सेनान्या, समं सैन्यास्तमन्वगुः ॥ ४२ ॥ विहंगमाहिसंदंश-व्यथा-1 तरलतारकं । चक्षुः क्षिपंती तां वीक्ष्य, प्रेम्णा पर्यश्रुलोचनः ॥ ४३ ॥ रक्ष रक्षार्यपुत्रेति, श्रुत्वा प्रण- | | यिनीगिरं । व्यापारितनिसीतासि-वेंगाद्वयोमोत्पतन्निव ॥ ४४ ॥ हृत्वा देवीं क्व रे यासि, धत्त ध
लेति तं रुषा । आक्षिपन् पक्षिणं दुःस्थ-स्तस्थौ भूपतिरुन्मुखः ॥ ४५ ॥ त्रिभिर्विशेषकं ॥ लोचना-12 | गोचरत्वं च, गच्छतिस्म विहंगमे। उन्निद्राऽस्तोकशोकश्च, मूर्छतिस्मेति भूपतिः ॥ ४६॥ शीतो-12 |पचारैाया, विच्छेदे विहिते सति । सप्रेमा प्रेयसी स्मृत्वा, विह्वलो विललाप सः ॥ ४७ ॥ हे || प्रिये पद्मगौरांगि, हा सुकेशि कृशोदरि । हे निम्ननाभे रंभोरु, हा मृगाक्षि मृगावति ॥४८॥ हा | | देवि व प्रयातासि, विनीतासि वरानने । तदेहि देहि दीनस्य, प्रिये प्रतिवचो मम ॥ ४९ ॥ मम | | साम्राज्यसर्वस्वं, निस्त्रपेण पतत्रिणा । तेन त्वां नयता तन्वि, किं न नीतं दुरात्मना ॥ ५० ॥ क्व || ते देवि मदीयांक-पल्यंकतलखेलनं । क च तस्य विहंगस्य, कठोरचरणग्रहः ॥ ५१ ॥ ममापराध
Page #8
--------------------------------------------------------------------------
________________
मृगावती | लक्षाणि, प्रेक्षमाणापि नेक्षसि । त्वमिव प्रणयप्रेम्णा, कस्तथा प्रथयिष्यति ॥ ५२ ॥ पत्न्या अपि चरि
परित्राणे, यस्य नौजस्विनो भुजाः । स कथं दर्शयिष्यामि, जनस्यापि स्वमाननं ॥ ५३ ॥ विलपंतं । तमित्यूचे, मंत्री किं परिदेवनैः । स्थिरो भव भुवोऽधीश, माऽवधीरय धीरतां ॥ ५४ ॥ किं विक्रमाभि| रामस्य, रामस्य दयितां पुरा । सीतां जहार न स्वामिन्, दुर्धरो दशकंधरः ॥ ५५ ॥ सहायोकृत्य | सुग्रीवं, दशग्रीवं निहत्य च । कृतयत्नः पुनः पत्नी, किमानिन्ये न राघवः ॥ ५६ ॥ तथैव वयमप्येता | -मानेष्यामो मृगावतीं । नैवानेष्यति सेनानी, सुप्रतीपोऽधुना यदि ॥ ५७॥ इति जल्पत एवास्य, lo सोऽपि वेगादुपागतः । राज्ञे विज्ञपयामास, स्वरूपं साश्रुलोचनः ॥ ५८ ॥ देव सोऽस्मत्पताकिन्या, नभस्थो भृतलस्थया। अन्वयायि व्रजन्नाशां, दक्षिणां वेगदक्षिणः ॥ ५९॥ धनुर्वेदविदो देवी, रक्षतो लक्षभेदिनः । कंकपत्रगणं मंच, विक्षिपुः पक्षिणंप्रति ॥ ६० ॥ युद्धमर्मविदो योधा, नाराचनिचयैस्तदा । हंतुमैच्छन्नतुच्छेस्तं, देवीत्राणाय पत्रिणं ॥ ६१ ॥ अभ्यस्तपक्षिपापर्द्धि-वर्धिष्णुबहुलाघवाः । उपचक्रमिरे बधुं, पाशैस्तं खगपांशुनं ॥६२ ॥ तस्मिन्नुच्चनभोभाग-रंहस्विनि विहंगमे । अस्माकं
Page #9
--------------------------------------------------------------------------
________________
चरित्रम
n७॥
मृगावती || विक्रमारंभा, बभूवुर्निष्फलाः परं ॥ ६३ ।। यदि नाम श्रयेदेषः, शाखां कस्यापि शाखिनः । इत्यानु-
पदिकानां नः, सोऽदृश्यत्वमगात्खगः ॥ ६४ ॥ ३च्योतती स्वामिनीक्षौमा-द्वीक्ष्य यां बिंदुधोरणीं । अवजाम प्रतीपेन, सापि दैवेन संहृता ॥ ६५ ॥ वैधेयस्य विधेर्वृत्तिं, विलोक्य प्रातिकूलिकों । अभागधेयरस्माभि-ावृत्तं स्वामिनी विना ॥ ६६ ॥ श्रुत्वेदं शोकसंमारो, भूपालो व्यलपत्पुनः ।। भूयः संबोधयांचके, सौधमानोय मंत्रिणा ॥ ६७ ॥ राजन्नेवं युवत्येव, रुद्यते किं पुनः पुनः । महा| त्मनां हि धैर्य स्या-श्यसने निकषोपलः ॥ ६८ ॥ न्यकारमितरोऽप्येति, शोकावेशविसंस्थुलः । किं | पुनर्विस्फुरद्धैर्य-संरंभाः पृथिवीभुजः ॥ ६९ ॥ वेष्टयामास कौशांबी, यदागत्य निरत्ययां। चंडप्रद्योत| भूपालः, किमेतदिति विस्मृतं ॥ ७० ॥ येन वैरायते वैर-स्तादृशः सैन्यवारिधिः । तस्य ते निहता| लोकं, शोकं कर्तुं न युज्यते ॥ ७१ ॥
- इति वैरिकथारंभा-दुजागृतपराक्रमः । मनो व्यापारयामास, राज्यचिंतासु भूपतिः ॥ ७ ॥ IR किंतु तस्मिन् मृगावत्या, जैत्रशस्त्रेण वर्जितः । लेभे संभावनाहीनो, न सेवाऽवसरं स्मरः ॥ ७३ ॥
॥७॥
Page #10
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
| अपारराज्यव्यापार-पारवश्यदशामपि । जग्मतुस्तस्य वाकायौ, मनस्त्वनुमृगावति ॥७४ ॥ प्रत्यारामं प्रतिग्रामं, प्रत्याशं प्रतिपर्वतं। स चरान् प्रेषयामास, मृगावत्याः प्रवृत्तये ॥ ७५ ॥ त्वदधीनं सुखं सुभ्र, विमुखी मास्म भूर्मयि । इत्यादि तस्य स्वप्नांतः, श्रुत्वाऽरुद्यत सेवकैः ॥ ७६ ॥ तदेकतानध्यानत्वा-त्सभायामपि तस्थुषः । मृगावतीति तस्याऽभू-जने गात्रविपर्ययः ॥ ७७ ॥ न कश्चित्त-|| स्य चानिन्ये, रामस्य हनुमानिव । पत्नीप्रवृत्तिमित्येत-तं दुनोति पदे पदे ॥ ७८ ॥ तस्य मन्वंततराणीव, दुर्दशस्य चतुर्दश । हायनानि व्यतीतानि, प्रियाविरहिणस्तदा ॥ ७९ ॥ कदाचिदुपदाह- | स्तः, स्वर्णापणमहाजनः । नरमेकं पुरस्कृत्य, महीपतिमुपाययौ ॥ ८० ॥ व्यज्ञपयच्च राजेंद्र, कश्चिदेष नरो नवः । विपणावत्र विक्रेतु-मानिन्ये रत्नकंकणं ॥ ८१ ॥ युष्मन्नामांकमेतच्च, वीक्ष्यास्माभिः सविस्मयः । इहोपानीतमित्युक्त्वा, वणिजस्तदढोकयन् ॥ ८२ ॥ नृपोऽप्यादाय तदेवी-करसंपर्कपावनं । उरसि प्रबलप्रेमा, ददौ दभ्यो च चेतसि ॥८३ ॥ मम प्राणेश्वरी क्वापि, किमु प्राणैरमुच्यत । एतस्या हस्तमध्यास्त, यदिदं रत्नकंकणं ॥ ८४ ॥ अनिष्टयाऽनया यद्वा, किममंगलचिंतया । रत्न
Page #11
--------------------------------------------------------------------------
________________
॥९
॥
मृगावती कंकणवृत्तांतं, वेनि तावन्नरादतः ॥ ८५ ॥ इति ध्यात्वा तमप्राक्षीद-भूपतिर्भद्रको भवान् । कथं वा |
| क्वापि वा लेभे, त्वयेदं कंकणाद्भुतं ॥ ८६॥ | अथासौ कथयामास, पृथिवीश निशम्यतां । व्याधोऽहं भीमनामास्मि, मलयोपांतभूमिषु ॥८॥ | उपादाय मयानेक-मत्ताऽनेकपकुंभतः । मुक्ताभिभूषितश्चक्रे, सर्वो व्याधवधूजनः ॥ ८८ ॥ चित्र-| | कायनिकायो यः, प्रसभं निहतो मया । तस्यैताः कृत्तयश्चित्रा-श्चित्रं सर्वत्र कुर्वते ॥ ८९ ॥ एक-16 | दाऽपश्यमुत्पश्य-न्मयूखमणिशेखरं । श्रीखंडतरुखंडेषु, विचरंतमहीश्वरं ॥ ९० ॥ अथ स्फुटस्फटा- | रत्न-जिघृक्षालिप्तमानसः । तं कथंचिन्महाभीम, भोगिनं धृतवानहं ॥ ९१ ॥ तस्य कुंडलिनस्तुंड-| |च्छेदच्छेकां कृपाणिकां । व्यापारयंस्तदाऽश्रोषं, मामेति ध्वनिमुच्चकैः ॥ ९२ ॥ ध्वनेरध्वनि नि| क्षिप्त-चक्षुषा बोक्षितो मया । बालकः पाणिमुद्यम्य, प्रतिषेधपरः पुरः ॥ ९३ ॥ मया गले गृहीत- IN स्य, तस्याहे लकंप्रति । पेतुर्बाष्पतरत्तारा, दैन्यैकपिशुना दृशः॥ ९५ ॥ मयापि बालमालोक्य, त्रै- 12 लोक्याश्चर्यकारिणं । मेने मानुष्यलोकोऽयं, स्वर्गलोकविजित्वरः ॥ ९५ ॥ पिबन् रूपामृतं तस्य, ने-121
Page #12
--------------------------------------------------------------------------
________________
॥१०॥
मृगावती त्रांजलिपुटैरहं । न प्राप्नुवं नवं स्मेर-विस्मयस्तृप्तिसंपदं ॥ ९६ ॥ उपेत्य मामसो डिंभः, ससंरंभम
भाषत । माम मास्म वधीाध, नागमेनमनागसं ॥ ९७ ॥ प्रिये पल्लवितानंद-चंदनद्रुमकानने। अयं भोगो महाभाग, क्रीडाभिरभिनंदतु ॥ ९८ ॥ अथाहमवदं भद्र, भद्रमस्येष्यते त्वया । न पुनमें दया ह्यस्ति, तृष्णानिष्णातचेतसः ॥ ९९ ॥ असावतिचिराल्लब्धो-ऽधुनाऽनयों मया मणिः । भविता मम कांताया, मुक्ताहारस्य नायकः ॥ १०० ॥ मणिमात्रकृते त्वं चे-नागमेनं हनिष्यसि । मावधोस्ते मणान् दास्ये, प्रोच्येत्यारादसौ ययौ ॥१॥ देहि मे कंकणं मात-रिति याचि तयाऽर्पितं । जनन्याऽभ्यर्णवर्त्तिन्या, तदादायाययो पुनः ॥ २॥ मामवादीच सोत्साहं, गृहाणेदं च कंकणं । नागं| मुंचेत्यसौ जल्प-नेतदर्पितवान् मम ॥ ३॥ एष नागशिखाचुंबी, मणिः ककंणवर्तिनः । एकस्यापि । | मणेर्मासा-मंशं नाप्नोति षोडशं ॥ ४ ॥ अयं च वाक्सुधासिंधु-भृशमर्थयते शिशुः । जीवत्वयमिति |
ध्यात्वा, तं नागं मुक्तवानहं ॥ ५॥ युग्मं ॥ तं पन्नगं विपन्नद्या, आकृष्य विकसन्मुखः । अत्युदा-| व तकुलो बालः, स्वस्थानमगमत्ततः ॥ ६॥ असामान्यगुणग्रामं, प्राणरक्षापरायणं । अधर्मणमनोवृत्तिः, ।।
000000
॥
Page #13
--------------------------------------------------------------------------
________________
मृगावती
॥ ११ ॥
पन्नगोऽपि तमन्वगात् ॥ ७ ॥ शिशोस्तेन पवित्रेण, चरित्रेण चमत्कृतः ॥ अहमप्येत्य गेहिन्याः, कंकणं तदुपानयम् ॥ ८ ॥ इदानीं पंचमाद्वर्षात्, समर्प्य मणिकंकणं । प्रेमप्रकर्षवाहिन्या, गेहिन्या प्रहितोऽस्म्यहं ॥ ९ ॥ भणितश्च तथा कांत, कौशांबीं गच्छ संप्रति । एतद्विक्रीय मद्येोग्यं, ताडंकद्वयमानयेः ॥ १० ॥ ततः प्रापमिहादाय, तदेतन्मणिकंकणं । या देवेन समादिष्टा, तदियं कथिता कथा ॥ ११ ॥ क्षितीशः शुश्रुवानेवं, चिंतयामास चेतसि । दिष्ट्या जीवति देवीति मत्वा हृदय नृत्यतां ॥ १२ ॥ अचिरान्नयने भावि, भवतोरपि पारणं । भावता तत्परीरंभा-द्वांछितं वां भुजावपि ॥ १३ ॥ यथाश्रुतः सुतोऽप्येष मदीयो यदि संभवेत् । जयत्येकः शतानीक- स्तदा स्वर्भूर्भुवस्त्रये ॥ १४ ॥ | ममेदृशी कुतो वास्ति, भाले न्यस्ताक्षरावलिः । भवेद्रामस्य सीतेव, मम लभ्या मृगावती ॥ १५ ॥ पंचतरा वार्त्ता, यद्यप्येषा तथापि तं । देशं गंतास्ति तत्पूत - मित्यालोच्य नृपोऽवदत् तं देशं दर्शयास्माकं महाभाग भवाग्रतः । इत्युत्क्वा तस्य ताडंक - प्रभृत्याभरणं ददौ महाजनं विसृज्याथ, न्यस्य राज्यं युगंधरे । सुप्रतीपेन सेनान्या, सहितश्चलितो नृपः ॥
॥
१६ ॥
॥
१८ ॥
१७ ॥
चरित्रम्
॥ ११ ॥
Page #14
--------------------------------------------------------------------------
________________
मृगावती
॥१२॥
| तेनाखंडप्रयाणेन, प्रपेदे मलयाचलः । भूमिविदाथ मीभेन, जगदे जगदीश्वरः ॥ १९ ॥ स एष | मलयो देव, यन्मैत्रीमात्रगर्वितः । अभृद्विरहिणां नूनं, सद्यः प्राणहरो मरुत् ॥ २० ॥ राजस्तवानुजोवातु-वल्लभालाभतोऽस्त्वयं । इदानीं त्वनुजानीहि, स्वस्थानं गमनाय मां ॥ २१ ॥ पावनः पुरतो देव, मुनीनामयमाश्रमः। तपस्विशापभीरूणां, मादृशां न हि गोचरः॥ २२ ॥ उपकारोत्तमर्णस्य, तस्याढ्यं करणं धनं । प्रसादीकृत्य कृत्यज्ञो-ऽनुमेने गमनं नृपः ॥ २३ ॥अथोत्सुकः पुरो गच्छं-स्तुच्छेतरपरिच्छदः । सुप्रतीपं समीपस्थं, सप्रसादं जगाद सः ॥२४॥मृगावतीवियोगात,प्रवर्धिष्णुरसो भृशं । उन्मदश्चंदनामोदो, मां दुनोति पदे पदे ॥ २५ ॥ धैर्यं ममापि केकाभिः, खंडयंति शिखंडिनः | ।। एतदभ्यर्णकर्णा तु, कथं देवी भविष्यति ॥ २६ ॥ यथामी तरवो मुले, वेदीबद्धमनोहराः । तथा | ध्रुवमहं मन्ये, तापसानामियं मही ॥ २७ ॥ कृतमालतमालादि-पादपश्रेणिसंकुलाः । नेत्रानंदक्षमां लक्ष्मी, दधत्याश्रमभूमयः ॥ २८ ॥
बहिस्तपोवनस्थाना-दवस्थाप्य वरुथिनीं । नृपोऽथ सुप्रतीपेन, सममाश्रममाविशत् ॥ २९ ॥
॥१२॥
Page #15
--------------------------------------------------------------------------
________________
मृगाव
चरित्रम्
॥१३
D®000000
| अदर्शयच्च तस्यासी, पुरः पश्य तरोरधः। सिंहोत्संगनिषण्णेनं, नकुलाश्रितपन्नगं ॥३०॥ तप- स्विकन्यकाहस्त-न्यस्तान् विश्वस्तचेतसः । रभसेनेह नीवारान्, मृगाः कवलयंत्यमी ॥ ३१ ॥ ममायं पश्य दंडेश, बाहुः स्फुरति दक्षिणः । एतच्च दक्षिणं चक्षु-रयं चाधरपल्लवः ॥ ३२ ॥ सेनानोरवदद्वस्तु, दर्शयन्निदमद्भुतं । पुष्पितः शकुनस्तेऽसौ, फलिष्यति पुरः पुनः ॥ ३३ ॥ बालोऽपि महिमाभोग-सुभगो भावुकोदयः । कश्चिन्मुनिकुमारोऽय-मित एवाभिवर्त्तते ॥ ३४ ॥ बालः किरणमालीव, दुरालोकः स्वतेजसा । अथवेंदुरिवानंद-निस्पंदी नेत्रयोरयं ॥ ३५॥ क-| | थंचिद् दुर्मनीभृतः, सैष वाक्यैः प्रियंकरैः । ज्यायसा मुनिना तेन, प्रणयादनुनीयते ॥ ३६ ॥ ऊचे नृपश्च भूनाथं, कथं बालोऽत्र मे दृशः । निर्वृत्ताः कुर्वते वार्ता, नैव व्यावर्त्तनं प्रति ॥ ३७॥
अस्मिन्नदृष्टपूर्वेऽपि, किमु स्निह्यति मे मनः । तदयं किं स नागस्य, न भवेदभयंकरः ॥ ३८ ॥ | एतैर्वा किमु संकल्पै–रेतन्निश्चिनुगो मुनेः । एवमालोच्य तो प्रीत्या, ततस्तं जग्मतुतिं ॥ ३९ ॥ | अभिवंद्य गतावद्यौ, तत्सांत्वनपरं मुनिं । तो रसालतलासीनं, नत्वासीनो बभूवतुः ॥ ४० ॥ नृ
Page #16
--------------------------------------------------------------------------
________________
मृगावती पोऽपृच्छन्मने बालः, कोऽयं वा कस्य वा सुतः । कास्य वा जननी धन्या, किं चायं दुर्मनायते चरित्रम् ॥ 8॥ ४१ ॥ मुनिरुचे कथामेनां, कथयामि निशम्यतां । महातपस्विनां धाम, धर्मारामोऽयमाश्रमः ||
| ॥ ४२ ॥ ब्रह्मभृतिरिह ख्यातः, पतिरास्ते तपस्विनां । विश्वभृतिः प्रियः शिष्यः, सदयस्तस्य वि| श्रुतः ॥ ४३ ॥ सोऽन्यदा मुक्तिसंदेशा-दादेशात्स्वगुरोर्गतः । समित्समृद्धिमानेतुं, मलयानेरधित्यकां ॥ ४४ ॥ अकस्माद्विस्मयोत्फुल्ल–नेत्रः कोसुंभवाससां । सपुष्पमालां मूर्छालां, बालामा| लोकयच्च सः ॥ ४५ ॥ तस्याः प्रशस्यकारुण्यः, स्वकमंडलुवारिभिः । मूर्छाछेदाय सौत्सुक्य-छे-10 कः सेकं चकार सः ॥ ४६ ॥ ततोऽधिगतचैतन्या, वितन्याश्रुकणोत्करं । स्फीतप्रीतिरवा पूर्णरोदोरंधे रुरोद सा ॥ ४७ ॥ आर्यपुत्र महाबाहो, रक्ष रक्ष क्षितीश्वर ॥ इत्थं सा रुदती शैल-पादपानप्यरोदयत् ॥ ४८ ॥ आकस्मिकः कथं नाथ, प्रथमो मे समुत्थितः । भवदुत्संगखेलिन्या, दु-10 स्सहो विरहानलः ॥ ४९ ॥ त्वद्वियोगे मया स्वामिन्, भवेन्मृत्युरुपासितः। यदि न स्यात्तव न्या। सो। गर्भमूर्तिर्मदंतिके ॥ ५० ॥ पर्वतः सर्वतो भीमः, पद्भ्यां चंक्रमणक्रमं । नैव जीवेश जानामि, IRI
।॥१४॥
Page #17
--------------------------------------------------------------------------
________________
मृगावती
॥१५॥
त्वत्प्रसादवशंवदा ॥ ५१ ॥ तदिदानीमनाथाहं, नाथ यूथपरिच्युता । मृगीव क्व विभो यामि । श्र-IRIचरित्रम | यामि शरणं च कं ॥ ५२ ॥ विलपानिति कुर्वाणां, करुणाक्षीरसागरः। कांदिशीकदशां दीनां, | स्पृशंती व्याहरन्मुनिः ॥ ५३ ॥ आयें मास्म स्पृश त्रास—मेषोऽस्मि तव बांधवः । सममेहि मया ध्वस्त-समस्तश्रममाश्रमं ॥ ५४ ॥ बांधवेति ध्वनिं श्रुत्वा, सुधासिक्तेव सा मुदा । मुनिं निभाल| यामास, स्वच्छवत्सलया दृशा ॥ ५५ ॥अवादीच ममायापि, भाग्यं जागर्ति किंचन । लीलया शोलर
क्षायै, बंधुर्यन्मिलितोऽसि मे ॥ ५६ ॥ श्रियं च प्रियसंगं च, देवेन हरतापि मे । न किंचन हृतं || | मन्ये, शीलं चेन्निर्मलं मम ॥ ५७ ॥ तव निःकृत्रिमप्रीते-बंधोवेश्मनि निर्वृता । सीतेव वज्रजंघस्य, |
प्राप्नुयां प्रसवोत्सवं ॥ ५८ ॥ । इति व्याहृत्य सा बाला, सहिता विश्वभृतिना । गत्वाश्रमे कुलपति, ब्रह्मभृतिमवंदत ॥ ५९॥ सार्वभौमः सुतो भृया-द्भवत्याः प्रियदर्शने। इत्याशीभिर्मुनींद्रेण, सत्याभिः साभिनंदिता ।। ६० ॥ तेनैवाथ तदुक्तेन, तां नाम्ना प्रियदर्शनां । प्रणयाद्विनयप्रा-माह्वयंति सती जनाः ॥ ६१ ॥ तया |
॥१५॥
Page #18
--------------------------------------------------------------------------
________________
मृगावती | सद्गुणया लक्ष्मी-प्रियंभावुकदेहया । तडाग इव पद्मिन्या, शुशुभेभृशमाश्रमः ॥ ६२ ॥ खसुताया चरित्रम्
इवोन्मीलन-ब्रह्मणा ब्रह्मभूतिना ॥ अक्रियंत क्रियाः सर्वा-स्तस्याः पुंसवनादिकाः ॥ ६३ ॥ अंबा- 10 ॥१६॥
| भिरिव वृद्धाभि-स्तापसीभिः पदे पदे । स्वयं विहितशुश्रूषा, सा गर्भ पर्यपालयत् ॥६३॥ स्वं क्षेत्रं | च स्वमुच्चत्वं । गतवत्सुग्रहेष्वथ ॥ योगं पुष्यति पुष्पेण, रजनोजीवितेश्वरे ॥ ६४ ॥ स्वैरमुज्जागर-IN ज्ज्योति-र्ध्वस्तांधतमसोदयः । प्रादुर्बभूव पूर्वस्यां, भानुस्तस्यां च नंदनः॥ ६५ ॥ युग्मम् ॥ उदं- 10 चत्पुष्परोमांचा-स्तदानीं काननश्रियः । शकुनिध्वनिभिश्चक्रुः, प्रमोदोलूलुमंगलं ॥ ६६ ॥ आश्रमस्य । | महोत्साह-कारणं द्वारि तोरणं । चक्रे मुनिभिरानंदा-न्माकंदतरुपल्लवैः ॥ ६७ ॥ भवादृक्षोऽजनि IRI R क्षोणी-रत्नं कश्चित्पुमानिति । दिक्पालानामिवाख्यातुं, प्रचेलर्दिक्षु पक्षिणः ॥ ६८ ॥ उच्चैःस्वरेण No संभृय, बटवः पटवस्तदा । पेठुः पाठांश्च शास्त्रस्य, मांगल्यस्य ध्वनीनिव ॥ ६९ ॥ मरंदबिंदुनिः
D स्पंद-शमिताश्रमरेणवः । पतद्भिस्तरवः पुष्पैः, पुष्पप्रकरमादधुः ॥ ७० ॥ न परं मुनिपत्नीनां, स्व- An६॥ IA भावस्निग्धचेतसां । मुखमुज्ज्वलमत्यंतं, बभूव ककुभामपि ॥७१॥ तपखिसेचनश्रेयः-सवंती स्नान-11
Page #19
--------------------------------------------------------------------------
________________
मृगावती | पावनः । मंदमांदोलितांभोज-काननः पवनो ववौ ॥ ७२ ॥ प्रत्येकमुटजद्वारि, वल्कलैदरमुच्छ्रितः। चरित्रम्
चके तज्जन्ममुदितै-श्चेलोत्क्षेपस्तपस्विभिः ॥७३ ॥प्रथम बांधवं तस्या, वनवृद्धास्तपोधनाः। आशी-|| | भिर्वर्धयंतिस्म, नीवाराक्षतपाणयः ॥ ७४ ॥ वैखानसान्वितास्तस्याः, सूतिकर्म कृपापराः। तत्तन्निवर्त्तयांचऊ-रहंप्रथमिकया रयात् ॥ ७५ ॥ न केवलं तदा प्रापुः, सुखं वैखानसा परं । अमुक्तोट| जपर्यंता-स्तियंचोऽपि मृगादयः ॥ ७६ ॥ स्वयं कुलपतिस्तस्य । शिशोर्जात्यमणेरिव । तदा चकार | संस्कार-माढयं भावुकतेजसः ॥ ७७ ॥ किमस्य नाम संस्थाप्य-मितिचिंतापरैस्तदा । ईदृशी ता| पसैव्योंन्नि, समाकण्यंत भारती ॥ ७८ ॥ कलाकलापसंपूर्णः, क्षोणीरक्षणदक्षिणः। असावुदयनो नामा, सार्वभौमो भविष्यति ॥ ७९ ॥ निशम्यैवं क्रियाः सम्य-विधाय ब्रह्मभूतिना । तदेवास्य तदा नाम, विधिज्ञेन व्यधीयत ॥ ८० ॥ स ताभिर्मुनिनारीभि-चिंत्यमानो निरंतरं । वने रसाल| वहालो, दधौ वृद्धिं दिने दिने ॥८१ ॥ भूतपूर्वनरेंद्रेण, मुनींद्रेण यथोचितं । ग्राहितः प्रतिभोत्तालः, DIL स बालः सकलाः कलाः ॥ ८२ ॥ इदानीं तु किमप्यन्य-तस्य तेजो विराजते । सहते न तिरस्कारं,
400 040000. 40%
॥१७॥
Page #20
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती यथा कुलपतेरपि ॥ ३ ॥ मदाऽसहिष्णुः समदैः । कलभैः कलहायते । साहंकारान् सहुंकारः, स
| निहंति हरीनपि ॥ ८४ ॥ अधमाधमधौरेयः, पातकी स पिता तव॥स्मरत्यद्यापि निर्लजो, न यः पुत्र-IN ॥१८॥
| कलत्रयोः ॥ ८५ ॥ श्रुत्वेति तातवैभाष्यं, हास्यात्केनाप्युदीरितं । स्फुरत्कोपफटाटोपः, स फणीवाद्य
ताम्यति ॥ ८६ युग्मं ॥ असूयति तपखिभ्यो, न मुनींद्रं नमस्यति । आश्रमेऽपि स विश्राम, नैव | रोषाचिकीर्षति ॥ ८७ ॥ नवपक्षवलोत्कंठ-पक्षीवोड्डीय स क्षणात् । झटिति तत्पितुः पार्श्व-मुका त्सुको गंतुमिच्छति ॥ ८८ ॥ सर्वैर्निवार्यमाणोऽपि, मात्रा वित्रासितोऽपि च । भोक्ष्येऽयं पितरं वी-10
क्ष्य, प्रतिज्ञामिति स व्यधात् ॥ ८९ ॥ असामान्यमनःस्नेहा-दन्वितो विश्वभूतिना। उत्तालः सो- | ऽधुना बाल-श्चचाल व्यालवबलात्॥९०॥ विश्वभूतिर्मुनिः सोऽह-मसावुदयनः स च। तदत्रानुनयाम्येन-माग्रहग्रहिलीकृतं॥९१॥ एतन्मातापि सप्रेमा,स्वप्रेयसि महासती। इदानीमनुगच्छंतो, सुतमेष्यति सत्वरं॥९२॥ एवमाकर्ण्य तां वाचं, वाचंयमशिरोमणेः। सवितर्कस्पृहौत्सुक्यो, बालमालोकयन्नृपः॥९३॥ अवोधत च दंडेश, सदृशोऽयं कथारसः । परं क भागधेयाना-मीदृशामहमास्पदं ॥ ९४ ॥ मन्ये धन्यं ।
OOOOOOO
॥१८
Page #21
--------------------------------------------------------------------------
________________
मृगावती
॥ १९ ॥
तमेवाहं, बालार्क इव तेजसा । अलंकरोति यस्यायं, बालः कुलनभस्तलं ॥ ९५ ॥ व्याजहाराथ तं दूर-प्रसारितभुजद्वयः । एह्येहि वत्स सर्वांगे, ममालिंग्य सुखं कुरु ॥ ९६ ॥ अहमेकं शतानीकं, पितरं वेद्मि नेतरं । इति वाचा निरायके, बालस्तं न तु चेतसा ॥ ९७ ॥ सुप्रतोपस्ततः प्राह, देव | दृग्दीयतामितः । देवीयं राज्यजीवातु - दिष्ट्याऽभ्येति मृगावती || ९८ || नव्यवानेयपाथेय - पा णिभिर्मृदुवाणिभिः । अन्वीयमाना पर्यश्रु – मुनिसोमंतिनोजनैः ॥ ९९ ॥ हृद्यवायफलोपेता, पुष्पमालोपशोभिनी । संवीतवल्कला साक्षा- इनश्रीरिव सव्रता || २०० || क्षणं स्निग्धे क्षणं रूक्षे, क्षणं धीरे क्षणं चले । ससंदेहतया देवी, न्यस्यंती च विलोचने ॥ १ ॥ चतुर्भिः कलापकं ॥
उन्मीलन्नेत्र पद्मेन, निश्छद्मप्रेमशालिना । राज्ञा हस्तगताऽज्ञायि, तामालोक्य त्रिलोक्यपि ॥ २ ॥ सुप्रतीपं नृपः प्राह, जीवंस्तद्विरहेऽप्यहं । दर्शयिष्ये कथं देव्या - स्त्रपावनतमाननं ॥ ३ ॥ ७ त्रपाकर्तृकमेतस्या, न मालिन्यं मनागपि । मदीयगर्भनिक्षेप - रक्षिणीयं स्थिता यतः ॥ ४ ॥ तद्गच्छ भद्र याचेथा - स्तथा विस्मृतिमागसां । मयि धत्ते यथा देवी, प्रसादविशदं मनः ॥ ५ ॥ सुप्र
चरित्रम्:
॥१९॥
Page #22
--------------------------------------------------------------------------
________________
मृगावती
॥ २० ॥
तीपस्ततोऽभ्येत्य सादरः पादयो रुदन् । निपपात मृगावत्या - स्तापसीनां पुरस्तदा ॥ ६ ॥ साथ नाथविपद्वीप, सुप्रतीप श्रय श्रियं । इत्याश्वास्य तमुत्थाप्य, निजगाद सगद्गदं ॥ ७ ॥ बहुप्रियस्य भूभर्तु - रस्याहं यदि विमृता । तेजोमयः किमात्मीयः, सैष न्यासोऽपि विस्मृतः ॥ ८ ॥ | विदीर्णप्रायहृदये, श्रुत्वेदं मेदिनीपतौ । तथा चोदयंने पश्य – त्यानंदोत्फुल्ललोचने ॥ ९ ॥ यां दशामन्वभूदेव - स्तां विदुर्देवताः परं ॥ तदेषः खिद्यते देवि, प्रसादः क्रियतामतः ॥ १० ॥ इति विज्ञप्य सेनानी - रानीय शिरसि क्रमौ । सर्वेषां पश्यतां तस्या, निजकेशैरमार्जयत् ॥ ११ ॥ भिविशेषकं ॥ उपसृत्य ततः साश्रु - स्मेरप्रेमा मृगावती । स्निग्धचक्षुः सरोमांचा, जीवितेशमवोचत ॥ १२ ॥ लज्जया वाङ्मुखं नाथ, कुर्वीथा मुखमुन्मुखं । प्रेयसी नास्मि चेत्कस्मा - दियंतीं भुवमभ्यगाः ॥ १३ ॥ निजमेतज्जगज्जैत्रं, पुत्रपर्यायमंजसा । मत्प्राणरक्षणारक्षं कुर्वन्नुग्रहपात्रतां ॥ १४ ॥ ऊ सुतं च यत्र त्वं, सोत्कंठः सैष ते पिता । स्वयमागात्तदुत्तिष्ट, वत्स भक्त्या प्रणम्यतां ॥ १५ ॥ उत्थायोदयनः पादो, ववंदे च पितुर्मुदा । समारोप्य पिताप्यंक - मेनमानंदतोऽवदत् ॥ १६ ॥ महो
चरित्रम्
॥२०॥
Page #23
--------------------------------------------------------------------------
________________
मृगावती
% 20
॥२१॥
@
@
त्सवोऽद्य वत्सेषु, श्रीरद्याश्रयनिर्वृता । दृढालंबाद्य कौशांबी, वत्स त्वयि विजित्वरे ॥ १७ ॥ वाचंय| ममथाऽवोच-न्मुने न प्रभविष्णवः । तवोपकारव्यापार-कथाव्यावर्णने वयं ॥ १८ ॥ देवों दैववशाप्राप्त-पर्वतामुपकुर्वता । त्वयाद्य मम गोलस्य, प्राणसत्रमसूत्र्यत ॥ १९॥ ततस्तैः सहितो गत्वा -ऽनमत्कुलपतिं नृपः । असावाभिराशीभि-रभ्यनंददमुं मुहुः ॥ २० ॥ तस्यासाद्य ततोऽनुज्ञामनुज्ञापिततापसः । समं पुत्रकलत्राभ्यां, प्रतस्थे नगरी नृपः ॥ २१ ॥ स्कंधावारमधिष्ठाय, प्रयाणोत्सुकमानसः । अतिक्रम्य क्रमान्मार्ग, स निजामागमत्पुरीं ॥ २२ ॥ ततो युगंधरामात्य-प्रवर्तितमहोत्सवं । सोऽध्युवास पुरीमध्यं, मध्यंदिनरविद्युतिः ॥ २३ ॥ तदा रराज राजेंदु-र्जनेंदीव| रबांधवः । शुभ्रधवलयन् सांद्रे-यशश्चंद्रातपैर्दिशः॥ २४ ॥ संचरिष्णुः सदाचार-पूतात्मनि स व
मनि । अहल्यास्खलितं मेने, तृणाय त्रिदशाधिपं ॥ २५ ॥ देन्यवंतः कृपावत्या । मृगावत्याथ मो- 10/ | चिताः । विपक्षक्षोणीभृबंदि-गणास्तस्या जगुर्यशः ॥ २६ ॥ तया देव्या तथा दाना-दीनोद्ध- 12 रणमादधे । अजायत यथा नून-मदीनं मेदिनीतलं ॥ २७ ॥ मर्माविधमधर्मस्य, जीवितं सुख
@
@
॥२१॥
@
Page #24
--------------------------------------------------------------------------
________________
॥ २२ ॥
मृगावती संपदां | जिनधर्मं पुरस्कृत्य सा तेपे दुस्तपं तपः ॥ २८ ॥ प्राणिनां मृत्युभीताना -मभयोघोषणादिकं । भूरिभद्रंकरं कर्म, निर्ममे सा दिवानिशं ॥ २९ ॥ तं जग्राह गुणग्रामं, कुमुदोदरसोदरं । कुमारोऽपि समारोऽपि, मानसे न कोविदैः ॥ ३० ॥ आस्थानीमास्थिते राज्ञि, कुमारसहितेऽन्यदा । वोणां च वादयामास, विज्ञः कश्चित्तु वैणिकः ॥ ३१ ॥ स वीणापाणिरारेभे, कुमारोऽप्युपवैणवं । प्रादुष्करोति हि गुणी, गुणं गुणवतां पुरः ॥ ३२ ॥ कुमारवल्लकीनाद - सुधापानैः सभासदां । अक्षैरन्यैर्निजैकत्र, श्रोत्रे वृत्तिः समर्पिता ॥ ३३ ॥ तेनोपवीणिते गीत - प्रबंधे मूर्धभिश्चलैः । सदः पद्म| वनं वायु - लोलैरब्जैरिवाबभौ ॥ ३४ ॥ कलाकौशलमालोक्य, सुतस्याऽलौकिकं तदा । विस्मयस्मेरिताक्षेण, क्षोणीपालेन पिप्रिये ॥ ३५ ॥ जगदे च कुतो वत्स, संक्रांतोऽयं कलाक्रमः । न मानुषीषु भूमिषु, सैषा शिक्षा निरीक्ष्यते ॥ ३६ ॥ व्याजहार कुमारोऽथ, विनयाद्विहितांजलिः । कथावधानदानेन, क्षणं देवः प्रसीदतु ॥ ३७ ॥ कंकणेन फणी पूर्वं मया व्याधाद्विमोचितः । अनुगम्य स मां किंचि - दिव्यमूर्त्तिरवोचत ॥ ३८ ॥ राजपुत्रात्मनो मित्रं, जन्मांतरतिरोहितं । मुख्यं नाग
चरित्रम्
॥ २२ ॥
Page #25
--------------------------------------------------------------------------
________________
मृगावती । | कुमाराणां, विद्धि मां किन्नराभिधं ॥ ३९ ॥ त्वत्कारुण्यपरीक्षार्थ, नागरूपं मया कृतं । अन्यथा
| किंचन व्याधिः, स व्याधः प्रभवेन्मम ॥ ४० ॥ कारुण्येन तवानेन, मदीयं मुमुदे मनः । को वा ॥२३॥
मित्रावदातेन, दानेन च न तुष्यति ॥४१॥ शतानीकः पिता यस्य, माता यस्य मृगावती॥ त्रैलोक्या
द्भुतरूपस्य, तस्य किं वर्ण्यते तव ॥ ४२ ॥ एतस्माद्धर्मजीवातोः, करुणापरिणामतः । उन्मीलत्पुण्यसंभारः, सार्वभौमो भविष्यसि ॥४३॥ राज्यं निष्कंटकं दीर्घ-मायुर्वपुरनामयं । करुणाकल्पव- | | स्लीयं, प्रसूते तदिदं फलं ॥ ४ ॥ किंचास्ति बहुरत्नेति, पाताले नगरी मम। क्रीडास्पदं सखे तत्तां, lo | पुनीहि पदपांशुभिः ॥ ४५ ॥ प्रथमप्रार्थनां नैनां, वृथा त्वं कर्तुमर्हसि । इत्युदोर्य बलात्तस्यां, | | सोऽतिस्नेहान्निनाय मां ॥ ४६॥ अमरावत्यहंकार-निराकरणकोविदा । मणिक्षीणतमः पक्षा, प्रेक्षा| चके पुरी मया ॥ ४७ सत्कारस्तत्र यस्तेन, निर्मितो मम तं पुनः । नाहं सहस्रजिह्वोऽपि, ध्रुवं श-161 नोमि जल्पितुं ॥ ४८ ॥ इयं घोषवती तेन, दत्ता सोपनिषन्मम । जन्मांतराधमर्गेन, ऋणं सर्वत्र दीयते ॥ ४९ ॥ कियतोऽपि मया काला-न्मातुरातुरमानिना । स प्रार्थितः सखे यत्र, ममांबा |
0000-04
100%00000
॥२३॥
Page #26
--------------------------------------------------------------------------
________________
मृगावती
॥ २४ ॥
तत्र मां नय ॥ ५० ॥ ततस्तेनाहमानीतः, कृशामकुशवैवशां । मन्मार्गदत्तनयना - मपश्यं जननीं निजां ॥ ५१ ॥ किन्नरोऽपि नमन्मौलिः, प्रणम्य मम मातरं । साश्रुर्जगाद मे दिवि, विप्रियं क्षम्यतामिदं || ५२ || यदेनमंब निर्बंधा - न्नयता तनयं तव । भूयः संधुक्षितो दूरं मया दुःखाशुशुक्षणिः || ५३ ॥ किं चातः पंचमे वर्षे, संयुज्य प्रेयसा समं । भुक्त्वा साम्राज्यलक्ष्मी च क्रमाद्भर्तुः सुतस्य च ॥ ५४ ॥ स्वयं वोरजिनेंद्रेण, दत्तमासेदुषी व्रतं । लप्स्यसे तामपि स्फीतां, मातनिःश्रेयसश्रियं ॥ ५५ ॥ युग्मं ॥ कदाचित्किंकरत्वेन, स्मर्त्तव्योऽयं जनः पुनः । इत्यामंत्र्य स नौ स्नेहाद्, भुजंगोऽगाद्यथागतः ॥ ५६ ॥ ततोऽभूत्पंचमे वर्षे, देवेन सह संगमः । विज्ञप्ता तातपादाना — मियं घोषवतीकथा ॥ ५७ ॥
इत्याकर्ण्य महोनाथः, सप्रमोदमचिंतयत् । श्लाघ्योऽहं यद्गुणैरेवं, सुतेनास्मि पराजितः ॥ ५८ ॥ भानुनेवामुना रेजे, मम गोत्रनभस्तलं । राज्यं त्रिजगदिष्टेन, सावष्टंभमनेन मे ।। ५९ ।। कृत्वैवं मानसे भूमि- - वासवः शुभवासरे । राज्यमूलां कुमाराय यांवराज्यश्रियं ददो ।। ६० ।।
चरित्रम्
॥ २४ ॥
Page #27
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
॥२५॥
604040040%
| महेभः कलभेनेव, किशोरेणेव केसरी । उन्नतेन ससत्वेन, कुमारेण बभौ नृपः ॥ ६१ ॥ महाबलेन भूपाल-प्रतापाग्निरदोप्यत । तथा तेन यथाऽधाक्षी-टैरिवंशानशेषतः ॥ ६२ ॥ सूनुना राज्यधुर्येण, सूर्य निर्जितवान्नृपः । सुतस्तस्य शनियन, नाभूपितृपदक्षमः ॥ ६३ ।। कीर्ति चिराय चतुरर्णवकूलपालि-लीलावनभ्रमणदुर्ललितां विधाय । एकातपत्रमनुपुत्रमभुक्त लक्ष्मी,सक्ष्मापतिः पृथुगुणः प्रशशास पृथ्वी ॥ ६४ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते धर्मसारे मृगावतोचरित्रे | | मृगावतोसमागमो नाम प्रथमो विश्रामः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ द्वितीयो विश्रामः प्रारभ्यते ॥ ____ एकदानेकसामंत-संकुलं कुलकौस्तुभः। विस्मयस्थानमास्थान-मध्युवास नराधिपः॥१॥ विन। यावनतो भूत्वा । भूपतेः स्वःपतेरिव । जयंत इव पादांते, कुमारोऽपि न्यविक्षत ॥ २ ॥ विद्यावृद्ध| वयोवृद्ध–समृद्धश्रियमात्मनः ॥ सभां जितसुधर्माण-मालोक्य मुमुदे नृपः ॥ ३ ॥ अथ प्रसृ
Page #28
--------------------------------------------------------------------------
________________
मृगावती
॥ २६ ॥
& G
94694
मरप्रीति — विकस्वरविलोचनः । स पुरस्तात्तमस्तोकं, सभालोकमभाषत ॥ ४ ॥ दंतिनस्ते तुरंगास्ते, ते रथास्ते पदातयः । स कोशः सा च कौशांबी, तन्न यन्नास्ति वस्तु मे ॥ ५ ॥ तथापि बहु श्वानो, भवंतः कथयतु तत् । अन्यस्य भूपतेरस्ति, प्रशस्यं नास्ति यन्मम ॥ ६ ॥ इति राज्ञोदिते दूतः, पराकूतविचक्षणः । दृष्टपूर्वी पुरीः सर्वाः, कार्यसिद्धाभिधोऽभ्यधात् ॥ ७ ॥ देव देव किरीटाग्र - शि खाचुंबिपदद्वयः । महत्यै स्पृहयत्येव, पुरुहूतोऽपि ते श्रिये ॥ ८ ॥ यत्तेऽस्ति जगतीनाथ, न तदन्यस्य कस्यचित् । तरणेः किरणैः किं नु खद्योतादिषु विद्यते ॥ ९ ॥ केवलं देव ते हर्म्यं, हारिणा चित्रकर्मणा । विकलं तिलकेनेव, वधूवक्त्रं न राजते ॥१०॥ पुष्पशेखर भूभर्तुः, सोधालंकारकारणं । चित्रशालां समालोक्य, कांच्यां चित्रीयते जनः ॥ ११॥ तत्र चित्राद्भुतं दृष्ट्वा, विस्मितेनापि चेतसि । प्रस्तावे देवपादाना - मद्य विज्ञापितं मया ॥ १२ ॥ निशम्य तां गिरं राजा, जज्ञे चित्राय सस्पृहः | चित्रेणाऽप्यधिकं मन्ये, न क्षमंते क्षमाभुजः ॥ १३ ॥ ततश्चित्रकरश्रेणिं, स समाकार्य कार्यवित् || सभामंडपचित्रार्थ - मादिदेश विशारदः ॥ १४ ॥ तद्वृद्वैश्च यथायोगं, तत्र चित्रकरान्प्रति ॥
चरित्रम्
॥२६॥
Page #29
--------------------------------------------------------------------------
________________
मृगावती
॥२७॥
विभागो भित्तिभागेषु, निर्ममे चित्रकर्मणि ॥ १४ ॥ कोऽपि राज्ञोऽवदातानि, वादं कश्चिद्विपश्चितां ।। चरित्रम् प्रचक्रमे चित्रयितुं, महालक्ष्मी च कश्चन ॥१६॥ यस्तु निस्तुषविज्ञान-साध्यचित्रक्रियाक्रमः । अं-10 तःपुरविभागोऽभू-चित्रणीयः प्रयत्नतः ॥ १७ ॥ तत्र चित्रक्रियात्यंत-निपुणो निपुणाभिधः । चित्रं चित्रकरः कर्तुं, सुरेखमुपचक्रमे ॥ १८ ॥ युग्मं ॥ अन्यदा स पदांगुष्टं, मृगावत्याः पटांतरे ।
खन्नखमणिज्योति-र्जटालं क्षणभैक्षत ॥ १९ ॥ स च रूपं मृगावत्या-स्तस्मिन्नालिखितुं क्वचित । कलासर्वखविन्यास–पूर्वमारभत क्रमात् ॥२०॥ तस्मिन्मृगावतीरूपे, तूलिकोन्मीलिते क्षणात् । ऊ- 1 | रुमूले मषीबिंदुः । पपात सहसा ततः ॥ २१ ॥ विषादाश्रुचयं मुंचन्, प्रममार्ज स तं सकृत् । भूयो| ऽपि निपुणं तस्मिन्, कोपादिव पपात सः ॥ २२ ॥ भूयोऽप्यमार्जयखिन्न-मनाः स कथमप्यमुं । | पतिते पुनरप्यस्मि–श्चतुरोऽचिंतयत्ततः ॥ २३ ॥ लांछनेनोरूमूलेऽस्या, भवितव्यमसंशयं । किम| न्यथा मषीबिंदुः, पतत्येष पुनः पुनः ॥ २४ ॥ ममादिष्टं हि तुष्टेन, यक्षेणाध्यक्षमूर्त्तिना। यत्त्वं दृष्टैकदेशोऽपि, सर्व रूपं लिखिष्यसि ॥ २५ ॥ तदस्त्वेष प्रमृष्टोऽपि, पोनःपोन्येन पातुकः । एवं विचिं- ।
00000004
॥२७॥
Page #30
--------------------------------------------------------------------------
________________
चारत्रम्
॥२८॥
मृगावती| त्य तेनासौ, नापनीतो मषीलवः ॥ २६ ॥
III अथोपेत्य पतिर्धात्र्या-स्तत्र चित्रं विलोकयन् । कमात्तत्राययो यत्र, लिखितास्ति मृगावती IA ॥२७|| तस्मिन् मृगावतीरूपे, निकामं मनमानसः । वेद वेद्यांतरं नासौ, योगी लीन इवात्मनि ॥२८॥
अभिरूपं स तद्रूपं, निरूप्य स्म न तृप्यति । वर्णयामास च प्रोति-पुलकांकुरदंतुरः ॥ २९ ॥ स्व-10 स्त्यस्मै केशहस्ताय, भद्रं भालाय जायतां । कल्याणं कर्णपाशाभ्यां, नासावंशाय मंगलं ॥३०॥ | कपोलो बतरे नेत्रे, अरे बिंबाधरः कटः । कंठः कटरे वक्षोजा-वरिरे कटरे करौ ॥३१॥ अहो नाभिरहो मध्य-महो जघनसैकतं । इति वर्णयतस्तस्य, स बिंदुर्दृक्पथं ययो ॥३२॥ तं वीक्ष्य क्षमाप- | | तिर्दभ्यो, सर्वरामाविलक्षणं । मदेकविषयं वेत्ति, देवीलक्ष्मं कथं न्वसौ ॥ ३३ ॥ वीतवीडः स नीडस्थां, | विप्रतार्य प्रियां मम । व्यक्तं संभुक्तवानेष , काकोलः कोकिलामिव ॥ ३४ ॥ अन्यथा कथमत्रैव, || देशे लक्ष्माऽयमालिखत् । अर्थापत्त्यैष तेनाभूदू, मुक्तपूर्वी मृगावतीं ॥३५॥ तदयं यौवेनोन्मादा-दंधी | भूतमनाः खलु । ममावरोधविध्वंसा-जज्ञे धुर्योऽपराधिनां ॥ ३६ ॥ सुजात्यमस्य वैयात्यं, निःसीमं ।
POOOOO
1602040060404040
॥२८॥
Page #31
--------------------------------------------------------------------------
________________
मृगावती | चास्य साहसं । ममाप्यंतःपुरे येन, यद्दत्तं कामसौप्तिकं ॥ ३७ ॥ दंडनीतिविदां दंड्यो, भूपानां पार- परित्रम् २०. दारिकः ॥ 'अन्योऽपि किं पुनः पापः, स्वांतःपुरविलोपकृत् ॥ ३८ ॥ अनेन कृपणान् प्राणान्, प
|णीकृत्य दुरात्मना । कृतं दुःकर्म कोऽप्येति, यस्य दंडो न तुल्यतां ॥ ३९ ॥ एवमालोच्य भूपालः, | करालभृकुटीधरः । तस्य शूलाधिरोपार्थ-मादिशइंडपाशिकं ॥ ४० ॥ धृतपंचशिखः सांद्र-मषी| कृतविलेपनः । विलंबिनिंबप्रालंबः, स्वनद्विस्वरदिडिमः ॥ ११ ॥ प्रसभं रासभारूढः, प्रौढेरारक्षपुरुषैः ॥
। स तैश्चित्रकरोऽयं त-द्वध्यस्थानमनीयत ॥ ४२ ॥ युग्मं ॥ सर्वे चित्रकरास्ताव-देत्य व्यज्ञपय|न्नृपं ॥ स्वामिन् किमिदमक्षत्रं, त्वया राजन् कृतं हि नः ॥ ४३ ॥ तस्मिन्नागसि तस्योक्ते, राज्ञा ते || | जगदुस्ततः। यक्षदत्तवरस्यास्य, नेदमागो मनागपि ॥ ४४ ॥ तत्प्रसीदतु नः स्वामी, वरप्राप्तिकथां 0 | सकृत् । आकार्य निजपादांते, देवो विज्ञापयत्वमुं ॥ ४५ ॥ वरोपपत्तिमाकर्ण्य, प्रत्यक्षेण परीक्ष्य च
। ततः करोतु देवोऽस्य, यन्मनोरुचितं भवेत् ॥ ४६॥ वचोयुक्तिरियं तेषां, नृपतिप्रति मंत्रिभिः । ॥२९॥ Moll युक्तं देव भवत्वेव-मेवं स्थैर्यमनीयत ॥ ४७ ॥ ततः सुवेषमाधाय, तं नरेशनिदेशतः। पुनरास्था- 1
ROPO-FOO O
Page #32
--------------------------------------------------------------------------
________________
99964949494
॥ ३० ॥ ७
मृगावती नमानिन्यु — रारक्षपुरुषाः क्षणात् ॥ ४८ ॥ विज्ञापयेति राज्ञोक्तः, पुनरावृत्तजीवितः । सभासमक्षमक्षोभः, स जगाद कृतांजलिः ॥ ४९ ॥ देवाहमत्रवास्तव्यः, परदारसहोदरः । चिवचित्रकियाडवास- नैपुण्यो निपुणाभिधः ॥ ५० ॥ लक्ष्मीनिकेते साकेते, वृद्धा मातुः स्वसास्ति मे । विचित्राख्यैकपुला सा, पुत्रवन्मयि वत्सला ॥ ५१ ॥ तस्यामुत्कंठितोऽन्येद्यु — रुद्यानश्रेणिसंकुलं । संपदादत्तसंकेतं, साकेतं गतवानहं ॥ ५२ ॥ तत्रापि चित्रवैचित्र्य - तोषिताखिलपत्तनः । गत्वा बहिरहं गेह - मन्यदा यावदागमं ॥ ५३ ॥ तावन्मातुः स्वसा सा मे । तारं केनापि हेतुना । गाढोरस्ताडमस्तोक — शोकार्त्ता तत्र रोदिति ॥ ५४ ॥ किमद्य रुद्यते मात - रेवं तारस्वरं त्वया । इति पृष्टा समाचष्टे, सास्म मह्यं कथामिमां ॥ ५५ ॥
• अस्ति वत्स पुरेऽमुष्मि - निग्रहानुग्रहक्षमः । यक्षः सुरप्रियो नाम्ना, कानने कुसुमाकरे ॥५६॥ प्रतिवत्सरमेतस्य, चित्रकर्म विरच्यते । तूर्यत्रिकपवित्रे च चैत्रयात्रा महोत्सवे ॥ ५७ ॥ प्रतिवर्ष सौ वर्णै— विचित्रैश्चेन्न चित्र्यते । साकेतस्य समस्तस्य, मारिमारभते तदा ॥ ५८ ॥ चित्र्यते चेत्तमे -
चरित्रम्
॥३०॥
Page #33
--------------------------------------------------------------------------
________________
0
मुंगावतो
॥३१॥
04@
00000000
| वाशु, क्रूराशयतया द्रुतं । विपाशकमिव व्याघ्रो, हंति चित्रकरं तदा ॥५९॥ आसूत्रि चित्रकैर्मृत्यु-भय- चरित्रम्
भ्रांतैः पलायनं । ययुज॑भभिदो भीत्या, भूभृतः किं न तोयधिं ॥ ६० ॥ एकसंकलिताश्चक्रे, नश्यतस्तान्नृपस्ततः । अचित्रितोऽथ यक्षोऽयं, मारिकृन्मास्मभूदिति ॥ ६१ ॥ साकेतपतिरेतेषां, सर्वेषां चित्रशिल्पिनां । पत्रकेषु लिखित्वाथ, नामानि कलशेऽक्षिपत् ॥ ६२ ॥ घटमध्यात्समाकृष्टे, कुमार्या | नामपत्रके ॥ यस्य तन्नाम तेनायं, चित्रणीयो न संशयः ॥ ६३ ॥ चित्रकर्माथ निर्माय, चित्रकर्मा | स यक्षतः । कृतांतनगरातिथ्यं, लभते पारितोषिकं ॥ ६४ ॥ पुत्रो ममैकपुत्राया, विचित्रस्तव बांध-12 वः । वर्षेऽस्मिन्नामनिर्दिष्टः, स यक्ष चित्रयिष्यति ॥६५॥ स चैतच्चित्रकर्माते, याता कीनासदासतां । भाविपुत्रवियोगार्ता, तेनाहं वत्स रोदिमि ॥ ६६ ॥ इत्याकर्ण्य सहर्षेण, बभाषे स्थविरा मया । रुदित्वालमुदित्वाल-मवलंबस्व निवृतिं ॥ ६७ ॥ अयं धिनोतु मबंधुः, कल्पायुः शिल्पिनां वरः । मया चित्रयितव्योऽय-मप्रियोऽपि सुरप्रियः ॥ ६८ ॥ ज्ञातं च मे मनस्यैत-देतैः सत्वरगत्वरैः ।।
॥३१॥ एकस्यापि परित्राणं, प्राणैश्चेत्प्राणिनो भवेत् ॥ ६९ ॥ तदानीं मम पाथेयं, परलोकपथे भवेत् । धर्म
@
@
@
@
Page #34
--------------------------------------------------------------------------
________________
मृगावती
३२॥
स्यातिरहस्यं हि, प्राणिरक्षां प्रचक्षते ॥ ७० ॥ युग्मं ॥ ततो बाष्पनिरुद्धाक्षी, वृद्धा वाचमुपाददे ।। | मम त्वमपि पुत्रोऽसि, वत्स वात्सल्ययोगतः ॥ ७१ ॥ निर्दाक्षिण्येन यक्षेण, त्वयि नीतेंतकांतिकं ।। स्युमें पुत्र भृशं नेत्र-वारिपूरमुचः शुचः ॥७२॥ इति ब्रुवाणां तां वृद्धां, निबंधादहमभ्यधां । ऐषसो | विषमेऽप्यस्मिन्, यतिष्ये चित्रकर्मणि ॥ ७३ ॥ उपवासत्रयस्यांते, ततः स्नानपुरस्सरं । गंधोन्मदिष्णुभिर्गानं, चंदनाथैरचर्चयं ॥७४॥ सितवस्त्रधरो वस्त्र-पल्लवस्थगिताननः । शुद्धैर्वगैर्नवैः कूर्चे-भक्त्या | यक्षमचित्रयं ॥ ७५ ॥ विरचय्य ततश्चित्रं, नम्रो व्यज्ञपयं च तं । त्वादृक्षः क्व विभो यक्षः, स्वल्प- 1 शिल्पी क्व मादृशः ॥ ७६ ॥ तदत्र चित्रव्यापारे-ऽपराद्धं यन्मया त्वयि । तत्सम्यक् क्षम्यतां हंत, संतः प्रणतवत्सलाः ॥ ७७ ॥ इति विज्ञापितो यक्षः, प्रत्यक्षीभूय भूयसा। मां जगाद प्रसादेन, | भक्तिग्राह्या हि देवताः ॥७८ ॥ अकार्षीः साहसं यच्च, यच्चेदं शोचमाचरः । तेन ते सुष्टु तुष्टोऽस्मि, वृणीष्व वरमीप्सितं ॥ ७९ ॥ यक्षं वाचमथाऽवोचं, पुण्यैः पुण्यजनेश्वर । यदि मह्यं प्रसन्नोऽसि, | तन्मे देहीदमीहितं ॥ ८० ॥ तात साकेतलोकस्य, मा कृथा मृत्युवैवशं । असौ निशाचराचार-स्तव
॥३२॥
Page #35
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
॥३३॥
| नाथ न युज्यते ॥ ८१ ॥ आचचक्षे ततो यक्षः, कथमोऽयमर्थ्यते । तव मृत्युपरित्यागात् , सिद्ध एव स्वतो यतः ॥ ८२ ॥ तेनेत्युक्ते मयाऽप्येषः, स्वजातावपि दुर्लभः। प्रसादविकसन्नेत्रा-द्वरस्तस्मादया- || च्यत ॥ ८३ ॥ सपदस्याऽपदस्यापि, चेतनस्येतरस्य च ॥ वस्तुनो यस्य कस्यापि, देशमेकं विलोकये ।। ८४ ॥ तस्याऽध्यक्षीकृतस्येव, तव देव प्रसादतः। तादृक्षमेव निःशेष, लिखेयं रूपमंजसा | | ।। ८५ ॥ एवमस्त्विति यक्षोऽपि, प्रतिश्रुत्य तिरोदधे । देवता न हि दृश्यंते, विद्युदुद्योतलीलया ॥८६॥ lo | एकं प्रतीकमालोक्य, रूपनिर्माणकर्मणा । वरस्याऽव्यभिचारित्वं, मया सत्यापितं बहु ॥ ८७ ॥ | ततोबामिव कौशांबी, स्मृत्वा सोत्कंठमागमं । चित्रे चात्र समादिष्टो, विष्टपेंद्र द्रुतं त्वया ॥ ८८ ॥ | चित्ररूपेऽप्यभूदेव्या, मषीलक्ष्मेदमत्र यत् । अपराध्यति तलासी, केवलं देवतावरः ॥ ८९ ॥ पर्यवस्यति देवस्य, प्रत्ययश्चेन्न चेतसि । जनस्यास्य तदा सद्यः, प्रसादोऽस्तु परीक्षया ।। ९० ॥ इत्युक्त्वा विरते तत्र, नीतिपारीणबुद्धयः । युगंधरादयोऽमात्या, युगपज्जगदुस्तदा ॥ ९१ ॥ न्यायावतीर्णमाकर्ण्य, शिल्पिनोऽपीदृशं वचः । अभृम भूमिपालेंद्र, वयं विस्मितचेतसः ॥ ९२ ॥ आकर्णिता
Page #36
--------------------------------------------------------------------------
________________
मृगावतो
चरित्रम्
॥३४॥
| गसो यद्वा, यद्वा दृष्टागसः स्वयं । परोक्ष्य निग्रहः कार्यः, कुप्यति स्मृतिरन्यथा ॥ ९३ ॥ परीक्षा- | विधिमेतस्य, तीव्रकोपः क्षितेः पतिः। मंत्रिणामुपरोधेन, कथंचित्प्रत्यपद्यत ॥ ९४ ॥ ___अथ चित्रकरस्यास्य, विकखरतरौजसः । नृपः सन्मुद्रकुब्जाया, वक्त्रमात्रमदर्शयत् ॥ ९५ ॥ | यथा विधिरनाधिस्तां, यथा संस्थानलांछनां । कुब्जामन्जसमानास्य-स्तादृशीमेव सोऽलिखत ॥ | ॥ ९६ ॥ दृष्ट्वास्य वरमाहात्म्यं, विस्मयस्मेरलोचनः । मूर्द्धानं धूनयामास, निःशेषपरिषजनः ॥२७॥
वयं कृतपरीक्षोऽपि, क्षोणीपालः क्रुधं दधत् । दधे न मधुरां छाया-मंतर्वह्निरिव द्रुमः॥ ९८ ॥ येनाऽदात विश्वेऽपि, वंशा विश्वंभराभृतां । ज्वलितो मे स कोपाग्नि-निष्फलो मास्मभूदिति ॥ ९९ ॥ आदिदेश नरेशोऽथ, चित्रकस्य गतत्रपः । दक्षिणे क्षोणदाक्षिण्यः, पाणी संदंशकर्तनं ॥ १० ॥ युग्मं ॥ तमादेशं निशम्याथ, न्यायनीरधयो जनाः । नृपस्याऽन्यायमुद्रीक्ष्य, वीक्षामासुः परस्परं ॥ १॥ उचिरे च वचो नीचे-रसो पश्यत कीदृशं । नियूंढोऽपि परीक्षायां, लभते पारितोषिकं ॥ २॥ प्रावृषेण्यपयोवाहा-दहिवृष्टिरियं ध्रुवं । प्रसादार्हस्य भूपाला-द्यदेतस्यैष निग्रहः ॥ ३ ॥
POOOOOOD
॥३४॥
Page #37
--------------------------------------------------------------------------
________________
मृगावती | गोचरः किं तु नास्माकं, नृपतो कुपिते सति । यदेव रोचते राजा, तदेव कुरुते यतः ॥ ४ ॥ ता- चरित्रम् ॥३५ दृशं दुर्नयं दृष्ट्वा, लब्ध्वा प्रस्तावमात्मनः । ततो युगंधरो मंत्री, वक्तुमेवं प्रचक्रमे ॥ ५॥ कोऽयं |||
| त्वया महीनाथ, नव्यो नीतिक्रमः कृतः । अक्षुण्णेन नृपैः पूर्वैः, पथा संचरसे कथं ॥ ६॥ कोपेन | पवनेनेव, दीपितो दुर्नयानलः । प्रभो भृमीभृतामाशु, वंशदाहाय जायते ॥ ७ ॥ प्राकृतोऽप्यवमं| तव्यो, न बुधेन शुभेच्छना । वराकः कृकलासोऽपि, विषं वर्षति रोषितः ॥ ८॥ दत्ते महांतमा | | संके, सामान्योऽप्यवमानितः । भुजंगो गूढमागत्य, दशत्येव खलीकृतः॥९॥ तदेष देवतादत्त-वरः | सन्मानमर्हति । यंत्रितश्च प्रसादेन, राज्यं ते भूषयिष्यति ॥ १० ॥ लोकंपृणगुणस्यास्य, विहिता त्व- | वमानना | दंदशूकमिवामर्ष, बलाजागरयिष्यति ॥११॥ व्यंगोऽपि पुरुषोऽमर्षा-समये दुःखदो भवेत् | | शिरःशेषोऽपि किं राहु-चंद्रसूर्यों न बाधते ॥१२॥ अपहत्यवमंतारं, सामर्षः पुरुषो यथा। कथ| यामि तथा देव, दृष्टांतमवधारय ॥ १३ ॥
॥३५॥ __ अस्ति प्रत्यापणन्यस्त-रत्नं रत्नपुरं पुरं । सरयूर्यस्य पर्यंत-प्रसृता परिखायते ॥ १४ ॥ वि
Page #38
--------------------------------------------------------------------------
________________
मृगावतो
॥३६॥
कमी क्रमिकस्त्यागी, नृपोऽस्ति नरविक्रमः । वनमेवाऽवनं जज्ञे, यद्भयरिभृभृतां ॥ १५ ॥ अस्ति चरित्रम् | तत्रैव वास्तव्यो, वास्तवस्तवनीयधीः । आयुर्वेदधनुर्वेद-मल्लविद्यादिकोविदः ॥१६॥ ख्यातः क्षिति| पपर्यंत-मपर्यंतगुणैकभूः । मृगांकाख्यः कलामूलं, मूलदेवोपमः पुमान् ॥ १७ ॥ अथास्ति सरयू. तीरे, रम्यभूमिः खलूरिका । तत्रागत्य प्रतिपातः, करोतिस्म नृपः श्रमं ॥१८॥ तत्रेक्षि क्षितिभृद्योग्य, योग्यासब्रह्मचारिणः । बलं बाह्वोभृगांकस्य, बहुधा वसुधाभुजा ।।१९।। पश्यन्नोजायितं तस्य, विश्व| स्यापि विजित्वरं । तुच्छप्रकृतिसुप्रापान, स विकल्पानकल्पयत् ॥२०॥ यद्ययं मम साम्राज्य-माक्रा- 12 |मति पराक्रमैः। कस्तदा प्रतिबनीया-द्वीरभोज्या हि भूरियं ॥२१॥ द्विराज्यबीजभृतत्वा-द्विपक्षस्तदयं | | मम । एकद्रव्याभिलाषित्व-माद्यं वैरस्य कारणं ॥ २२ ।। आमयश्च विपक्षश्च, नोपेक्षामर्हतः खल ।। नखछेद्यावपि स्यातां, दुरुच्छेदाविमो क्रमात् ॥ २३ ॥ तदेष मे निमेषा -प्राप्यः प्रेतयतेः पुरी ।। विकल्प्येति नृपः पत्तीन्, रहस्तं हंतुमादिशत् ॥ २४ ॥ ततो गच्छन्निजं गेह-मास्थाय स्थान- मेकतः । मृगैरिव मृगारातिः, स रुद्धस्तैः पदातिभिः ॥२५॥ उक्तश्चाहो गृहाणास्त्रं, क्रुद्धस्ते नरविक्रमः
A
.
.
.
।
9
Page #39
--------------------------------------------------------------------------
________________
मृगावती
॥३७॥
। इत्याक्षिप्तोऽपि स क्षोभं, न हि प्राप मनागपि ॥ २६ ॥ सोऽथ पार्थ इवैकोऽपि, कोपतः प्रतिपूरुषं । वर्षस्तेषां शरासार - मादिशत्कांदिशीकतां ॥ २७ ॥ घातयत्यनघाचार - मपि मां नृपपांसनः । इत्यमर्ष वहन्नेष - प्रतस्थे दिशमुत्तरां ॥ २८ ॥ अरण्यानीमतिक्रम्य, वनराजिविराजितं । माणिक्यमयमेकत्र, पश्यतिस्म सः पर्वतं ॥ २९ ॥ तस्य चूडाग्रमारूढां प्रौढशोकविसंस्थलां । रुदंती कांचिदत्युच्चै - वृद्धांस स्त्रियमैक्षत ॥ ३० ॥ स समीपमुपागत्य, ताम्रजल्पत्कृपेरितः । तारतारं कथंकारं, रु मातुरातुरं ॥ ३१ ॥ साऽवादीद्वत्स धत्से त्वं, तनूद्भवतुलां मम । कृपालुहृदयश्चासि तत्ते दुःखं निवेद्यते ॥ ३२ ॥ अयत्ननिर्मलै रते - राढथे वैताढ्यपर्वते । अस्ति सौराज्यसानंद, नगरं मणिनूपुरं ॥ ॥ ३३ ॥ तत्रासीत्वासिताराति-नृपतिर्मणिशेखरः । धृता विद्याधरैराज्ञा, यस्य शेषेव मौलिषु ||३४|| सतीषु प्राप्तरेखास्ति, पत्रलेखेति तत्प्रिया । उदित्वरयशश्चंद्र- चंद्रचूडस्तयोः सुतः ॥ ३५ ॥ नृपोऽथ प्राप पंचत्व - मायुषि यमीयुषि । चंद्रचूडस्ततस्तस्य, राज्येऽस्थाप्यत मंत्रिभिः ॥ ३६ ॥ तदानीं च स बालत्वा-न्न विद्यासाधनक्षमः । विद्यासिद्धेरभावाच्च. प्रभविष्णुर्न शत्रुषु ॥ ३७ ॥ विज्ञाय लील -
9
चरित्रम्
॥३७॥
Page #40
--------------------------------------------------------------------------
________________
मृगावती याऽनल्पं, बालराज्यमरातिभिः । चंद्रचूडः समाक्रम्य, गमितः प्राणसंशयं ॥ ३८॥ मृत्योरंतिकमा- चरित्रम् ॥३८॥
यातः, स मात्रा पत्रलेखया । समुत्पाट्य झटित्येव, समानीतोऽत्र पर्वते ॥ ३९ ॥ गिरावत्र स्फुरद्रत्ने, | रत्नप्रस्थाभिधे स्थितः । विद्यासाधनमारेभे, स निस्तंद्रो जितेंद्रियः ॥ ४० ॥ तस्य साधयतो विद्यामनवद्यक्रियाजुषः । अतिचक्राम षण्मासी, दिनमेकं तु शिष्यते ॥ ४१ ॥ अद्य क्षपायां प्रत्यक्षा, प्रज्ञप्तिः परमेश्वरी । दृढाऽवष्टंभतुष्टास्मै, साम्राज्यमुपदास्यति ॥ ४२ ॥ | इतः प्रत्यर्थिनो ज्ञात्वा, विद्यासिद्धिं समत्सराः । अद्योपेत्य समोहंते, प्रत्यूहं कर्तुमंजसा ॥४३॥ सवित्री पत्रलेखास्य, परमुत्तरसाधिका । मुहुस्ताम्यति किंचैषा, योषिदेका करोतु किं ॥ ४४ ॥ तदेषा पुरुषं कंचि-त्प्रत्याशं प्रत्यवेक्षते ॥ स्वसूनोरसहायस्य, यः साहाय्यकरो भवेत् ॥ ४५ ॥ वत्स
साहं न पश्यामि, नरं पुत्रोपकारिणं । अत्याहितं च पश्यामि, स्वसूनोस्तेन रोदिमि ॥ ४६ ।। इदानीं पातु मुदं नोता, दृष्टेन सदय त्वया । सर्वा हि मम पुत्रस्य, परित्राद्य भविष्यसि ॥ ४७ ॥ उदाराग्रे | ॥८॥ | ह्यपार्थाः स्यु-रर्थिनां न मनोरथाः । पूर्णे चंद्रे चकोराणां, पारणे किमु संशयः ॥ ४ ॥ इत्युक्त्वा
Do đó, sssss
9
Page #41
--------------------------------------------------------------------------
________________
मृगावती | विरतामेता, मृगांकः प्रत्यवोचत । विद्यासिद्धौ तदेकारः, क मातमें स बांधवः ॥ ४९॥ अध्यासीनो चरित्रम्
| लतामध्यं, तदेकभ्यानमानसः । चंद्रचूडो मृगांकस्य, तया संदर्शितस्ततः ॥ ५० ॥ हेमाद्रिमिव नि-01 | स्तंद्रः, परितस्तल्लतागृहं । मृगांक इव निःशंको, मृगांकः स्वैरमभ्रमत् ॥ ५१ ॥ तदा मृगांकमालोक्य, | शलवस्तेऽपि तत्रसुः । हरेरालोकने हंत, स्फुरेयुः किमु फेरवः ॥ ५२ ॥ प्रज्ञप्त्या दत्तमासाद्य, राज्य| मुर्जस्वलं निशि । चंद्रचूडः प्रगे मातु-रेत्य पादाववंदत ॥ ५३ ॥ पत्रलेखा तमाशीभि-रभिनं-10 | याददे वचः। वत्सांतरायहंतायं, वास्तवस्तव बांधवः ॥ ५४॥ ततो ज्ञातप्रबंधेन, बंधुवत्प्रीतिबंधुरः।। | आलिंग्य चंद्रचूडेन, मृगांकः समभाष्यत ॥ ५५ ॥ भ्रातरस्योपकारस्य, मागां प्रत्युपकारितां । ममेव | | हि तवापीह-व्यसनं जातु मास्मभूत् ॥ ५६ ॥ साहायकपणक्रीतं, राज्यमेतत्तवैव मे । अमी चापि |
मम प्राणा-स्तवैवायतवृत्तयः ॥ ५७ ॥ कृपाणं तु गृहाणैन-मस्माकं स्मृतिहेतवे । ध्रुवं पाणि| स्थितेऽमुष्मिन्, जिष्णुनापि न जेष्यसे ॥ ५८ ॥ चंद्रचूडप्रदत्तासे—रुपनिन्येंगुलीयकां । पत्रलेखा मृगांकस्य, तच्छक्तिं चैवमादिशत् ॥ ५९ ॥ अस्मिन् सन्निहिते वत्स, दिव्यातिशयशालिनि । स्था
00420404
Page #42
--------------------------------------------------------------------------
________________
106
मृगावती
॥ ४० ॥
वरं जंगमं चापि, न जातु प्रभवेद्विषं ॥ ६० ॥ एषाऽवस्वापिनी विद्या, पाठसिद्धा च गृह्यतां । करे वैरिजयो यस्यां न च प्राणिवधः क्वचित् ॥ ३१ ॥ तत्तयोरुपरोधेन, मृगांकः सर्वमाददौ । किं किं नाम न कुर्वति, संतः प्रार्थनया सतां ॥ ६२ ॥ तदा तदीयं सत्कारं, न्यक्कारं च पुरातनं । परामृशन्मृगांकोऽभू-दास्पदं हर्षशोकयोः ॥ ६३ ॥ पत्रलेखा समालोक्य, संकीर्णरससंकुलं । आकारेंगितनिष्णाता, प्राह बाहौ विधृत्य तं ॥ ६४ ॥ उन्मीलत्प्रमदालोक— कल्लोलमपि लक्ष्यते । किंचित्तमित्रव्यामिश्रं, प्रभातमिव ते मुखं ॥ ६५ ॥ वत्साभिधत्स्व तत्सत्यं, किं नु दुःखाकरोति ते । मयि मातरि ते नून - मनावेद्यं न विद्यते ॥ ६६ ॥ ततस्तयोर्मृगांकस्तां, पूर्वामकथयत्कथां । दुःखकारणमूचे च मन्युपर्यश्रुलोचनः ॥ ६७ ॥ न दुनोति किमप्यंतः, स भृधवपराभवः । क्षोणीपतिः क्षणामित्र-ममित्रं वा क्षणाद्भवेत् ॥ ६८ ॥ प्राणानादाय नष्टेन, दुष्टेन पितरो मया । तत्रैव यत्पुनस्त्य - तो, तदेव व्यथते मम ॥ ६९ ॥ एतयोस्तान्यनिष्टानि, विकल्पैः स्नेहढौ कतैः । नृपोपज्ञानि संकल्पाद्, ये मातर्निरंतरं ॥ ७० ॥ किंवदंतीमहं पित्रो - र्लभेयं यदि संप्रति । तदा तदुचितं किंचि - दनुवर्त्ते
1
चरित्रम्
॥ ४० ॥
Page #43
--------------------------------------------------------------------------
________________
मृगावती
परित्रम
॥४१॥
प्रवर्त्तनं ॥७१॥ चंद्रचूडस्ततो ध्यानं, दधाबभिदधावथ । प्रज्ञप्त्याऽवधिना ज्ञात्वा, सर्वमावेदितं मम ॥७२।। परं तत्कंठनाड्यंत-रभ्यस्यति गतागतं । मूकस्येव न मे जिह्वा, प्रह्वीभवति जल्पितुं ॥७३॥ | तथापि धैर्यमालंब्य, कथ्यते शृणु बांधव । तदा निहतपत्तिस्त्व-मुत्तराशामशिश्रयः ॥ ७४ ॥ नृपेण | त्वदसंप्राप्ति-प्रकामज्वलितक्रुधा । कटमईः कुटुंबस्य, कारितस्तव निर्दयं ॥७५॥ तदाकर्ण्य मृगां
केन, शोकाश्रुजलकुल्यया ॥ सेचं सेचं परां वृद्धिं, लंभितः क्रोधपादपः ॥७६॥ नोत्पाटयामि चेदेनं, | | वर्षांतर्नरविक्रमं । तदा वह्नौ विशामीति, स प्रतिज्ञां विनिर्ममे ॥ ७७ ॥
चंद्रचूडमथापृच्छय, पत्रलेखां प्रणम्य च । रत्रप्रस्थात्प्रतस्थेऽसो, प्रत्यवंती समुत्सुकः ॥७८॥ | विद्याप्रसादमाहात्म्या-ज्जितारिमणिनूपुरे । चंद्रचूडोऽपि चिक्रीड, स्वच्छंदं सपरिच्छदः ॥ ७९ ॥ | मृगांकः कामसंपूर्ति-सज्जामुजयिनी ययौ । सिप्रासमोरणो यस्या-माचामति रतिक्लमं ॥ ८ ॥
तस्यां विलासिनीवक्त्र-ज्योत्स्नाछिन्नमनःक्लमः । दिनान्युद्दामपंचेषुः, पंचबाण्यत्यवाहयत्॥१॥ बाल्य| यौवनयोः सोऽथ, मध्ये वयसि तस्थुषीं । कांचिद्भरिपरीवारां, बालामालोकयत्पथि ॥ ८२ ॥ मृगां
BAGGAG.
॥४१॥
Page #44
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
॥४२॥
कस्य मनस्यासी-तां प्रेक्ष्य मृगचक्षुषीं । इयं नेत्रसुधावृष्टि-न वा सृष्टिधुंवं विधेः ॥ ८३ ॥ लीला- लोकनमात्रेण, बलादाच्छिद्य मे मनः । निन्ये यत्तदियं बाल्ये-ऽप्यवश्यं पश्यतोहरा ।। ८४ ॥ एवं | चिंतयतस्तस्य, सा दृशः पथमत्यगात् । तदेकाग्रमनोवृत्तिः, स यावत्तत्र तिष्ठति ॥ ८५ ॥ तावत्क्षणांतरे जात-क्षोभामैक्षत विमितः । अतुच्छोच्छलदानंद-सज्जामुज्जयिनों पुरों ॥८६॥ काश्चिद्रुदंत्यः पूत्कारै-याँति राजकुले स्त्रियः । क सा वत्सेति जल्पंत्यः, सार्ने निर्याति काश्चन ॥ ८७ ।। बाष्पताम्यत्पुटे नेत्रे, दधद्वालोधवोऽपि च । लोकेनाऽस्तोकशोकेन, संयुक्तो निर्ययो बहिः ।। ८८ ।। विरं| गस्फारनोरंगी-पिहिताननपंकजाः । रुदंत्योऽत्यंतशोकार्ता, यांति शुद्धांतयोषितः ॥ ८९ ।। एकात| पत्रं तत्रेदं, शोकराज्यं विलोक्य सः । समपृच्छत गच्छंती-मेकां पंकजलोचनां ॥ ९० ॥ सांद्रं किमेतदुन्निद्र-मवंत्यां शोकवैवशं । अनल्पदुःखं साऽजल्प-न्महाभाग निशम्यतां ॥ ९१ ॥ ___अत्रास्ति त्रिदिवाधीश-बिंबं बिंबिकभूपतिः । तस्याऽवदातसौंदर्या, सुता कनकसुंदरी ॥ ९२ ॥ | साथ प्राप्तवरा बाला, कानने कुसुमाकरे । देवस्य मदनस्याय, नमस्यायै प्रगेऽगमत् ॥ ९३ ॥
॥४२॥
Page #45
--------------------------------------------------------------------------
________________
मृगावती || सा मनोभवमभ्यर्च्य, भक्त्या व्यज्ञापयत्पुरः । त्रिजगजनितानंद, देव त्वामिदमर्थये ॥ ९४ ॥ •॥४३॥
योऽद्य राज्यपथे दृष्ट-स्तव मृत्यंतरं मया । अवमान्य वरानन्यान्, वरं देहि तमेव मे ॥ ९५ ॥ इत्थं प्रार्थ्य रते थं, सात्यंत विरहातुरा। विहरंती वनस्यांत-र्दष्टा दुष्टा हिना द्रुतं॥ ९६ ॥ अद्य दृष्टः | स एवास्तु, वरो जन्मांतरेऽपि मे । कुर्वती सैवमाशंसां, व्यानशे विषमुर्छया ॥ ९७ ॥ वार्तामाकर्ण्य शोकातः, क्षोणीपतिरुपेयिवान् । आललाप प्रियोल्लापैः, सा दत्ते नोत्तरं पुनः ॥ ९८ ॥
अंतःपुरपुरंधीभिर्बाधते पुत्रि किं तव । इत्युच्चैाहरंतीभिः, सा भृशं स्नापिताश्रुभिः ॥ ९९ ॥ यशोलाभार्थिभिस्तैस्तैः, प्रचंडैराहितुंडिकैः । सर्वात्मनापि विक्रांतं । मंत्रतंत्रप्रयोगतः ॥ १०० ॥ भद्र | भद्रमयी तस्या, हो कथापि तथापि न । अधुना ह्युग्रमूर्छा सा, मूर्छतिस्म मुहुर्मुहुः ॥ १॥ निराशी- | | भूय मुक्तायां, मांत्रिकैरथ तांत्रिकैः । सुतायामवनोपालः, प्राप धैर्यविपर्ययं ॥ २॥ नूनमस्यां विप
नायां, देवोऽप्येष विपत्स्यते । इति राज्यक्षयं दृष्ट्वा, क्षमापो व्यज्ञपि मंत्रिभिः ॥ ३ ॥ विषार्तिनिय ला हिणोऽस्या, वसुधा, महर्द्धिकं । कन्यां चैनां पणीकृत्य, वाद्यतां देव डिंडिमः ॥ ४ ॥ तत्तथेति प्रति- I॥४३॥
Page #46
--------------------------------------------------------------------------
________________
मृगावती
॥ ४४ ॥
04
1
श्रुत्य दत्वा शिक्षां क्षमाभुजा । एतदर्थमहं भद्र, प्रहितरक्षसन्निधौ ॥ ५ ॥ एनमर्थ समर्थ्याथ, प्रस्थितास्मि यथागतं । संविभागी महाभाग, दुःखस्यासि मया कृतः ॥ ६ ॥ इति श्रुते मनचौरी, सा मे किं न भवेदियं । इत्थं मृगांकः साशंकः, काममंतरदह्यत ॥ ७ ॥ कृतापकारमाशंक्य, स एवं दैवमात्मनि । विषविच्छेदं सोत्साह-मंगुलीयकमैक्षत ॥ ८ ॥ तस्यैवं सविकल्पस्य, डिंडिमः सोऽप्युपाययौ । तेनोत्थाय निषिद्धश्च सर्वेषामेव पश्यतां ॥ ९ ॥ ततो वाहनमारोप्य, क्षणेनैव विचक्षणः । स राजपुरुषैः प्रीतैः कन्यांतिकमनीयत ॥ १० ॥ नव्यनागलतापर्ण - सवर्णदर्शनद्युतिं । विषोर्मिग्रस्त चैतन्या - मसामान्यवपुः श्रियं ॥ ११ ॥ समालोक्य मृगांकस्तां, मृगांकवदनां तदा । अभिज्ञः प्रत्यभिज्ञाय, संजज्ञे साश्रुलोचनः ॥ १२ ॥ युग्मं ॥ वैरायमाणो दैवेन, दृढावस्कंददायिना । सोऽविक्षेपान्निचिक्षेप, स्वांगुलीयं तदंगुलौ ॥ १३ ॥ तदैवोन्मीलयामास, सा नेत्रे चलपक्ष्मणी । मुखं विकासयामास, लोकश्चाश्चर्यसंकुलः ॥ १४ ॥ विषे द्रागेव नष्टेऽपि तदंगस्पर्शलालसः । विषरक्षापदेशेन, तां पस्पर्श स पाणिना । १५ ॥ स्मेरिताक्षी ततो बाला, तं निरीक्ष्योपलक्ष्य च । स्तंभि
चरित्रम्
॥ ४४ ॥
Page #47
--------------------------------------------------------------------------
________________
॥४५॥
मृगावती तांगी सरोमांचा, चित्तस्यांतरचिंतयत् ॥ १६ ॥ दिष्ट्या दृष्टिपथं यातः, पूर्वदृष्टो मम प्रियः । अभी- चरित्रम् loष्टवरदानेन, तुष्टो मे भगवान् स्मरः ॥ १७ ॥ प्रियस्यास्य करस्पशों, यद्यप्यानंदयत्ययं । तथापि 01
मम कौमार-मर्गला स्मरशर्मणां ॥ १८॥ एवं विचिंत्य संवृत्य, यत्नाद्वासो विसंस्थुलं । दृशौ व्यावर्तयामास, मृगांकात्कथमप्यसौ ॥ १९ ॥ शनैरुत्थाय शय्याया-मुपविश्य विशांपतिं । शुद्धांतं लोक| मन्यं च, सा वीक्ष्योवाच मालतीं ॥ २० ॥ कथं सखि सखेदोऽसौ, तातप्रभृतिको जनः । यदस्य पश्य AN दृश्यते, नेत्रयोरश्रुणः कणाः ॥ २१ ॥ तदोत्कंपितसर्वांगा-दर्वाग्भुजगदंशतः । जन्मांतरादिवायाता, | A स्मरामि न हि किंचन ॥ २२ ॥ मालती तां ततोऽजल्प-देवि स्मरसि ते कथं । बलाद्गरलकल्लोले | HI-यत्कृतासि विचेतना ॥ २३ ॥ विषवैद्यैरसाध्येति, त्यक्तायां त्वयि दूरतः । तदा देवः शुचं काम
॥-प्यगच्छत् सपरिच्छदः ॥ २४ ॥ यदा मृत्युदशाभ्यण-मवतीर्णासि वर्णिनि । तवानुयानसंनद्ध KI-स्तदा देवोऽप्यजायत ॥२५॥ प्रहितां पटहस्थार्थे, दृष्ट्वा मां पथि सादरं । विदांचकार वृत्तांत-मेनं | सैष महाशयः ॥ २३ ॥ अनेन खजनेनेव, श्रुत्वैतद् दुर्मनायितं । तदैव च समागत्य, जनोऽयं सुम- |
॥४५
Page #48
--------------------------------------------------------------------------
________________
॥४६॥
विती नोकृतः ॥ २७ ॥ पश्यैतस्यांगुलोपूत-मंगुलीयं निजांगुलौ । तदनेन जनस्यास्यो-पकृतं प्राणभिक्षया
MP॥ २८ ॥ श्रुत्वेमां मालतीवाच-मंगुलीयं विलोक्य च ॥ दत्वा च हृदयोत्संगे, दध्यो कनकसुंदरी ॥ A ॥ २९ ॥ अंगुलीयं समालिंग, मां प्रियांगुलिपावनं । विषविध्वंसकं चाभूत्, तन्मे वैधापि वल्लभं | | ॥ ३० ॥ स्निग्धमालोकनं पूर्व, सत्यकारो ममार्पितः। प्राणदानपणेनैवं, क्रीताऽनेनाधुना त्वहं ॥३१॥ | उपकायेंष निःशूकं, देदशूको दशन्नपि । असौ संयोजितो येन, कृतलोकप्रियः प्रियः ॥ ३२ ॥ प्रेय
| सोऽस्माद्भविष्यंति, पाणिपीडनपूर्वकं । कदा मेऽनंगभंगीभिः, स्वैरमाश्लेषसंपदः ॥ ३३ ॥ इति चिंताII परामेना-मवादोन्मेदिनोपतिः । तव प्राणप्रदो वत्से, कोऽप्येष पुरुषो महान् ॥ ३४ ॥ तदनेन समं ||
| पुत्रि, विशामः सांप्रतं पुरीं । इत्युक्त्वा तां स पंथान-मुत्पताकमकारयत् ॥ ३५ ॥ मृगांकं स || | पुरस्कृत्य, महोत्सवपुरस्सरं । सुतामुत्संगमारोप्य, प्रसन्नः प्राविशत पुरीं ॥ ३६ ॥ उपेयुषा निज | सौधं, राज्ञा सत्कारपूर्वकं । मृगांको हरिणांकश्री-निर्विकल्पमजल्प्यत ॥ ३७ ॥ जीवितं त्वं वितीर्यास्यै, ध्रुवं साम्राज्यमर्हसि । राज्यस्यार्धं ततस्तुभ्यं, वितरंतस्त्रपामहे ॥ ३८ ॥ इति सप्रीति सं- |
DOODHWOOO
॥४६॥
Page #49
--------------------------------------------------------------------------
________________
॥४७॥
मृगावती भाष्य, मृगांकाय क्षितीश्वरः । आत्मतुल्यामतुल्यश्री-प्रभुत्वपदवीं ददौ ॥ ३९ ॥ तां तु राजसुः |
MA ताबाह्या-मलावण्यामिव स्त्रियं । प्राप्यापि पूर्णसर्वांगी, न स्वैरं विलसत्यसौ ॥ ४० ॥ न चेयं त| द्वियोगार्ना, रतिं सर्वर्तुशालिनि । वनेऽपि लभते किंतु, हंत संतप्यतेऽधिकं ॥ ४१ ॥ मालती प्राह संतप्तां, ततो राजसुतामपि । इत्थं शीतोपचारेऽपि, सखि संतप्यसे कथं ॥ १२ ॥ यच्चंदनेंदुकर्पूरहारास्तामरसानि च । मृणालान्यपि नालं ते, दृढांतस्तापशांतये ॥ ४३ ॥ सखि यद्यपि नाख्या| सि, त्रपया तापकारणं । ताथापि सर्व जानामि, मन एवास्मि यत्तव ॥ ४४ ॥ अथ राजसुता | प्राह, सखि यद्वेत्सि तत्तथा । अस्त्यद्य चिंता तातस्तु, न जाने किं करिष्यति ॥ ४५ ॥ वरांतरस्य
संकल्प-स्तात चेतसि चेद्भवेत् । तदा मे सखि मन्येथाः, संतापस्यापि चूलिकां ॥ ४६ ॥ अवदन्मालती देवि, विकल्पैः किमु खिद्यसे । यत्तदैतस्य देवेन, पटहेऽसि पणीकृता ॥ १७ ॥ ऊचेऽथ | कंचुकी राज्ञ-स्तदैवोपेत्य मालतीं। कल्याणि त्वामवंतीशः, समादिशति सादरं ॥ ४८ ॥ वत्साऽ- |
॥४॥ No स्माभिमंगांकाय, वितीर्णेत्यवगम्यतां । केवलं दिवसाऽभावा-विलंबोऽभूत्कियानपि ॥ ४९ ॥ प्रात- 10/
40000000
Page #50
--------------------------------------------------------------------------
________________
॥४८॥
मृगावती स्तु निस्तुषे लग्ने, विवाहोऽस्या भविष्यति । तदेषा निखिलोद्वाह-मंगलान्यनुभाव्यतां ॥ ५० ॥ चरित्रम्
| इत्यादिश्य गते तस्मिन्, देवीभिः कृतमंगला | प्रतीक्षतेस्म सा लग्नं, राजपुत्रा कथंचन ॥५१॥ | निष्प्रत्यूहं तयोर्वृत्ते, पाणिग्रहमहोत्सवे । वरेण्यवरलाभेन, मुमुदे मेदिनीश्वरः ॥ ५२ ॥ भृमृगांको मृगांकाय, पाणिमोचनपर्वणि । श्रियं विश्राणयामास, हेमहस्त्यश्वशालिनी ॥ ५३ ॥ इत्थानुरूपसंपन्न-भोगनिर्मग्नचेतसोः । जगामानंदजंघाल-स्तयोः कालः कियानपि ॥ ५४ ॥ ये नमंतिस्म सामंता, जातु नोज्जयिनीपतेः । हेलया साधयामास, तानाक्रम्य स विक्रमैः ॥ ५५ ॥ मंडलस्थे बुधे | तस्मिन्, राज्ञोऽरातिर्न कश्चन । पराभवमलंभूष्णुः, कर्तुं राहुरिवाभवत् ॥ ५६॥ आवर्जितमनोवृत्ति
| नयेन विनयेन च । अपुत्रः पुत्रवन्मेने, मृगांक मालवेश्वरः ॥ ५७ ॥ अरोन् बृहीयसो हत्वा- प्य- | To हत्वा नरविक्रमं । सोऽकिंचित्करमात्मानं, पशुमेव ह्यजीगणत् ॥ ५८ ॥ सविवेकमनुत्सेकं, छेकः || स्वच्छमनोयुतं । सत्यवतमवंतीश-स्तं जगाद कदाचन ॥ ५९ ॥ अवंतीपतयः सर्वे, पूर्व पलितद- |
AI४८॥ र्शनात् । अध्यवात्सुर्वनं वत्स, राज्यं संत्यज्य लीलया ॥६० ॥ राज्यधुर्यमनासाद्य, मया वत्स विलं
Page #51
--------------------------------------------------------------------------
________________
मृगावतो । बितं । अधुना तु त्वयि धुयें, कथमस्मि प्रमद्धरः ॥ ६१ ॥ इदानों तदिमाः संतु, राजन्वत्यस्त्वया |
प्रजाः । प्रजापालनसंभृतै-यशोभिः सुरभोभव ।। ६२ ॥ ततो विज्ञपयामास, स राजानं कृतांजलिः। राज्यमल्पेतरान् कल्पान्, देव एव करोत्विदं ॥ ६३ ।। त्वत्पादपरिचर्या हि, राज्यादप्यधिका मम ।। सुप्रापमेव साम्राज्यं, गुरूपास्तिस्तु दुर्लभा ॥ ६४ ॥ ततो राजा करे धृत्वा, दत्वा तस्मै निजं पदं ।। उपाददे तदेकायो, मुनीनां पदमात्मना ॥ ६५ ॥ तथा तां पालयामास, प्रजा नव्यः प्रजापतिः ।। | ऊर्वीपतीनां पूर्वेषां, यथासौ जातु नास्मरत् ॥ ६६ ॥ गुणिना तेन निन्याते, न्यायधर्मों समुन्नति।। | ताभ्यां तदात्मजा कोर्तिः, परां वृद्धिमनीयत ॥६७|| ततः पितृवधामर्षः, समयज्ञ इव द्रुतं ॥ अमु| मुत्साहयामास, निहंतुं नरविक्रमं ॥ ६८ ॥ सोऽथ दूतसमाहूत-सामंतपरिवारितः । चचाल प्रबलैः । | सैन्यै-रवनि कंपयन्निव ॥ ६९ ॥ भुवं भल्लमयीं कुर्वन, कुर्वन् कुंतमयों दिवं । पल्लोपतिर्विराधाख्य-10 स्तं रुरोध पथि क्वचित् ।।७०|| नरविक्रममित्रेण, रुद्धस्तेन स भूपतिः। मृगारिरिव निःशंक–श्चितयामास चेतसि ॥ ७१ ॥ अन्योन्यं सैन्ययोः कृत्वा, कुंताकुंति शराशरि । प्रथयिष्यामि यद्येनं, कृ
Drom000
%0000@@@
॥४९॥
Page #52
--------------------------------------------------------------------------
________________
॥५०॥
मृगावती | तांतनगरातिथिं ॥ ७२ ॥ तदानीं मृत्युरेकस्य, मम चानीकसंक्षयः । विमृश्येत्यस्य सेनायां, नृपो
ऽवस्वापिनीं ददौ ॥ ७३ ॥ निद्रोपद्रवविद्राणां, विधाय ध्वजिनी रिपोः । आदाय च श्रियं तस्य, मृ-I गांकः प्रययो पुरः ॥ ७४ ॥ मृगांकक्षितिपस्याथ, श्रुत्वैतदभिषेणनं । आजगाम स्वसीमांतं, संमुखो || नरविक्रमः ॥ ७५ ।। ससोष्टवमधिष्टाय, तत्र क्षेत्रं रणक्षमं । युयुधाते पताकिन्या-वन्योन्यं नृपयो- 12 स्तयोः ॥ ७६ ॥ मगांकमतुलानीक-मवलोक्योपलक्ष्य तं । स्वं चापराधं स्मृत्वाऽभू-द्विच्छायो | नरविक्रमः ॥ ७७ ।। मृगांकक्षितिपालस्य, निरोक्ष्य नरविक्रमं । रोमांचितस्य सन्नाह-संधयः शतधा ययुः ॥ ७८ ॥ ततो मृगांकः साक्षेप-मुवाच नरविक्रमं । यन्मे निरपराधस्य, दुर्बुद्धे वधमा- | | दिशः ॥७९॥ मम यच्च कुटुंबस्य, कटमईमचोकरः । उपस्थितमिदं पश्य, तस्य ते कर्मणः फलं ॥८॥ | गृहाण शस्त्रमस्त्रं वा, प्रहर प्रथमं मयि । पूर्वप्रहारे हेवाको, न हि बाह्वोर्ममाहवे ॥ ८१ ॥
__इत्युक्तो दर्शयामास, विक्रमं नरविक्रमः । संक्षिप्तमप्यधिक्षितं, क्षात्रं तेजो हि दीप्यते ॥८२॥ Mo| तस्य पर्युल्लसद्दाण-श्रेणिभिः समरांगणे । जयश्रीविषये शंका, मृगांकस्याप्यजायत ॥ ८३ ॥ बलं IRI
FOOOOOOOO
Page #53
--------------------------------------------------------------------------
________________
गावती
88@
॥५१॥
| तस्य महोग्रं स, विलोक्याकुलमानसः। अथ विद्याधराल्लब्धं, करेणासिमशिश्रियत् ॥ ८४ ॥ तं विको चरित्रम्
शमसिं दृष्ट्वा, नष्टं प्रत्यर्थिसैनिकैः । उन्मीलितभयः कात्या, तत्यजे नरविक्रमः ॥ ८५ ॥ नरविक्रम| मुर्दान-मेतेन तरवारिणा । चिच्छेद कमलच्छेद, मृगांकः क्षितिवासवः ॥८६॥ उचितं दंडमाधाय, | शीर्ष छित्वाऽपराधिनः । अंगीचकार सप्तांगी-मसौ सप्ताश्वसन्निभः ॥ ८७॥ स्वभुजार्जितमित्यस्मिन्, | पुरे रत्नपुरे स्थितः । अवंतीमवतिस्मैष, किमशक्यं हि दोष्मतां ॥८८ ॥ स धर्ममेव सत्कुर्वन्, राज्य-18 लाभोपकारिणं । कृतज्ञ इति सर्वत्र, पप्रथे पृथिवीतले ॥ ८९ ॥ कृत्वा न्यायमुपाध्याय-मयोध्यायां पुरि स्थितः । सोऽध्यैत रामचरितं, कलत्रहरणाहते ॥ ९० ॥ तदेवं देव निमंतु-महापुरुषनिग्रहे । | तथ्यं निवेदयांचक्रे, मयोदाहरणं तव ॥ ९१ ॥ ततश्चित्रकरोऽप्येष, निर्मतुनिपुणस्त्वया । अनुग्राह्यो | न निग्राह्यः, स्वयमीश विमृश्यतां ॥ ९२ ॥ देवा यस्मै प्रसीदंति, स्यादवश्यं स सात्विकः । कुरुते । | सत्ववानिष्टं, सर्व सत्वे प्रतिष्ठितं ॥ ९३ ॥ इत्थं योगंधरोपज्ञा-मवजज्ञे सरस्वतीं। पथ्यामपि शता-10 नोकः, प्रभवो हि हितद्विषः ॥ ९४ ॥ ससंदंशं ततस्तस्य, चित्रकर्तुरकर्त्तयत् । सतामपि विपर्यास
Page #54
--------------------------------------------------------------------------
________________
मृगावती
॥ ५२ ॥
माधत्ते भवितव्यता ॥ ९५ ॥ तस्य कृतेपि संदंशे, देशत्यागं विशांपतिः । कृताक्षेपः समादिशत्, कोपस्याहो दुरंतता ॥ ९६ ॥ देशांतरगतः क्लृप्त-संदेशो निपुणस्तदा । शोकांधकारवैधुर्य-मपर्यंतमथातवान् ॥ ९७ ॥ एतस्य तामनपराधभवां विपत्ति - मालोकयन्नियतमंकुरितोरुखेदः । देवस्तदा निखिलविष्टपकर्मसाक्षी, कक्षीचकार सवितापि पयोधिझंपां ॥ ९८ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते श्रीमृगावतीचरित्रे द्वितीय विश्रामः समाप्तः ॥ श्रोरस्तु ॥
॥ अथ तृतीयो विश्रामः प्रारभ्यते ॥
अथ प्रातस्तमःस्तोमः, समस्तोऽप्यस्तमाययौ । कोपरूपस्तु भूपाले, निपुणस्योऽदगात्पुनः ॥ १ ॥ तदानीं च दशाप्याशाः, सप्रकाशाश्चकासीरे । एका तु निपुणस्याशा, संदधे सांधकारतां ॥ २ ॥ स्वैरं भानोर्व्य जृंभंत, जगद्भद्रंकराः कराः । किंत्वकिंचित्करो जात - स्तस्य वामेतरः करः || ३ || यियासोस्तस्य साकेतं, देवेन द्युतिमालिना। पंथाः प्रकाशयांच्चक्रे, कृपयेव स्वयं करैः || ४|| साकेतं स ययौ यक्षं, लक्षोकृत्य
चरित्रम्,
॥ ५२ ॥
Page #55
--------------------------------------------------------------------------
________________
॥५३॥
| सुरप्रियं । स्मर्त्तव्यः सोऽनुवर्तव्यो, विपत्ताणक्षमो हि यः॥५॥ उपोषितः स तं भक्त्या, पर्युपासां बभूव चरित्रम् च । तस्मै प्रणयिने यक्षो, मंच साक्षाद्दभूव च ॥६॥ निजगाद च तं यक्षः, कथं वत्सासि दुःखितः। ततो वृत्तांतमेतस्मै, तं सर्व निपुणोऽभ्यधात् ॥ ७ ॥ तं प्रसन्नोऽथ निर्व्याजं, व्याजहार सुरप्रियः । चित्रयिष्यति हस्तस्ते, सव्यः सव्येतरो यथा ॥८॥ मम प्रसादतो वत्स, कलाकिसलयैर्नवैः । सच्छायो भव शाखीव, दग्धपल्लवितोऽधिकं ॥ ९॥ इत्युक्वांतर्हिते यक्षे, चिंतयामास चित्रकृत् । अकारणमहो राज्ञा, क्रूरेणापकृतं मम ॥ १० ॥ उपकारोऽपकारो वा, यस्य व्रजति विस्मृतिं । पाषाणसुहृदस्तस्य, 10 जीवतीत्यभिधा मुधा ॥ ११ ॥ उन्मूलयामि निर्मुलं, नदीरय इव द्रुमं । शतानीकं जडात्मापि, न || | चेत्तन्मे वृथा जनुः ॥ १२ ॥ नेयो मृगावतीरूपा-देव मृत्युं मयाप्यसौ । इत्यालोच्याऽचिरात्तस्याः, II | स पटे रूपमालिखत् ॥१३।। उच्छलत्कामकल्लोलः, स्त्रोलोलः सैन्यवारिधिः । श्रूयते शोर्यचंडश्च, चंड-10 प्रद्योतभूपतिः ॥ १४ ॥ तस्य दृष्टिपथं नीते, रूपेऽस्मिन् मे समीहितं । भविष्यतीति संचिंत्या-सावं- ॥५३॥ तीमगमत्पुरीं ॥ १५ ॥ युग्मं ॥ स तस्मै दर्शयामास, तामालेख्य मृगावतीं । निर्वर्ण्य वर्णयामास,
Page #56
--------------------------------------------------------------------------
________________
मृगावत ॥ ५४ ॥
| सकामः सोऽपि भूपतिः ॥ १६ ॥ अस्या मुखस्य पीयूष - गभस्तिः प्रतिहस्तकः । बंधुः सुवर्ण वर्णस्य, | नेत्रयोर्मित्रमुत्पलं ॥ १७ ॥ अधरो विद्रुमः पाणी, पारिजातस्य पल्लवौ । स्तनौ कुंभौ सुरेभस्य, जघनं सिंधु सैकतं ॥ १८ ॥ असौ स्वर्लोकवास्तव्या, यद्वा पातालवासिनी । न मानुषीषु योषित्सु दृश्यते रूपमीदृशं ॥ १९ ॥ यस्याः प्रतिकृतिः केय - मित्यपृच्छत्ततो नृपः । तस्मै विस्मितचित्ताय, तथ्यमेषोऽप्यचीत् ||२०|| अस्ति देव नृदेवस्य शतानीकस्य वल्लभा । रूपेण विजितानंग- मृगनेत्रा मृगावती ॥ २१ ॥ सा मालवेश लेशेन, समालेखि पटे मया । नालेख्ये स्याद्यथावस्तु, विश्वकर्मापि कर्मठः || २२ || कर्णाभ्यर्णचरे तस्य वचस्युज्जयिनीपतिः । कुसुमेषोरिषुत्रातैर्विस्मृतात्माऽभवत्तदा ॥ २३ ॥ अचिंतयच्च संत्येव, शिवांगारवतोमुखाः । महादेव्यो ममाप्येता, वीतोपमवपुः श्रियः ||२४|| लक्षांशेनापि लक्ष्यंते, समाना नानया पुनः । नान्याः पर्वरजन्योऽपि श्रयंते कौमुदीश्रियं ॥ २५ ॥ अनया विकलं नांतः - पुरमंतःपुरं मम । न चंपकलता यत्र, काननं तन्न काननं ॥ २६ ॥ कयाचिद्वरवर्णिन्या, कामः कामं कृतार्थ्यते । स्पृष्टश्चंद्रिकया चंद्र-कांतः श्रवति नान्यथा ॥ २७ ॥
चरित्रम्
॥ ५४ ॥
Page #57
--------------------------------------------------------------------------
________________
मृगावतो
॥५५ ॥
अपराभिः पुरंधीभिर्मया कामः कदर्थितः । इदानीं त्वनया तन्व्या । प्रत्युज्जीवतु सर्वथा ॥२८॥ विकल्प्यैवं स्वयं शिक्षां दत्वा दूतशिरोमणिः । लोहजंघोऽतिजंघालः, कौशांब्यां प्रेषि भूभुजा ॥ २९ ॥ H आतस्थिवांसमास्थान- मिंद्रास्थानसहोदरं । दूतः स वेगादागत्य, शतानीकमभाषत ॥ ३० ॥ ऊर्वी - पतिरवंतीशः, कौशांबीश मुखेन मे । भवंतमादिशत्येवं । सावधानोऽवधारय ॥ ३१ ॥ राजते तेजसा तावद्, ग्रहतारासितांशवः । सर्वतेजखिनां राजा, यावत्संसहते रविः ॥ ३२ ॥
उत्पन्नरुचिरादत्ते, तेभ्यस्तेजो निजं यदा । समं तेन तदा तेषां कोऽपि किं कलहायते ||३३|| तेजांसीव सहस्रांशोः, कौशांबीपरमेश्वरः । रक्षति हंत रत्नानि रत्नगर्भोद्भवानि मे ॥ ३४ ॥ अस्ति सीमंतिनीरलं, प्रिया तव मृगावती । संसेहे तव भोगार्थ – मियत्कालमियं मया ॥३५॥ प्रस्थापयेथास्तदिमा — मिदानीं नीरजेक्षणां । गृह्णाति चेद्धनं स्वामी, गोपालः किमु रुष्यति ॥ ३६ ॥ इत्यादिष्टो नरेंद्रेण, राजन्नर्थः समर्थ्यतां । नीतिरप्यनुजानाति, दारैरप्यात्मरक्षणं ॥ ३७ ॥ अथावज्ञा ममाज्ञाया – मकालज्ञतया तव । तन्मामागतमीक्षेथा, रणाय प्रगुणो भव ॥३८॥ इत्युक्त्वा विर
24
चरित्रम्
॥ ५५॥
Page #58
--------------------------------------------------------------------------
________________
मृगावती
दूते, जीमूतध्वनिबंधुना । खरेणाथ शतानीकः, प्रतिवक्तुं प्रचक्रमे, ॥ ३९ ॥ कथमेतदकृत्यं ते । चरित्रम् | स्वामिना मानसे कृतं । कृतं चेत्तत्कथं नीत-मित्थं वचनगोचरे ॥४०॥ तत्रापि निस्त्रपेणासि, प्रहितस्त्वं हताशय | अहो राज्यमहो नीति-रहो धर्मस्तव प्रभोः ॥ ११ ॥ ग्रहशोऽपि ग्रहादोना-माच्छि-10 नत्ति यदृच्छया। तेज एव प्रभुत्वेन, न पुनः प्रेयसीरपि ॥ १२ ॥ अपि दोर्दडचंडानां, परदाराभि- AM लाषिणां । अवश्यं सा दशास्यस्य, पदवो न दवीयसी ॥४३॥ किं चास्ति नापराधोऽत्र, तस्य मालव-IN भूपतेः । राजानो न हि जानंति, हितं स्वच्छंदचारिणः ॥ ४४ ॥ किंतु तत्रापराध्यंति, भृत्योत्तंसा | भवादृशाः । ये नाथमुत्पथे पांथ-मुपेक्षतेऽनपेक्षया ॥ ४५ ॥ भृत्यः स भृत्यो यः पथ्यं, निजनाथाय शंसति । नाथः स नाथस्तेनोक्तं, हितं कर्णे करोति यः ॥ ४६॥ इत्यूचिवांसमुर्वीशं, दूतोऽवादीन्नरेश्वर । जानेऽजनिष्ट विस्पष्ट-स्तव भाग्यविपर्ययः ॥ ४७ ॥ यतो वाजिगजप्राज्यं, राज्यमात्मान| मात्मजं । कलत्रार्पणमात्रेण, त्रातुमुत्सहसे न हि ॥ ४८ ॥ उत्तुरंगतरंगेऽस्मिन्नगाधे वाहिनीपतो
॥५६॥ । विद्धि ध्रुवमवंतीशे, सैन्यं ते सक्थुमुष्टिवत् ॥ ४९ ॥ एतन्निशम्य साक्रोशं, वत्साधिपतिरभ्यधात ।
9%8C ke
Page #59
--------------------------------------------------------------------------
________________
मृगावती IN| अरे दूत दुराकूत, जल्पाक इव जल्पसि ॥ ५० ॥ शतानीकसहस्रांशो, युद्धमूर्द्धन्युदित्वरे। चंडप्रद्यो- IRIचरित्रम
तखद्योतः, कलयिष्यत्यदृश्यतां ॥ ५१ ॥ इत्थं कटु ब्रुवाणोऽपि, दूतोऽसीति न हन्यसे । इत्युक्त्वा | तं तिरस्कृत्य, विससर्ज प्रजेश्वरः ॥ ५२ ॥ अथोपेत्य मृगावत्यां, स्नेहाढथे चंडभूपतौ । मन्युमुद्दोप| यामास, दूतो वात इवानलं ॥ ५३ ॥ ततो भृयांसि तेजांसि, प्राप्तुं प्रद्योतभूपतिः । प्रतस्थे प्रति-IR | कोशांबी, कौबेरीमिव भास्करः ॥ ५४॥ यस्तदा तरलैर श्व-रूर्ध्वमुच्छृखलीकृतः । सदानैः शमित-A | स्तुंगः, सोऽपि रेणुः करेणुभिः ॥ ५५ ॥ चतुरंगचमूचक्र-समाक्रांतदिगंतरः । कोशांबोसविधेऽवात्सी।
-द्वत्सानुच्छेदयन्नयं ॥५६॥ आवासितमुपस्कंधे, ज्ञात्वा तं भयकंपितः। कमप्यलभत क्षोभं, वत्से| श्वरपुरीजनः ॥ ५७ ॥ पुर्या बहिस्तु वास्तव्यः, क्रांतस्तस्याग्रसैनिकैः । लोकस्तत्कालमस्तोकः, किं | न चक्रे भयाकुलः ॥५८॥ कातराश्चक्रिरे केचि-त्पलायितुमुपक्रमं । तत्रैवासूत्रयामासु-भीमं यम-| | गृहं परे ||५९॥ उपर्युपरि जातानि, बालापत्यानि पश्यतः । तदैकस्य दरिद्रस्य, विदद्रे हृदयं क्षणात् |
IPI॥५७॥ |॥ ६० ॥ विक्रीणतेस्म वणिज-स्तदा भांडं यथा तथा । परचक्रभयाक्रांता, न च क्रीणंति नूतनं |
Page #60
--------------------------------------------------------------------------
________________
मृगावती
॥ ५८ ॥
||६|| आत्ममूलमथ ज्ञात्वा, विग्रहं नृपयोस्तयोः । मृगावती तदात्मानं, निनिंदेत्थमनिंदिता ||३२|| हा धिग्मे वपुरेतस्य नासीदजननं कथं । अस्य युद्धप्रबंधस्य यद्दभूव निबंधनं ॥ ६३ ॥ दुर्भगाश्च कुरूपाश्च मन्ये धन्याः खलु स्त्रियः । नाहंपूर्विकया तासां, ढोकंते शीलदस्यवः ॥ ६४ ॥ महतामपि कोऽप्येष दुरुच्छेदो मतिभ्रमः । देहे मांसमये स्त्रीणां प्रतिभासो यदन्यथा ॥ ६५ ॥ ध्रुवमेष मणि मूर्ध्न - तक्षकस्य जिघृक्षति । ममापि शीलभंगाय, यदुरात्मा व्यवस्यति ॥ ६६ ॥
अथोल्कापातनिर्घात – काश्यपीकंपनादिकैः । संजातमुत्पातशतैः शतानीकपुरे तदा || ६७ ||| अरिं वीक्ष्य बलोन्मत्तं, दुर्निमित्तानि तानि च । निजानीके शतानीको, महातंकमशंकत ॥ ६८ ॥ भयप्रसृमरस्याधेः, सौहार्दादिव सत्वरं । तस्य व्याधिरतीसारः, प्रससार सुदुस्सहः ॥ ६९ ॥ साधिव्याधिरसो चक्रे, चिंतामित्यतीसारको । पतितोऽहमहो मृत्यु — निकटे संकटेऽधुना ॥ ७० ॥ इतः कूप इतो व्याघ्र, इतः सिंधुरितः फणी । इतोऽरातिरितो व्याधिः, करवाणि किमोशे ॥ ७१ ॥ निगृहीतो हताशेन, चित्रकृयो मया पुरा । तेन बद्धकुधा नून - मित्थमुत्थापितो रिपुः ॥ ७२ ॥
चरित्रम्
॥ ५८ ॥
Page #61
--------------------------------------------------------------------------
________________
मृगावती अवधूय निजान् वृद्धान्, क्रोधांधैर्यद्विधीयते । भवेत्तस्य परीणामो, ममेवानुशयावहः ॥ ७३ ॥ स्व- चरित्रम्
कर्मणः परोपाक-मेवमाकलयन्नहं । कस्मैचिन्नैव कुप्यामि, नैव कोप्ये च कंचन ॥ ७४ ॥ इति चिंतापरं कांतं, दुरंतव्याधिबाधितं । उवाच विनयादात्त-सतीमार्गा मृगावती ॥ ७५ ॥ धालीश | मंत्रिभिश्चक्रे, पुरी पिहितगोपुरा। वप्रश्च विविधैर्योधैः, संरुद्धः कपिशीर्षगैः ॥ ७६ ॥ शोलं मे मलि| नोकर्तुं, नालं मालविकाधमः । स्वामिन् वज्रमणेभैंदे, कस्य स्यात्प्रभविष्णुता ॥ ७७ ॥ असावु-IN | दयनः सूनु-रधृष्यस्तव विद्विषां । बालोऽप्यालोक्यते केन, दृशाप्यहिमदीधितिः ॥ ७८॥ तस्मा-101
न्मास्म पुरीं मास्म, मां मास्म शिशुमात्मजं । एकं विवेकमालंब्य, भूनाथः हृदये कृथाः ॥ ७९ ॥ | केवलं परमात्मानं, सर्वज्ञं ज्ञातनंदनं । उपासितं चिरं चित्ते, निश्चिंतः प्रणिधेहि तं ॥ ८० ॥ सर्वेषु | | पुरुषार्थेषु, धर्म एवांगिनां निजः । जन्मिनां यो भवत्येकः, परलोकपथेऽग्रगः ।। ८१ ॥ अष्टादशापि | दुष्टानि, पापस्थानानि संवृणु । स्वामिन्नस्यामवस्थायां, स्मर पंचनमस्कृतिं ॥८२।। अनुशास्तिमिमां |AI॥५९॥ 6 तस्याः, प्रेयस्याः स्वादयंस्तदा । शतानीकोऽस्तसंसार-संतापः प्राप पंचतां ॥ ८३ ॥ तदापि व्या-IN
Page #62
--------------------------------------------------------------------------
________________
॥६
॥
मृगावतो पि सा देवी, नो शोकेन विवेकिनी । विस्फुरति किमालोके, लोलास्तास्तिमिरोर्मयः ॥ ८४ ॥ ततःचरित्रम्
पत्युनिरोत्सुक्या-द्विधायाथोलदेहिकं । इत्थं चेतसि निश्चिक्ये, कर्त्तव्यं समयोचितं ॥४५॥ विसूत्रिततनुत्राणं, विना भूपादभूद् द्वयं । उज्ज्वलं मम शीलं च, राज्यमेतच्च संप्रति ॥ ८६ ।। एतद् द्वितयमप्यद्य, यथा प्रद्योतभूपतिः। नैव स्वच्छंदमास्कंदे-त्तथा कार्या मतिर्मया ॥ ८७ ॥ यद्येत| स्य तिरस्कारः, पन्नगस्येव दर्श्यते । तदाविष्कृत्य दौरात्म्यं, समग्र ग्रसते ह्यसौ ॥ ८८ ॥ अन्यथैव पराजेष्ये, तदेनमिति चेतसि । निश्चित्य चतुराभिख्यां, सखोमाह्वास्त सा ततः ॥८९॥ सा सकर्णा 10 तया करें, दत्वा शिक्षा मनीषितां । प्रद्योतभूभुजोऽभ्यणे, प्रहिता हितमानसा ॥ ९० ॥ उपेत्य सा| रहः प्राह, प्रणयादिति भूपतिं । भवंतमंतिकस्थेव, राजन् देवी वदत्यदः ॥ ९१ ॥ अस्तं दिनक्षयाः | दाप्ते, स्वामिनि युतिमालिनि । रजनीजानिमुन्मत्ता, स्वतः संक्रामति द्युतिः ॥ ९२ ॥ दिवं याते ||
शतानोके, तदेषोऽपि जनोऽधुना । प्रेमपाशसमाकृष्ट-स्तवागंता स्वयंवरः ॥९३॥ ममायं सरलो बालIN स्तनुजस्तनुसैनिकः । बलिष्टारातिसंक्लिष्टः, संप्रत्यंचति शोच्यतां ॥९४॥ पराभवमरातिभ्यो, वीप्सया ||
Page #63
--------------------------------------------------------------------------
________________
मृगावता
लप्स्यते ह्यसो । इति मामोरसः स्नेहो, विक्लवीकुरुतेतरां ॥९५॥ विघ्नमेनं मनोऽभीष्ट-सिद्धो विद्धि चरित्रम् धराधिप । वदंतीमेव तामेवं, बभाषे रभसान्नृपः ॥ ९६ ॥ कुतो पैलव्यवैयग्यं, भद्रे भद्रंकरे मयि । उपद्रवति दारिद्यं, मित्रे रत्नाकारेऽपि किं ॥९७॥ मद्भुजमंडपच्छाये, सुखासीनस्य किं भवेत् । सुत| स्योदयनस्येह, शत्रुभ्यस्तापविप्लवः ॥ ९८ ॥ चतुरोवाच बालोऽयं, दवीयोवर्तिनि त्वयि । अरिभ्योऽ- | |भ्यर्णचारिभ्यः, कुतः स्यादकुतोभयः ॥ ९९ ॥ एवं सति महाराज, सत्यमेतद्धि जायते । योजनानां
शते वैद्यः, क्रुद्धो मूर्ध्नि फणी पुनः ॥ १०० ॥ जगादोजयिनीनाथः, कथ्यतां कथमात्मजं । सर्वथा निर्भयं मन्यं, मन्यते स्वामिनी तव ॥१॥ साथ प्रोचे नृपावंती--पक्वं चेदिष्टिकाचयं । झगित्या|नीय कौशांब्याः, प्रकारं कुरुषे नवं ॥ २ ॥ भुवोनाथ भवेदेवी, तदा पूर्णमनोरथा । तवापि वांछाऽ| विच्छेदो, भविता नात्र संशयः ॥ ३॥ स तथेति प्रतिश्रुत्य, चतुरां तां विसृज्य च । वप्रोपक्रम- 10 मारेभे, कामिनां किमु दुष्करं ॥४॥ श्रेण्यामवंतीकौशांब्यो-रंतः कृत्वा स सेवकान् । चतुर्दशापि । भूपाला-नुपानिन्ये स इष्टिकाः ॥५॥ ताभिरभ्रंकषाकारं, स प्राकारमचीकरत् । देवानां मनसा राज्ञां,
®®®®®®
॥६१॥
Page #64
--------------------------------------------------------------------------
________________
मृगावती 8 वचसा कार्यसिद्धयः ॥ ६॥ भूपः स्मररसानूप-स्तन्मनास्तन्निदेशतः। अपरयच्च कौशांबी, तृणधा- चरित्रम्
न्येंधनादिभिः ॥७॥ नृपोंकुरितकंदर्पः, प्रसर्पत्पुलकस्ततः । व्यसृजद्विनयोदारां, दूती प्रतिमृगावती || |॥ ८॥ गत्वा मृगावतीं प्राह, साहसं संविधाय सा। त्वां देवि मालवाधीशो, विज्ञापयति संप्रति || | ॥ ९॥ कृतं देवि समादिष्टं, ममाभीष्टं विधीयतां । भवत्युन्नतचित्तानां, प्रतिपन्नं हि नान्यथा | 21 | ॥ १० ॥ मृगावती ततोऽवादी-द्राजा ते दूति नूतनः । स हि रक्षत्यनाचारं, किं पुनः कुरुते स्वयं । | ॥ ११ ॥ श्रुतिः कापि स्मृतिः कापि, पुराणं वास्ति किंचन । यत्रान्यदारसंभोगः, शुभोदकः प्रकी- 10 | र्त्यते ॥१२॥ जडानामपि कालेन, कालुष्यमपगच्छति । वर्षासु कल्लुषीभूय, शरद्यंभः प्रसीदति ॥१३॥
ततः प्राकारनिर्माण–प्रकारेण कृता मया । अस्याऽन्यायप्रसक्तस्य, व्याजतः कालयापना ॥१४॥ परं पापः कुहेवाक-मेनं न श्लथयत्यसौ । न कालेऽपि हि काकोलः, कालिमानं विमुंचति ॥१५॥ [0 आन्विक्षिकीत्रयीवाता, दंडनीतिं च जानता । दूति त्वदीयभूपेन, ज्ञातं नैतदपि स्फुटं ॥१६॥ शीलं ||॥२॥ सतोनां नागानां, मणीन् केसरिणां सटाः। एतान्यमीषामाच्छेत्तुं, कस्याप्यस्ति न योग्यता ॥१७।।
707003e
Page #65
--------------------------------------------------------------------------
________________
BLOCK
मृगावती तदिदं दूति मद्वाचा, त्वया वाच्यः प्रभुनिजः । क्व राजा त्वं महाबाहु-रिदं दुश्चरितं क्व च ॥१८॥ चरित्रम्
IPI कुलीना नाम कोलीनान्, कामं कामान् प्रचक्षते । अहल्यामकुलीनस्तु, चकमे मेघवाहनः ॥ १९॥ ॥ ३॥
| गुरुवर्गे वैनयिकं, विरुद्धस्मरनिग्रहः । यूनामपि शुभं यूनां, नैसर्गिकमिदं द्वयं ॥२०॥ तस्मादधर्ममन्याय, | मा कर्म नृपते कृथाः । सतोशापानलज्वाला-रसाभिज्ञश्च मास्मभूः ॥ २१ ॥ अभिधायेति गंभीरं, | | दूती च विससर्ज सा । वर्ष संवर्मयामास, नूतनं च ससौष्टवा ॥२२॥ ततो दूतीमुखाद ज्ञातं, राज्ञा | | तदनुशासनं । च्युतफाल इव द्वीपी, क्षमापः प्राप विलक्षतां ॥ २३ ॥ सोऽचिंतयदहो बुद्धि-रहो। | तत्प्रोढिरद्भुता। यदात्तशस्त्रशास्त्रोऽपि, स्त्रियाप्येवं पराजितः ॥ २४ ॥ कुवें सर्वंकषं तस्या, विक्रमो- IR | पक्रमं परं । मत्कर्तृकेण शत्रूणा-मसो दुर्गेण दुर्जया ॥ २५ ॥ इति चिंतामषीलितं, तमूचुर्मत्रिण| स्तदा । देव नीतिविपर्यासः, पश्यैवं पर्यवस्यति ॥ २६ ॥ अस्य पापैकमूलस्य, महारंभमहीरुहः ।। इदृक्पराभवपुष्पं, फलमन्यद्भविष्यति ॥२७॥ इतो मृगावती वीक्ष्य, तदा दुर्जयमात्मजं । राज्ये निवे-RIN६३॥ शयामास, पैत्रिके पितृसन्निभं ॥२८॥ रुमण्वांस्तस्य सैन्येशो, मंत्रो यौगंधरायणः । अजायेतां सुतौ ।
Page #66
--------------------------------------------------------------------------
________________
मृगावतीला धृद्ध-ध्वजिनोपत्यमात्ययाः ॥ २९ ॥ इयेष साथ तीर्थेशो, यद्यागच्छेदपश्चिमः । ततो गतोपसर्गा
To| स्यां, तस्याश्रित्य पदद्वयं ॥ ३० ॥ स एव व्यसनादस्मा–न्मामुन्मोचयितुं क्षमः । कर्षत्येकः प्रगे ॥६४॥
भास्वा-नलिनी नलिनोदरात् ॥ ३१ ॥ अथो:मुपकुर्वाणः, सर्वगीर्वाणपूजितः । कल्पद्रुमसमाकारः, कारुण्यैकमहार्णवः ॥ ३२ ॥ आलोक्य केवलालोका-तन्मनोऽभ्यागमत्प्रभुः । परो हि महतामात्त-| परित्राणक्षणः क्षणः ॥३३॥ युग्मं ॥ सर्वज्ञस्य सुरोपज्ञं, जज्ञे व्याख्यासदस्तदा । क्रुध्यधीराणि वैराणि, शशमुदुःशमान्यपि ॥३४॥ ततोऽपसृत्य प्रद्योतो-ऽप्यावासान् दूरमग्रहीत् । अपावृतानि कौशांब्या, ID गोपुराणि च जज्ञिरे ॥ ३५॥ तदाजग्मुर्जिनेशस्य, व्याख्यौकसि दिवौकसः । नृपोऽपि चंडप्रद्योत-2 स्तत्र प्रांजलिराययौ ॥ ३६॥ मनसा रोमकूपैश्च, बिभ्रती हर्षमंजसा । आगान्मृगावती साधं, वत्स- | राजेन सूनुना ॥ ३७॥ तत्रोपदेशपीयूष-स्तनयित्नुरभृत्प्रभुः । चातक इव तत्पान-सजश्चासीजनो यदा ॥ ३८ ॥ एकेन दृढमिष्वास-मिषूनन्येन पंचषान् । करेण कलयन् कश्चि-दाजगाम | पुमांस्तदा ॥ ३९ ॥ सर्वज्ञोऽयमिति ज्ञात्वा, विनीतः स्वामिनोंतिके । मनसैव समारेभे, स संदेह
Page #67
--------------------------------------------------------------------------
________________
मृगावती | मपोहितुं ॥४०॥ लोकोपकारमालोक्य, भाविनं भगवांस्तदा । वचसा वत्स पृच्छेति, सर्ववेदी तमा- चरित्रम् ॥६५॥
| दिशत् ॥ ४१ ॥ ततस्तारस्वरं संस-नेत्रमालार्चितस्तदा । स व्याजहार भगवन्, या सा सा सेति कथ्यतां ॥ ४२ ॥ आमेति भवानाह, तन्निशम्य च गौतमः । किमेतदिति पप्रच्छ, लोकोपकृतये | जिनं ॥४३॥ सानुकंपमथोवाच, वाचंयमचमूपतिः । कथातिमहती सेयं, सावधानैर्निशम्यतां ॥४४||
____ अस्तीह भरतक्षेत्रे, पुरी चंपेति नामतः । सुवर्णकारः स्त्रीलोल-स्तत्रासीत्कामकिंकरः ॥४५॥ | लीलयैव पणे दत्वा, सुवर्णशतपंचकं । वरेण्यकन्यकादर्श-मसो वरयति क्षणात् ॥ ४६ ॥ शतानि | पंच पत्नीनां, तस्याऽजायंत च क्रमात् । भोगेंधनैश्च कामाग्नि-न तृप्यति कदाचन ॥ ४७ ॥ तासां मध्याच्च यस्याः स्या-द्यदा भोगाय वारकः । सा तदेवांगशृंगार-मंगीकुर्वीत नान्यदा ॥४८॥ नरेण सोदरेणापि, संलापो न कदाचन । तासामभुच्च तास्तेना-ऽदांत निजमानसे ॥ ४९ ॥ नित्यं |
निजामपि च्छायां, पुरुषाकारधारिणीं । तदंतश्चारिणी पश्यन्, व्यानशेऽसावसूयया ॥ ५० ॥ सदा Mo1 तदीयं नेदीयान्, निषण्णः संमुखो मुखं । सोऽनिमेषाक्षमैक्षिष्ट, वृषभः शांभवो यथा ॥५१॥ अन्यदा |RI
4040
Page #68
--------------------------------------------------------------------------
________________
मृगावतो
चरित्रम्
DOOD
प्रीतिपात्रेण, मित्रेणामंत्र्य गौरवात् । भोक्तुं नीतो विनीतेन, स्ववेश्मायं कथंचन ॥५३॥ युगपच्चिंत| यामासुः, समस्ता अपि तास्तदा। धिग्धिग्गुप्ताविव क्षिप्ता, वयमीर्ष्यालुनाऽमुना ॥५३। दीपांकुरैरिवां| धाना-मस्माकमतिभासुरैः । उपयोगविधौ वंध्यै-रेभिराभरणैः किमु ॥५४|| अमिताऽगुरुकर्पूर-कस्तुरीचंदनादिभिः । किमेभिर्वस्तुभिर्दारः, क्लीबानामिव निष्फलैः ॥५५॥ अमीषां भोगपर्यायो, भावी । वारकवासरे । स च क्रमादतिक्रांत-दिनानां पंचभिः शतैः ॥५६॥ बंदीकृत्य निरुद्धाः स्म-स्तदनेन | दुरात्मना । अद्य नो दुःखमादाय, यावत्वापि गतोऽस्त्यसौ ॥ ५७ ॥ तावत्स्वैरं परीभोगान्, विलसामो यदृच्छया। एवं मनसि कुर्वत्यः, सर्वाः स्नांतिस्म तास्तदा ॥५८॥ ततः परिमलोद्गार-झटित्याहतषट्पदं । सद्यो जागरितानंग-मंगरागं वितेनिरे ॥ ५९ ॥ हाराहारकेयूर-प्रमुखं सुमुखीजनः । | पर्यधत्त निजांगेषु, चिरदृष्टमिव प्रियं ।। ६० ॥ वरैर्बभूवुर्वासोभिः, शोभमानांगयष्टयः । लावण्यैकतरं| गिण्यो-रतिमप्यतिशेरते ॥६१॥ यावद्वेषमशेष ताः, कृत्वा स्वःस्त्रीविजित्वरं । तांलोबल्वणबिंबोष्ट्य |-स्तिष्टंत्यादर्शपाणयः ॥ ६ ॥
DD00000.
॥६६॥
Page #69
--------------------------------------------------------------------------
________________
रित्रम्
॥६७॥
मृगावतो प्रत्यागतः पतिस्ताव-तादृशोश्च निरीक्ष्य ताः । धावतिस्म क्रुधा हंतुं, रूक्षाक्षरमधिक्षिपन्च
A ॥६३॥ तासामन्यतमा तेन, मर्मणि प्रहता तथा । प्रवासमसवस्तस्या, भयादिव यथा व्यधुः ॥४॥ | ततचिंतितमन्याभि-र्भयोत्थापितवेपथु । एषोऽस्मानपि खल्वस्याः, पथि पांथीकरिष्यति ॥६५॥ ततो. | ऽसौ ध्रुवमस्माकं, वध्यो वधसमुद्यतः । हतानि संमुखं हंतु-रुच्छलंति जलान्यपि ॥६६॥ ताभिरि| त्याप्तरोषाभिः, सममाहत्य दर्पणैः । पराशुराशु स क्रूर-श्चक्रे चक्रोपमैस्तदा ॥ ६७ ॥ पतिं व्यापाद्य | ताः सर्वाः, पश्चात्तापमिति न्यधुः । भविता नः परीवादः, पतिव्यापादिका इति ॥ ६८ ॥ पापानां | |नस्ततो नास्ति, शरणं मरणं विना । अन्यथा नो धरित्रीशो, दंडविइंडयिष्यति ॥६९॥ न च स्मः पात
कादस्मा–न्मुख दर्शयितुं क्षमाः । उरीकृत्य ततो मृत्युं, यामो दुःखांबुधेस्तटं ॥७०॥ एवं विमृश्य | || निःक्षेपि, घनमिंधनमालये । तत्राशुशुक्षणिस्तत्र, चात्मा ताभिस्ततः क्रमात् ॥७१॥ अकामनिर्ज| रायोगा-न्मृत्वा च शुभभावतः। नरेष्वजनि तत्तासा-मेकोनं शतपंचकं ॥७२॥ नरास्ते च समीपस्था, दैवादेकत्र संगताः । विषमेऽध्युषिताः शैले, दस्युतां पर्युपासते ॥७३॥ या हता प्रेयसी तेन,
009OOO
॥६७॥
Page #70
--------------------------------------------------------------------------
________________
मृगावती ॥ ६८ ॥
प्राप्य तिर्यक्षु जन्म सा । स्फीते विप्रकुले सापि पुत्रत्वेनोदपयत ॥ ७४ ॥ मृत्वा सुवर्णकारश्च तैरचं बहुधान्वभृत् । ततः कर्मवशात्तस्य, स्वसाऽजनि कनीयसी ॥ ७५ ॥ स तदानीं विनीतात्मा, तनुजन्मा द्विजन्मनः । पंचवत्सरदेशीयो, निदेशार्हश्च वर्त्तते ॥ ७६ ॥ ततः स तस्या बालाया, भृशं चपलतास्पृशः । मातापितृभ्यामादिष्टो, बाल्यत्वे क्रीडनकृते ॥७७॥ स पाणिना स्पृशन्नंग-मत्यंतमृदुचारिणा । क्रमात्तस्याः स्मरस्मेरं, गुह्यदेशमघट्टयत् ॥७८॥ सा रोदनं विसस्मार, सस्मार स्मरशर्मणां । तदा नरकरस्पर्शे, कूणिताक्षी बभूव च ॥७९॥ ततोऽसौ विदितोपायः सर्वदैवाकरोत्तथा । सांकुरित महानंदा, रोदनाद्विरराम च ॥ ८० ॥ तथा कुवैतमालोक्य, कदाचित्पितरौ भृशं । क्रोधावेशात्तमाक्रुश्य, निरवासयतां गृहात् ॥८१॥ अथ निर्वासितो दूर-मटवीषु परिभ्रमन् । स तैः प्राग्जन्मसंबद्धै – दस्युभिः समगच्छत ॥ ८२ ॥ ततः संमिलितेनाथ, विधेरादेशतस्तथा । चक्रे पंचशी पूर्णा, दस्यूनां तेन दस्युना ॥ ८३॥ बालिका साथ बाल्येऽपि, तीव्रवेदोदयात्ततः । दुराचारप्रवृत्ताऽभू - दहो कामस्य वामता ॥ ८४ ॥ सा कन्यापि कुशीलेति, पितृभ्यामपि तत्यजे । तरवोऽपि त्यजं -
चरित्रम्
॥ ६८ ॥
Page #71
--------------------------------------------------------------------------
________________
मृगावती | त्येव, दुर्वातोपहतं फलं ॥६५॥ सानर्गलेंद्रियग्रामा, ग्राममेकमशिश्रयत् । स्वारणोत्वेन तत्रापि, गणि- चरित्रम्
कात्वे ह्यवर्तत ॥ ८६ ॥ शतानि पंच ते चौराः, कुतोऽप्येत्य निरत्ययं । लुटनैकपटोयांस-स्तं ग्राम-10 | मुपदुद्रुवुः ॥८७॥ तस्य कुप्यमकुप्यं च, धनं जीवधनं च ते । स्वीकृत्याऽकृत्यनिष्णाता, निजं स्थानं ||
प्रतस्थिरे ॥ ८८ ॥ तानालोक्य प्रियालोक-सुखास्वादमवाप्य सा । तेषु पूर्वभवाभ्यासा-दिरंसा| माससाद च ॥ ८९ ॥ ततस्तान् व्रजतोऽवादी–दहो साहसिकोत्तमाः । मानुषं ह्रियते यन्न, तन्न | वस्तस्करव्रतं ॥ ९० ॥ एषास्मि भवतां नित्य-मर्थसंपादनक्षमा । तन्मामहाय गृह्णीत, संगृह्णोत | सुखश्रियं ॥ ९१ ॥ तद्भावज्ञास्ततस्तेऽपि, संगीरंतेस्म सस्मिताः । एहि भद्रे द्रुतं शर्म, गृहिष्यामः | | परस्परं ॥१२॥ तामित्युक्त्वात्मना साकं, ते निन्युनिजपर्वते । मृगाक्षी तादृशीं प्राप्य, कः सकामो | विमुंचति ॥९३॥ तत्राहोरात्रमप्येतां, ते प्रत्येकमनेकधा । विकस्वरस्मराः स्मेर-मुखांभोजामभुजत A ॥ ९४ ॥ तथापि मन्मथोन्माद-स्तस्याः प्रत्युत वर्धते । कंडूयनाद्धि कंडूति-वर्द्धते कामपापयोः | | ॥ ९५ ॥ तां तथाक्रम्य भुंजाना–स्ते चक्रुरिति चेतसि । एतस्याः खलु भाव्येव-मबलाया बल
4640
Page #72
--------------------------------------------------------------------------
________________
मृगावती ॥७॥
क्षयः ॥९६॥ तद् द्वितीया हितायास्याः, कार्यास्माभिरसंशयं । अस्मद्भोगविभागेन, या नित्यं सुख| यत्यमुं ।। ९७ ॥ एतद्विचिंत्य चक्रेऽस्या, भोगश्रमविभागिनी । अपरा युवतिः कापि, तैरत्यंतदया| लुभिः ॥९८॥ तत्र या प्राक्तनी पत्नी, सा खेदमतिमेदुरं । सपत्नीसंगमाल्लेभे, सर्वस्वहरणादिव ॥१९॥ | अथाच्छेत्तुं प्रवृत्तायाः, कामं कामसुखश्रियं । व्यापादनं कनीयस्या-स्तस्याः सा स्म समीहते ॥२०॥ |R
परं सा सन्निधौ तेषां, न तां हंतुमभूत्प्रभुः । प्रौढगोपपरीवारां, वृकी मुग्धामजामिव ॥ १ ॥ एकदा | क्वाप्यवस्कंदं, दातुं तेषु गतेष्वसौ । कूपोपकंठमानीय, मुग्धामेतामभाषत ॥ २॥ अंतःकूपं किम| प्येत-न्मनुष्याभं हि दृश्यते । ततोऽसौ तत्र पश्यंती, तया क्षिप्रं निचिक्षिपे ॥३॥ अथ सा नः
क्क पत्नीति, ते पप्रच्छरुपागताः । जानीथ यूयमेवेति, तेभ्यः साप्युत्तरं ददौ ॥ ४ ॥ इत्यसूयोत्तरा- | | तस्या, विज्ञैर्विज्ञायि तैः क्षणात् । सा वराकी सपत्नीति, नूनं व्यापादिताऽनया ॥ ५॥ अथ विप्र-IN | सुतश्चौर–श्चिंतयामास विस्मितः । प्रपंचः पंचबाणस्य, गेयस्य च वचोऽतिगः ॥ ६॥ यद् द्विती- | यामियं हत्वा, भोगश्रमविभागिनीं । एवमेकैव सहते, कामं कामविडंबनां ॥ ७॥ इत्थमुत्कटकं
॥७॥
Page #73
--------------------------------------------------------------------------
________________
मृगावती
॥७१॥
| दर्पा, किं न नाम भवेदियं । बाल्येऽप्यनल्पचापल्या, सा हि दुष्टा स्वसा मम ॥८॥ अथवा संशयो|न्माथी, वीरोऽभ्यणेऽस्त्युपागतः । ततस्तमभिगच्छामि, पृच्छामि च यदृच्छया ॥ ९॥ अभ्येत्येति | धिया पृच्छन्, प्रच्छन्नं मनसैष मां । प्रश्नं लोकोपकाराय, कारितो गिर्मयं मया ॥ १० ॥ तदेष विषयग्रामो, निःसीमः परिभाव्यतां । नागरा अपि रंगेण, यत्र वास्तव्यतां दधुः ॥ ११ ॥ छरितः कपि-2 कच्छ्वेव, पुरुषो विषयेच्छया । रतिं न लभते कापि, भवनोपवनेष्वपि ॥ १२ ॥ यः संभोगेन निष्णातः, कामतृष्णां चिकित्सति । स त्रिदोषभवं दुःखं, सर्पिषा संजिहीर्षति ॥१३॥ लीलयैव गुणग्राम | -मुदग्रो मकरध्वजः। भस्मीकरोति सहसा, कृशानुरिव काननं ॥१४॥ न स मंत्रो न तत्तंत्रं, गुर्वाज्ञापि | न सा क्वचित् । पंचेषुविषदोषोत्था, लहरी येन शाम्यति ॥१५॥ अहो मोहमयं नव्यं, कामिनोनयनांजनं । इत्थं विपर्ययज्ञानं, येनोदेति पदे पदे ॥ १६ ॥
___ अंगनानाममी केशान्, बर्हान् जानंति बर्हिणां । नेत्रे सरोरुहःपत्रे, कपोलो कामदर्पणो ॥१७॥ अधरं । 10. विद्रुमं वक्त्रं, पार्वणं रोहिणीपतिं । पयोधरौ सुधाकुंभौ, करौ कल्पद्रुपल्लवौ ॥ १८ ॥ नाभिं चेतोभुवो |R
॥७१॥
Page #74
--------------------------------------------------------------------------
________________
मृगावती
॥७२॥
वापीं जघनं सिंधुसैकतं । ऊरू च कदलीस्तंभौ, चरणौ च कुशेशयौ ॥ १९ ॥ त्रिभिर्विशेषकं || एवं वामदृशामंग- मनंगावेशविह्वलाः । मांसास्थिमयमप्येत - त्कामिनो मन्वतेऽन्यथा ॥ २० ॥ परिणा● ममहादुःखं, दुःखमूलमिदं जनाः । सुखं वैषयिकं तन्मा, सुखं जानीत जानुचित् ॥ २१ ॥ वोतशंकमनातंक - मात्यंतिकमथाव्ययं । ऐकांतिकमनंतं यत्सुखं जानीत तत्सुखं ॥ २२ ॥ पयोमुचि जगन्नाथे, वाक्सुधामिति वर्षति । आसीयाख्यासदः क्षेत्रं, सद्यः संवेगशावलं ॥ २३ ॥ देशना - मृतमापीय, शांतमोहमहाविषः । सोऽपि स्वामिसुहस्तेन, स्तेनः प्रब्रजितस्तदा ॥ २४ ॥
अथ सानंदमुत्थाय, संमीलत्करकुझला । प्रभुं विज्ञपयामास, समयज्ञा मृगावती ॥ २५ ॥ त्वयैवं कल्पिता स्वामिन्, देशनाद्य यया त्वहं । सुधासधर्मिणीचक्रे, चकोर्या इव चंद्रिका ॥ २७ ॥ तन्मालवेशमापृछ्य, दूरमुच्छिन्नमत्सरा । जिनेश प्रत्रजिष्यामि तव पादांतिकेऽधुना ॥ २८ ॥ तीर्थनाथस्ततोऽवादी - न्निजानेतान्मनोरथान् । समर्थयेथास्त्वं मास्म, विलंबेथाः पतिव्रते ॥ २९ ॥ मृगावती ततश्चंडं, चंडप्रद्योतभृपतिं । उपेत्यानाकुलं रम्यं सप्रश्रयमभाषत ॥३०॥ यत्तवास्याभिलाषस्य,
चरित्रम्
॥७२॥
Page #75
--------------------------------------------------------------------------
________________
चरित्रम्
॥७३॥
.मृगावती में जातास्मि प्रतिकूलिको । आत्मानुकूलमेवैत–जानीयास्त्वं जनाधिप ॥ ३१ ॥ भगवद्वदनांभोज
किंजल्कान् कल्कहारिणः । उपदेशानिमान् राजन्, कदाचिन्मास्म विस्मर ॥ ३२ ॥ इदानीमनुमन्यस्व, संयमग्रहणाय मां । यः स्वर्गमपवर्ग च, मार्गोऽयमुपतिष्टते ॥ ३३ ॥ विवेकोक्तिभिरित्युक्तः, | पर्षत्प्रत्यक्षमेतया । अपत्रपिष्णुर्धात्रीश-स्तां तथेत्यन्वमन्यत ॥ ३४ ॥ आयतिज्ञा ततो राज्ञी, |
प्रद्योतपृथिवीभुजः । अथोदयनमुत्संगे, निचिक्षेप तनूरुहं ॥ ३५ ॥ दत्वा दानानि दीनेभ्यः, प्रवर्त्य | |च महोत्सवं । प्रभुपादांतिके प्रीता, प्रपेदे साथ संयमं ॥ ३६॥ तां गृहीतव्रतां वोक्ष्य, प्रियाः प्रयो- | | तभूभुजः । अष्टांगारवतीमुख्याः, संगत्यागं वितेनिरे ॥३७॥ प्रश्नकृयो जिनाभ्यणे, चौरः प्रबजितः | पुरा । स बोधयितुमेकोनां, चौरपंचशतीं ययौ ॥३८॥ आख्याय विषयोच्छेदां, देशनां प्रभुनिर्मितां । जागृद्भाग्यः सवैराग्यं, तेषामप्युदमीलयत् ॥३९॥ ततस्तेऽपि समस्तेऽपि, योषित्सोख्ये पराङ्मुखाः । उन्मीलद्भावनास्मेर-मुररीचक्रिरे व्रतं ॥ ४० ॥ तया स्त्रिया तथा भोगा-त्पापपाथेयमर्जितं ।। | यथा नरकमार्गेऽपि, नैव तस्यास्त्रटिष्यति ॥४१॥ अथ प्रदातुमारेभे, शिक्षा दोक्षामिव स्वयं । सुधा.
॥७३॥
Page #76
--------------------------------------------------------------------------
________________
मृगावती ॥ ७४ ॥
1
वीचिमुचा वाचा, मृगावत्यै जिनोत्तमः ॥ ४२ ॥ कल्याणि भाविकल्याणः, कश्चिदेव विपश्चितां । कुर्या न्मनोरथानेतान् लभते विरलः पुनः ॥ ४३ ॥ दुर्लभः संयमो लेभे तत्त्वया ज्ञाततत्वया । तन्नित्यमप्रमत्तापि, कल्पोऽयमिति शिक्ष्यते ||४४ || प्रयतेथास्तथा भद्रे, यथा भद्रेण युज्यसे । प्रव्रज्या क्लेशमप्येनं मन्येथा व्यर्थमन्यथा ॥ ४५ ॥ केवलेनापि शीलेन, दुर्लभं लब्धवत्यसि । संयमेनामुना किंतु, त्रैलोक्यमपि जेष्यसि ॥१६॥ ततो ज्ञाने क्रियायां च प्रवर्त्तेथाः प्रयत्नतः । सदैव द्वयमेतद्धि, विद्धि सिद्धिनिबंधनं ॥ ४७ ॥ प्रमादमादरान्मुक्त्वा तत्वसर्वस्वदृश्वरि । ज्ञानदर्शनचारित्रे - ऽप्यायुष्मति मतिं कुरु ॥४८॥ तथेति प्रतिपेदाना, शिक्षां सर्वविदा तदा । असौ चंदनबालायाः, प्रवर्तिन्याः समर्पिता ॥ ४९ ॥ सा जिनेशोपदेशं तं कुर्वतो सर्वतो हृदि । तदभ्यासे क्रियाभ्यासं, प्रसाधयति सादरं ॥५०॥ अनन्यसदृशोऽन्यत्र, जगाम भगवानपि । जिनेशस्त्वंशुमालीव, नैकत्र कुरुते स्थितिं ॥ ५१ ॥ चंडप्रद्योत भूपालः, पालयन् स्वं प्रतिश्रुतं । पुनः संस्थापयामास पुर्यामुदयनं नृपं ॥ ५२ ॥ नवं राजानमापृछ्य, समुत्सुकपरिच्छदः । ततोऽवंतीमवंतीशः, क्रमशः प्राविशत्पुरीं ॥ ५३ ॥ अथ मथितसम
04064404
चरित्रम्
॥ ७४ ॥
Page #77
--------------------------------------------------------------------------
________________
मृगावती स्तप्रत्यनीकांधकारो, मतिविभवगभस्तिद्योतितन्यायमार्गः । उदयमुदयनोऽयं नव्यमासाद्य सो, ॐ रविरिव भुवि तेजो निःसमानस्ततान ॥ ५४ ॥ इति मलधारिश्रोदेवप्रभसूरिविरचिते श्रीमृगावती॥ ७५ ॥ ० चरित्रे तृतीयो विश्रामः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ चतुर्थो विश्रामः प्रारभ्यते ॥
अथ वत्सेश्वरो वत्स्यान् प्रशशासोग्रशासनः । परं निरंतरं मातु - रस्मार्षीन्मातृवत्सलः ॥ १ ॥ रक्तं प्रणामसंपृक्तै- र्मातुश्चरणरेणुभिः | भालस्थलं महीपालः समालिन्यममन्यत ॥ २ ॥ प्रजयोपास्यमानोऽपि जनन्याः पर्युपासनं । विनासौ सततं तेन, राज्येनापि न पिप्रिये ॥ ३ ॥ उत्तान - मानसं प्रेक्ष्य, प्रेक्षावानथ पार्थिवं । तं नुनोद विनोदेषु, मंत्री योगंधरायणः ॥ ४ ॥ ततः कदाचि - |न्मत्तेभ - मभ्रभूपतिविभ्रमं ॥ सोऽधिरूढः श्रियं दधे, निबिडोजा बिडौजसः ॥ ५ ॥ कदाचिच्चतुरं जात्यं, सोऽतिरेकात्तुरंगमं । अशिक्षयद्गतीश्चित्राः, शालिहोत्रविचक्षणः ॥ ६ ॥ स्वसवित्रीचरित्राणां,
चरित्रम्
॥७५॥
Page #78
--------------------------------------------------------------------------
________________
मृगावती
॥७६॥
POOOOOO.
स प्रबंधैः स्वयं कृतैः । चक्रे घोषवतीपाणिः, कदाचिदुपवीणनं ॥ ७॥ गत्वा वनेभ्यो वन्येभान्, | | मत्तानपि कदाचन । वश्यान् घोषवतीनादात्, स कृत्वा पुरमानयत् ॥ ८॥ एवं वशीकृतानेक| मत्तानेकपसंहतिः। भूयसोर्गमयामास, स वासवसमः समाः ॥९॥ अवंतीभर्तुरन्येद्यु-मर्गिसागर|मारुतिः । लोहजंघाह्वयो दूत-स्तमागत्येत्यभाषत ॥१०॥ राजन् प्रभुरवंतीनां, त्वामाह स्नेहनिर्भरः । | सगर्वाः सर्वदेशेभ्यः, संपातामवंतयः ॥ ११ ॥ कृतार्थनेवनिर्माणो, भूयादुजयिनीजनः । त्वदीयद-10
र्शनेनास्तु, चिरान्नः पारणं दृशोः ॥ १२ ॥ वत्सा वासवदत्ता मे, समेत्याध्याप्यतामिह । अदृष्टपूर्व| गंधर्व-कलासर्वस्खमंजसा ॥ १३ ॥ इत्युक्तवंतं तं दूत-मवादीन्मेदिनीपतिः। प्रभाते प्रथयिष्यामः, | सकर्ण तव निर्णयं ॥१४॥ इत्यादिश्य तमुर्वीशः, प्रपेदे मंत्रिमंडपं । मंत्रिणे कथयामास, तच्चावंतीशवाचिकं ॥ १५॥ उवाच सचिवोत्तंस-स्ततो यौगंधरायणः । वयं विप्रकृतास्तेन, स चास्माभिरनेकथा ॥१६॥ तदस्माकमयं देव, देवानामिव दुर्मदः । सदैवाऽकृत्रिमः शत्रु-विधुतुद इवाधिकं ॥१७॥ पुरा नो दुःखदं कर्म, यदनेन दुरात्मना | चक्रे तदलमालप्य, किं च देवोऽपि वेत्ति तत् ॥ १८ ॥
100000000
॥७६॥
Page #79
--------------------------------------------------------------------------
________________
॥७७॥
मृगावती तन्नाथ विद्विषस्तस्य, गृहे गंतुं न युज्यते । किंतु राजसुतात्रैव, कलामध्येतुमेतु सा ॥ १९ ॥ तदाक
| लय्य राजापि, वचस्तस्य वचखिनः । सहेलं लोहजंघाय, प्रातः प्रत्युत्तरं ददौ ॥ २० ॥ सा पार्थिवेन | | शिक्षार्थ, शिष्या नः प्रेष्यतामिह । विनयो विनयादेति, गुवंतिकमिति क्रमः ॥२१॥ इति लब्धोत्तरो दूतः | | प्रद्योताय महोभुजे । गत्वा निवेदयामास, यथादृष्टं यथाश्रुतं ॥ २२ ॥ अथ वासवदत्तेति, मधुरामक्षरावली । मुहुर्वत्साधिपो ध्यायन्, प्रमोदं वरमासदत् ॥ २३ ॥ परेयुर्विपिनोद्देशा-द्वेगादेत्य वनेचरः। । विनयावनतः कश्चि-द्वत्सराजं व्यजिज्ञपत् ॥ २४ ॥ तव सीमांतकांतार–पर्यंते पर्यटन प्रभो। ० | वन्योऽस्ति निजशौंडीर्य-निर्जिताशागजो गजः ॥ २५ ॥ संवर्मितेन महता, ततः सैन्येन दुर्द्धरः ।। | वनं वनेचराख्यात–वर्त्मना निर्ययौ नृपः ॥ २६ ॥ देशे दवीयसि क्वापि, व्यवस्थाप्य वरूथिनीं। | दधद्घोषवतीमेकां, सोऽचलत्करिणोंतिकं ॥२७॥ महाबलत्वसाधर्म्य-स्नेहेनेवातिवेगवान् । पवनोऽ- | | भिमुखस्तस्य, ववौ व्यावर्तयन्निव ॥२८॥ परोपकारव्यापार-व्रतसब्रह्मचारिणः । अमुं मुक्तशुकारावै || DI७७॥ RI-स्तरवो वारयन्निव ॥ २९ ॥ अथाग्रे द्रुतमालोक्य, कुंजरं राजकुंजरः । करेण कोणमादाय, मंजु
Page #80
--------------------------------------------------------------------------
________________
@
@
@
मृगावती || वीणामवीवदत् ॥ ३० ॥ विपंचीनादपीयूष-श्रद्धालुमनसो मृगाः । अखंडमंडलीबद्धाः, परितस्तं || चरित्रम्
| सिषेविरे ॥ ३१ ॥ अवेल्लत्तस्य वल्लक्या, यदा कर्णाध्वनि ध्वनिः । योगींद्र इव नागेंद्र, स्तिमितांग| स्तदाभवत् ॥ ३२॥ कूणिताक्षमविक्षिप्त-कर्णतालमनाकुलं । एत्य राज्ञोंतिके तस्थो, भुवि न्यस्तकरः | करी ॥ ३३ ॥ तथावस्थे ततस्तस्मिन्, भृशं रभसनिर्भरः । स वीणां वादयामास, सकलो निष्कलस्वनं ॥ ३४ ॥ निःशेषविषयत्यागी, भूतग्रामश्चराचरः । तदेकानः समग्रोऽपि, जज्ञे वाचंयमस्तदा ॥ ३५ ॥ सोऽपि दत्तसुधावादे, नादे निर्मग्नमानसः । न वेद क्वास्मि कोऽस्मीति, योगीव ध्याननि-1 चलः ॥ ३६॥ नियांतिस्म ततोऽकस्मा-सिंधुरोदरकोटरात् । भटाः शस्त्रस्फुटाः क्षिप्तं, विलादिव || | महोरगाः ॥ ३७ ॥ अहो गृह्णीत गृह्णीत, जीवग्राहममुं नृपं । मास्म यासोदिति क्रूरा-स्ते जजल्पुः ।। | परस्परं ॥ ३८ ॥ वल्लकोसल्लकीसांद्र-रसलालसमानसः । सुभटैनिकटीभूय, रुरुधे राजकुंजरः ॥३९॥ काकोलैरिव तैः पापै–निरुद्धः शाव्यकर्मठैः । राजहंसः स मीमांसा–मिति चेतसि निर्ममे ॥४॥ नायं दंतावलः सत्यः, किंतु यंत्रमयः स्फुटं । तदिदं विदधे कूटं, मम बंधाय केनचित् ॥ ११ ॥ एवं
@
@
@
@
Page #81
--------------------------------------------------------------------------
________________
॥७९॥
मृगावती | विपंचोव्यापार–पारवश्यमुपेयिवान् । छलेन हो गृहोतोऽस्मि, धिग्मामित्थमनायुधं ॥ ४२ ॥ चरित्रम्
| आपदामापतंतोना-माकर्षणकरं परं । एकं व्यसनमाख्यातं, विद्वद्भिर्महीमंडले ॥ ४३ ॥ महेभबंध| व्यसन-द्वारमासाद्य मेऽद्य तत् । समागता विपत्प्रौढा, या तरोतुं न पार्यते ॥ ४४ ॥ याप्यापत्तर| णोपाया, सापि दूरे वरूथिनो । सेयमंतरकूपार–पेतुषः पोतविच्युतिः ॥ ४५ ॥ इति मिमांसमा| नोऽसौ, वत्सानां परमेश्वरः । उत्पाट्य सुभटैर्नीतः, पुरः प्रद्योतभूपतेः ।। ४६ ॥ अवदातानुसारेण, प्रद्योतः पारितोषिकं । वितीर्य तेषामावास-गमनाय समादिशत् ॥४७॥ कौशांबीशमवंतीशः, संभाव्य स्निग्धया दृशा । निजसिंहासनस्याधे, गौरवेण न्यवीविशत् ॥४८॥ आलपञ्च महीपालं, महाबाहो | कलांबुधे । अमीभिश्छलितोऽस्मीति, मास्मांतर्मानसं कृथाः ॥ ४९ ॥ गजेंद्राश्च नरेंद्राश्च, सुवंश्याः | सत्त्ववृत्तयः । सत्कारायैव बध्यंते, छलतोऽपि द्वयेऽप्यमीः ॥५०॥ सदृक्षानिक्षुभिः संतो, भवादृक्षान् | प्रचक्षते । निःपीडिता अपि मुह-माधुर्य न त्यजंति ये ॥ ५१ ॥ ते हि सर्वत्र सत्कारं, लभंते गुण- |
Al॥७९॥ BI सौरभात् । विन्यस्यंते शिरस्येव, कुसुमानि मनीषिभिः ॥ ५२ ।।
OOOOOO
Page #82
--------------------------------------------------------------------------
________________
मृगावती
॥ ८० ॥
तदेतस्यापराधस्य । कौशांबीश त्वमीशिषे । चंद्रो नभश्च भूमिं च, समं विलभते न किं ॥ ५३ ॥ बालगोपालयोरेषा, लक्ष्मीरायततो यथा । समस्तापि तथा वत्स, वत्सेश्वर तवाप्यसौ ॥५४॥ तवोपयोगिनी ह्येषा, सफलोभवति स्फुटं । उपकारैकसारं मे । तद्वचो मंतुमर्हसि ॥ ५५ ॥ समानीय तदानीं त्वं ममैवोत्संगसंगितां । स्वयं देव्या मृगावत्या, तार्त्तीयकः सुतः कृतः ॥५६॥ आनभिराद्य कंठांता, त्वयि से प्रार्थनागवी । प्रत्यादेशभयाद्वत्स, वितनोति गतागतिं ॥५७॥ संभावयसि चेदानीं, प्रतिषेधाऽभयाक्षरैः ॥ तदेषा चरति स्वैरं त्वदीयश्रुतिगोचरे ॥५८॥ अथ वत्सेश्वरोऽजल्प-त्ससौष्टवमनिष्ठुरं । मम वः सांत्वनान्नष्टो, हठग्रहपराभवः ॥ ५९ ॥ पितृकर्तृकवात्सल्या - चित्तं क्रीतशंकितं । कायें मद्धेतुके क्वापि, ममादिश नरेश्वर ॥ ६० ॥ सत्युपादानसामर्थ्ये, तत्कार्यकरणक्षमः । धाधव तवादिष्टं, को नाम कुरुतेऽन्यथा ॥ ६१ ॥
उवाच चंडप्रद्योतः कुलोद्योत निशम्यतां । अस्ति वासवदतेति, पुत्री मे गोत्रजीवितं ॥६२॥ आराधितेन दत्तेयं, वासवेन सुता मम । ततो वासवदत्तेति मयास्या नाम निर्ममे ॥६३॥ श्रनिर्वि
चरित्रम्
॥ ८० ॥
Page #83
--------------------------------------------------------------------------
________________
मृगावती
॥८१॥
| शेषाऽशेषांगी—मेतां निर्मितवानपि । वेधा बभूव निर्भधा, व्यंगयन्नेकया दृशा ॥६४॥ एकेन सोर- चरित्रम् | भेणेव, नयनेन विना कृता । कर्णिकारस्य साधर्म्य, बिभरामास मे सुता ||६५|| तदेवं लांछनामेना, | को नाम परिणेष्यति । इयं मामन्वहं हंत, चिंता जागरयत्यलं ॥ ६६ ॥ कलाशिक्षासु दक्षत्व| मस्याः केवलमीक्ष्यते । तत्सुधीभिरुपाध्यायै-रेनामध्यापयाम्यहं ॥ ६७ ॥ कला संप्रति गांधर्वी, | | निःशेषाप्यवशिष्यते । दुहितुर्मे तदेतस्या-स्त्वमाचार्यकमाचर ॥ ६८ ॥ विवस्वानेव तेजस्वी, वायु-10 रेव महाबलः । अंभोधिरेव गंभीर-स्त्वभेवैकोऽसि वैणिकः ॥ ६९ ॥ अभ्यापयेथाः किंत्वेता, प्रतिसोरातिरोहितः । येनैषा निजदोषेण, मनागपि न लजते ॥७०॥ कंठे च घोषवत्यां च, द्वयेऽपि त्वं |R प्रगल्भसे । उभयस्यापि चैतस्य, पात्रं पुत्रीयमस्तु मे ॥ ७१ ॥ तत्तथेति प्रपेदाने, शतानीकतनूरुहे। | गंधर्वशालामुर्वीशः, स ततो निरमापयत् ॥७२॥ वत्सराजः सुखं तस्थौ, तस्यां प्रद्योतभूपवत् । अवाप | नांगरक्षेभ्यः, स्वदेशगमनं पुनः ॥ ७३ ॥ ऊचे वासवदत्तापि, पृथिवीपतिनाप्यथ । वत्से तव कला- IRI चार्यः, सविद्यः समपद्यत ॥ ७४ ॥ न गीते लब्धसौभाग्य-स्तत्परः सोऽपि तुंबरुः । न चापि वल्ल
404040404
॥८
॥
Page #84
--------------------------------------------------------------------------
________________
मृगावती | कोनादे, नारदोऽपि विशारदः ॥ ७५ ॥ प्रतिगात्रं स्फुरच्चित्र-श्चित्रपंककलंकितः । किंतु सोऽस्ति चरित्रम
ततोऽधीष्व, पटांतर्धानवर्तिनी ॥७६॥ चापल्यात्पटमुत्पाट्य, त्वं चेदालोकयिष्यसि । तव पुत्रि दुरं॥८२॥
| तोऽय-मामयः संक्रमिष्यति ॥७७|| प्रद्योतेन ततः सर्व, तथेति प्रतिपेदुषी । कलां ग्राहयितुं तस्य, | संभ्रमेण सुतार्पिता ॥७॥ यथा ग्रामं यथा तानं, यथा रागं यथा स्वरं । यथा मूर्छितमेतस्या, वत्सराजः | | समादिशत् ॥७९॥ अचिरेणैव गंधर्व-कलायाः पारदृश्वरीं । तां वीक्ष्य मेने वत्सेशः, स्वस्मादपि 81 | सुमेधसं॥८०॥ अयं ध्वनिरियं प्रज्ञा, त्वयाऽस्याश्चेदसृज्यत । अकारि तत्किमेकाक्षी–त्युपालब्ध स
वेधसं।८१॥ तां कलां पश्यतस्तस्याः, स्मृत्वा राज्ञश्च तद्वचः । उन्मीलंति निमीलंति, वत्सेशस्य मनोरथाः | | ॥८॥ अथास्याः श्रवणद्वारे, प्रविश्योदयनश्चरः । जहार चौरवच्चित्तं, राजन्वत्यामपि क्षितौ ॥ ८३ ॥ | हृतचित्ततयात्यंतं, तस्य वोक्षणकांक्षिणी। सातिविस्वरमध्यैष्ट, नष्टे स्याकिं न चेतसि ॥ ८४ ॥ स | विस्वरमधीयाना-मेनां चुक्रोश कोपतः । आः काणे सर्वशून्यासि, यच्छिक्षां कुरुषेऽन्यथा ॥ ८५ ॥161 | सा साक्षेपमधिक्षिप्ता, चुकोप च जजल्प च । आः कुष्टिन निष्ठुरालाप-नात्मानं वेत्सि कुत्सितं |
04940404040404
Page #85
--------------------------------------------------------------------------
________________
॥८३॥
मृगावती | ॥८६॥ वत्सराजस्ततो दध्यौ, कथं कुष्टीति भाषते । ज्ञातं यादृगहं कुष्टी, काणेयमपि तादृशी ॥८॥
| झटित्येव पटीं याव-दयमुत्क्षिप्य वीक्षते । तावद्ददर्श तां फुल्ल-नेत्रनीलोत्पलद्वयीं ॥ ८८ ॥ तामु| वीक्ष्य विशालाक्षीं, स भूम्यकों व्यतर्कयत् । किं रतिः किमियं लक्ष्मोः, किं शची किं नु रोहिणो | | ॥ ८९ ॥ अत्यर्थमर्थये नेत्रे, द्रुतमुक्षिप्य पक्ष्मणी । एतस्या रूपपीयूष, पिबतं निभृतं युवां ॥१०॥ | अस्याः काणत्वमाकर्ण्य, मनस्त्वमसि कूणितं । भवाभिलाषकल्लोलैः, संप्रत्यस्यां प्रसृत्वरं ॥९१|| प्रद्यो
| तजापि तं वीक्ष्य, चिंतयामास विस्मिता। आदिष्टमन्यथा पित्रा, चक्षुामन्यदीक्ष्यते ॥९२॥ वेधसा o. loरभसेनास्य, कायाच्छायोपजीवनात् । नूनं निर्मिमिरे चंद्र-महेंद्रमदनादयः ।।९३॥ सैव चूडामणिः ।।
स्त्रीणां, पुष्पास्त्रः शस्त्रवास्तया । तयोदयं तपस्तप्तं, या प्रियास्य भविष्यति ॥ ९४ ॥ मम भृयादयं | प्रेयान्, नेयमिच्छापि मेऽर्हति । दरिद्रः किमु कल्पद्रु-मिच्छन्नप्यधिगच्छति ॥ ९५ ॥ नास्यांकपंकजे | | हंसी, मां ततोऽपि चिकीर्षति । कुष्टीति व्यपदेशेन, कुतोऽसौ निहृतेऽन्यथा ॥ ९६ ॥ अन्योन्यालोक- ILIMean A नोभृत-तदेकध्यानयोस्तयोः । आगात्कांचनमालेति, राजपुत्र्याः प्रिया सखी ॥ ९७ ॥ तो विलो- IRI
Page #86
--------------------------------------------------------------------------
________________
मृगावती
॥ ८४ ॥
क्य तथावस्था, सा निश्चिक्य विचक्षणा | उदभून्नूनमन्योऽन्य - मनयोः प्रेम निर्भरं ॥९८॥ सलज्जो प्रेमयुक्तौ च, तौ विदित्वा च सावदत् । अहो वां किमियं लज्जा, किं वाकारस्य गूहनं ॥ ९९ ॥ इदं गुह्यमगुह्यं वा, परे न पुनरात्मनि । अनिन्हुतव्यगोप्याह-मात्मैव युवयोः पुनः ॥ १०० ॥ ममोपयाचितैरेष, जज्ञे वां प्रेमसंक्रमः । योग्योऽयं युवयोर्जीया-द्योगो विष्णुश्रियोरिव ||१|| तदित्थं विदितप्रेम्णो-स्तयोः कांचनमालया । सुखोत्कर्षेण कौमारौ - चित्येन दिवसा ययुः ॥२॥ अथोदयनमाहूय, चंडप्रद्योत भूपतिः । निवेश्यार्धासने प्रीत्या, सगौरवमवोचत ॥ ३ ॥
इहास्ति हस्तिरत्नं मे, नाम्नाऽनिलगिरिर्बली । यदुर्जितजितो मन्ये, दिवमैरावणो ययो ॥ ४ ॥ एतदीयमदासार-सारिणीवारिसेकतः । इयं मदीयराज्यश्री - वलिः पल्लविताधिकं ||५|| अकस्मादेव पूर्वेद्यु — रुद्दामतरलाकृतिः । स स्वालानमहास्तंभं, बर्भजांभोजनालवत् ॥ ६ ॥ सितांकुशविहस्तैकहस्ता हस्तिपकास्ततः । तमानुपूर्व्या सर्वेऽपि, झगित्यारुरुहुर्मुहुः ॥ ७ ॥ अलब्धासनसंबंधा - स्तेनाहाय विधूनिताः | यंत्रक्षिप्ता इवाश्मानः पेतुस्ते दूरतः क्षितौ ॥ ८ ॥ हतोऽपि प्रसभं वोरै - द्रुतमा
1
G
चरित्रम्
॥ ८४ ॥
Page #87
--------------------------------------------------------------------------
________________
मृगावती
॥८५॥
राभिरारिकैः । अवंतोमुपदुद्राव, सिंधुरः स मदोधुरः ॥ ९ ॥ सर्वैः सर्वप्रकारेण, प्रतिकारपुरस्सरैः।।चरित्रम् न व्यावर्त्तयितुं चक्रे, लक्षसंख्यरुपक्रमैः ॥१०॥ सपण्यां विपणिश्रेणि-मुद्धतां सौधपद्धति ॥ काननं कमनीयं च, दलयामास स क्षणात् ॥ ११ ॥ परमूर्जस्विगर्जाभि-महेभानपि भापयन् । विंध्योपांत| वनांतानां, स स्मरन्निययौ पुरात् ॥ १२ ॥ व्यावर्तितो यदा नैषः, कृतैरोपयिकैरपि । निराशमनसः । | कामं, प्रत्यावृत्तास्ततो वयं ॥१३।। मदीयो राजवर्गस्तु, निस्तुषस्नेहमोहितः। कुर्वन् पट्टनि चाटूनि, | | तमद्याप्यनुवर्तते ॥१४॥ एतस्य हस्तिमल्लस्य, मल्लीशुभ्रगुणस्पृशः । वियोगजनितोद्वेगै-रस्माभिधैर्य- 10
| मुज्झितं ॥ १५॥ विनानेन निरालंब, राज्यं मन्यामहे वयं । प्रासादोऽपि पतत्येव, मूलस्तंभं विना | 10 क्षितौ ॥ १६॥ प्रत्यमात्यं प्रतिप्राज्ञं, प्रतिस्त्रि प्रतिपूरुषं । तस्य व्यावर्त्तनोपायान्, पृच्छामिस्म समु-IK | त्सुकः ।। १७ ।। सर्वेषां परमत्राथें, राजन्नोजस्विनी मतिः। किं खद्योतादयो भेत्तुं, तमिस्रं नैशमीशते | ॥ १८ ॥ किं चाभयकुमाराख्यो, मंत्री श्रेणिकभूपतेः । बलच्छलाभ्यामस्माभि-रिहानीतोऽस्ति संप्रति | |॥ १९ ॥ अतीवतीव्रप्रतिभो, निःकारेऽप्युपकारवान् । सोऽपि सेवागतोऽस्माभि-रेनमर्थमपृच्छयत
OOOOOOO
Page #88
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती | ॥ २० ॥ ततो विमृश्य तेनोक्त-मवंतीश निशम्यतां । राजात्र वत्सराजोऽस्ति, युष्मन्मृत्यंतरं हि यः |
॥ २१ ॥ सोऽस्य दंतावलस्याग्रे, विदध्यादुपवीणनं । नादानुगः स्वयमयं, येनालानाय नीयते ॥२२॥
गदेऽस्मिन्नगदंकारं, तत्त्वामत्यर्थमर्थये। वीणानादविनोदेन, वनादानय दंतिनं ॥ २३ ॥ तेनेति प्रण- 10 IA यात्प्रोक्तः, परोपकृतिलंपटः । ऊचे वत्सेश्वरो राजन्, विधातास्मि तव प्रियं ॥२४॥ किंतु भद्रवतीपृष्ट ।
-मधिष्टाय मया समं । विज्ञा वासवदत्तापि, विधत्तामुपवीणनं ॥२५॥ तथेत्युज्जयिनीनाथः, प्रतिश्रु-| त्य बहुश्रुतः । वत्सां वासवदत्तां च, प्रजिघाय सहामुना ॥२६॥ अथेश्वरस्य कोशांब्याः, प्रस्थानसमये तदा । पुमान्नलगिरेः पार्था—दुत्सुकः कोऽप्युपाययौ ॥ २७॥ सोऽथ व्यज्ञपयद्राजन्, गजोऽयं मददुर्धरः । वप्रकेलिं वने नद्या-स्तीरेषु तनुतेऽधुना ॥ २८ ॥ दृशापि स महामात्य-प्रभृतीन् मदसंभृतः । कुस्वामीव गतापेक्षो, नेक्षते राज्यसेवकान् ॥ २९ ॥ प्रद्योतेन ततस्तस्मि-नादिष्टे मार्गदेष्टरि। वशारूढोऽचलद्वत्स-राजो राजसुतान्वितः ॥३०॥ क्रमात्तं देशमासाद्य, राजा राजात्मजापि च ।In८६॥ गीतस्यानवगीतस्य, रहस्यं तनुतस्तदा ॥ ३१ ॥ अवीवदच्च प्रावीण्या-द्वीणामुदयनस्तदा । यथा सR
14OOOOOOO
Page #89
--------------------------------------------------------------------------
________________
मृगावती
चर्सि
॥८७॥1
| तस्थावुग्रोऽपि, ग्रावोत्कीर्ण इव द्विपः ॥ ३२ ॥ अयस्कांत इवानंदी, घोषो घोषवतीभवः । अयस्पिंडमिवाकर्ष-तं वारणशिरोमणि ॥ ३३ ॥ उल्लंघ्य दूरमध्वानं, विपंचीध्वनिनाऽमुना। पोतः सुपवनेनेव, | खां पुरीमाययो गजः ॥ ३४ ॥ उद्वेल्लबल्लकीनाद-नव्यांकुशवशंवदः । एत्य स्तंभमवष्टभ्य, तस्थौ । खस्थः स कुंजरः ॥ ३५॥ उद्दामगुणपुष्पश्री-वसंतोऽथ वसंतकः । भद्रवत्या महामात्रो, वत्सराज | व्यजिज्ञपत् ॥ ३६॥ धात्रीधव तवालापैः, कलापैरिव केकिनः । अतिचित्रैरतिस्निग्धै-रधमणोऽस्मि |AI निर्मितः ॥ ३८ ॥ द्विवाहोरात्रमित्रस्य, जनस्यास्य कदाचन । व्यापार्यास्तन्निजे कायें, प्राणाः स्वामि- IN निमे त्वया ॥ ३९ ॥ स्वस्थानमधुना गंतु-मादेशं देहि मे प्रभो । इति वत्सेशमापृच्छय, स्वावासेऽ- | गावसंतकः ॥ ४० ॥ तस्यां गंधर्वशालायां, भुक्तिगुप्तिगृहे स्थितः । सप्रेमां वत्सराजोऽपि, राजपुत्री- |
मपाठयत् ॥ ४१ ॥ दूरे समस्तमप्यन्य-न्न क्षेमालापतोऽपि तं । तदभ्यनंदत्प्रद्योत-स्तेन सोऽजनि IN दुर्मनाः ॥ ४२ ॥ स दध्यौ भ्रमरश्यामा, प्रद्योतस्य मुखद्युतिः । अनेनाप्यवदातेन, दृश्यतेऽसौ यदी- 161
दृशी ॥ ४३ ॥ तन्मन्ये मन्युजननीं, वहत्येष विपक्षतां । नीलोपाधिं विना न स्या-नोलता स्फटि
@0000000
॥८७॥
Page #90
--------------------------------------------------------------------------
________________
मृगावती
| कोपले ॥४४॥ न मे वासवदत्ताया, अनुरागोऽस्य संमतः। एतेन मम काणेति, कथितेयं किमन्यथा || चरित्रम् |॥ ४५ ॥ यावदेतस्य नोदेति, शत्रुभावोचिता मतिः। तावत्केनाप्युपायेन, स्वदेशंप्रति गम्यते ॥४६॥ तदेदं चिंतयन्नेष, जल्पितो राजकन्यया । आश्चर्यमार्यपुत्रेदं, गवाक्षेण निरीक्ष्यतां ॥४७॥ असौ । कुवेषो वर्षीयान्, उन्मत्तो नृत्यति द्विजः । स्वैरं गायति गीतं च, वैपरीत्यमहो विधेः ॥४८॥ ऊर्ध्वमालोकयन्नावां, कथमश्रूणि मुंचति । गोतनृत्यवदेषापि, काप्यस्योन्मत्तता नवा ॥ १९ ॥
अथ पृथ्वीपतिस्तस्या, वाक्यादालोक्य तं द्विजं । चिंतयामास किमसौ, न स्याद्यौगंधरायणः | ॥५०॥ येनाभवद्विपत्पंक-मग्नं मामस्य पश्यतः । स्वच्छंदमुच्छलबाष्प-पिच्छलं नेत्रयुग्मकं ॥५१॥ तातवत्सलमालोक्य, चिरकालान्ममाप्यमुं । उत्कंठामांसलैः कंठो, बाष्पपरैरैपूर्यत ॥ ५२ ॥ इति || चिंतापरे राज्ञि, सोऽग्रजन्मागतो ययौ । चित्रकपात्रमेकत्र, दृश्यंते तादृशाः कुतः ॥ ५३ ॥ प्रविश्य तस्यां शालाया-मुत्कंठाभरनिर्भरः। सोऽकस्माद्वत्सराजस्य, तस्थो बद्धांजलिः पुरः ॥ ५४ ॥ आनंदानयनांभोज-शृंगारमुखनिर्गतैः । अभ्यषिंचदिवांभोभिः, स भृशं भक्तिवल्लरीं ॥ ५५ ॥ नरनाथस्त
HODOWoo.
॥८८॥
Page #91
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती | मालिंग्य, बभाषे वाष्पनिर्भरः। मंत्रोशः कुशलं राज्ये, तस्य धूः कस्य धार्पिता ॥ ५६ ॥ कथमाक्रम्य ३८९॥
| पंथान--मियती भुवमागतः । कथं चात्र प्रविष्टोऽसि, वेष्टितेऽत्र पदातिभिः ॥ ५७ ॥ इति पृष्टो | | रहस्याख्यत्, सर्व यौगंधरायणः । तदा बंदीकृतो देव-श्चिरेणाज्ञायि सेनया ॥ ५८ ॥ साथ क्रोधादधाविष्ट, दुष्टनिग्रहकाम्यया । परं देव न कुत्रापि, शत्रुसैन्यमुदैक्षत ॥ ५९ ॥ ततः सेनाप्यसेना | | सा, वामनासेदुषो प्रभो । लज्जानम्रमुखी रात्रो, राजधानीमुपाययौ ॥ ६० ॥ आवेदितेऽत्र वृत्तांते, तया बाष्पायमाणया। सर्वास्यामपि कौशांब्यां, शोकाऽद्वैतमजायत ॥६१।। अहं तं मोहं संहृत्य, सेना-16 पतिमभाणिषं । दंडेश युज्यते शोको, लोकवन्नावयोरथ ॥६॥ तत्त्वं राजधुरं धेहि, येन स्वामिनमानये | । विनीतः सोऽपि सेनानी-स्तथेति प्रतिपन्नवान् ॥ ६३ ॥ प्राग्दत्ताः सिद्धपुत्रेण, चित्रातिशयशा
| लिनोः । आदाय गुटिकाः काश्चि-दथ प्रस्थितवाहनं ॥ ६४ ॥ भीमपल्लीमथागत्य, पल्लीद्रं दृष्टवानहं | 10|| मत्तो विदितवृत्तांतः, सोऽपि खेदं समासदत् ॥६५|| स स्मरन्निखिलां युष्म-दोत्रमैत्री पुरातनी |
। त्वत्कायें यत्नवानेवं, संकेतं ग्राहितो मया ॥ ६६ ॥ आगच्छंतं पथानेन, वत्सेश्वरनरेश्वरं । अहाय
FOR
Page #92
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम
प्रतिगृह्णीयाः, संमुखः सपरिच्छदः ॥ ६७ ॥
एवं तमात्तसंकेतं, कृत्वात्र द्रुतमागमं ॥ इह हि ग्रहिलीभूय, प्रतिचत्वरमभ्रमं ॥ ६८ ॥ केना| प्यहं न लक्ष्येयं, येन भ्राम्यन्निरर्गलं । कुत्रापि त्वां च पश्येय-मपश्यं चापि पुण्यतः ॥ ६९ ॥ त्वा- | मुद्रोक्ष्य विभो दुष्ट-पदातिपरिवेष्टितं । धैर्यसेतुभिदोऽभूवन्, मम नेत्रजलोर्मयः ॥ ७० ॥ ततस्तें-17 तिकमागंतु-मदृश्यीकारकारणं । तदैव गुटिकामेकां, मुखांतः क्षिप्तवानहं ॥ ७१ ॥ प्रभाववैभ- | वादस्या, देव त्वदपरो जनः । विलोकते न मे रूपं, शृणोति न च मे वचः ॥ ७२ ॥ यथैवाहमिहायातः, केनचिन्न च वीक्षितः। तथा देव त्वमागच्छ, संतु वत्साः सदोत्सवाः ॥ ७३ ॥ अथोदात्तां | नृपो वाच-मुवाच सचिवोत्तम । विधुरात्प्रभुमुद्धतु, त्वयि धौरेयता स्थिता ॥ ७४ ॥ उल्लंघयामि | नो वाचं, शक्तिभक्तिमतस्तव । किंत्वियं वत्सराजाय, वचोयुक्तिर्न रोचते ॥ ७५ ॥ यस्य मे त्वादृशो ||or मंत्री, वाचस्पतिविजित्वरः । यस्य मे दुर्जयानीकः, शतानीको नृपः पिता ॥ ७६ ॥ यस्य मेऽनुपमे| यश्री-र्माता देवी मृगावती ॥ पलाय्य तस्य मे यानं । मंत्रिराज त्रपाकरं ॥७७॥ युग्मं ॥ राज्य
Page #93
--------------------------------------------------------------------------
________________
मृगावती सर्वस्वमाच्छिद्य, प्रद्योतस्य सुतामिमां । पश्यतोऽस्यैव नेतासि, चेन्मां तत्ते मतिर्मतिः ॥७॥ घन- चरित्रम्
स्नेहा समागत्य, यदियं राजपुत्र्यपि । मम राज्यश्रियोऽजस्रं, सपत्नीत्वं चिकीर्षति ॥ ७९ ॥ सखी | कांचनमालाख्या, तस्या मूर्तमनोरथा। भवत्सार्थे समागंता, स्वामिनी सहगामिनी ॥ ८०॥ किंचा
स्त्यत्र महामात्रो, भद्रवत्या वसंतकः । सोऽपि निस्सीममस्मासु, दाक्षिण्यमनुरुध्यते ॥ ८१ ॥ ततR स्तवोपजापस्य, प्रतापस्येव मे ध्रुवं । अस्त्येष विषयो योग्यः, संस्कारस्येव सन्मणिः ॥ ८२ ॥ ततो
भद्रवतीस्कंध-मधिरुह्य निराधयः । विविधायुधसंनद्धा, गच्छामः सपरिच्छदाः ॥ ८३ ॥ तन्मंत्रिन् पंचरात्रेण, सर्वमर्थं समर्थय । कार्येऽस्मिन् सहकारिणः, संतु नः कुलदेवताः ॥८४॥ इत्युक्तः सचिवोत्तंसः, शीघ्रं यातो गृहाइहिः । पुनराहतदृश्यत्व-मुन्मत्तीभावमन्वभूत् ॥ ८५॥ सिंहद्वारमथागत्य, । सुश्लोकः श्लोकमीदृशं । चंडप्रद्योतभूपस्य, पश्यतः पठतिस्म सः ॥८६॥ यदि तां चैव तां चैव, तां
चैवायतलोचनां । न हरामि नृपस्याथें, नाहं योगंधरायणः ॥८७॥ तत्र श्रोत्रातिथी याते, कोपात्पा- IN To टलपाटले । नृपश्चिक्षेप साक्षेप-श्चक्षुषी अहिलंप्रति ॥८८|| ततः स कपटोन्मत्तो, नृत्यन्नूवंदमः ||
OOr@@@400 year
Page #94
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
॥९२॥
| क्षितौ । मापतेर्वीक्ष्यमाणस्य, मूत्रयामास सन्मुखः ॥८९॥ पूर्वश्लोकं पुनर्गायन्, निर्विलंबदिगंबरः । | तत्र मूत्रार्द्रपंकांके, क्षोणीपीठे लुलोठ च ॥ ९० ॥ कोऽप्येष वातको वृद्धोऽथवायं च पिशाचकी। | निश्चित्येति तमैक्षिष्ट, क्षोणीपतिरवज्ञया ॥९१॥ मायापस्मारिणा तेन, ततो गत्वा वसंतकः । निवे| योदयनप्रोक्तं, तत्कार्याय प्रवर्तितः ॥९२॥ कार्यं तन्मुदितः कर्तु-मारेभेऽथ वसंतकः । प्रतिपन्नस्य | निर्वाहे, सावधाना हि साधवः । ९३ ॥ गजवर्गः समग्रोऽपि, व्यपदेशेन केनचित् । नीतस्तेन नय- | ज्ञेन, मद्यदानात्प्रमत्ततां ॥ ९४ ॥ ततो भद्रवती भद्र-मिच्छन्नुदयनंप्रति । नानायुधादिसामग्री, यात्रायोग्यामसौ व्यधात् ॥ ९५॥ घटोश्चतस्रः संस्थाप्य, तन्मूत्रपरिपूरिताः । करेणोर्निबिडीचक्रे, कक्षाबंधं वसंतकः ॥१६॥ कक्षाबंधप्रबंधे च, रसितं विततान सा । संजायंते निमित्तानि, भाविभा. वानुसारतः ॥ ९७ ॥ तत्रांधः सन्निधौ कश्चि-दनंधश्चेतसा पुनः । निमित्तवेत्ता तत् श्रुत्वा, पपाठ श्लोकमीदृशं ॥ ९८ ॥ कक्षायां बध्यमानायां, तथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ ९९ ॥ ततो विधाय सामग्री-मागत्यामात्यपुंगवः । गमनप्रहमाह्वास्त, राजानं
॥ ९२
Page #95
--------------------------------------------------------------------------
________________
॥ ९३ ॥
मृगावती रजनीमुखे ||१००॥ निर्व्याजं व्याजहाराथ, राजा राजसुतां तदा । वचो मे श्रूयतामेक — मेकतानं मनः कुरु ॥ १ ॥ प्राप्तः संप्रत्यमात्यो मां, कौशांबीं नेतुमुत्सुकः । तद्गतास्मि विधातास्मि, वत्सानामुत्सवं चिरात् ॥ २ ॥ वांछा वत्साधिपे ह्यस्ति, यदि ते मदिरेक्षणे । तदुत्तिष्ट प्रतिष्टस्व, संप्रत्येव मया समं ॥ ३ ॥ तदाकर्ण्य प्रसन्नास्य- -धुतिः प्रद्योतनंदिनी । अमृदग्रेसरी राज्ञः समं कांचनमालया ||४|| नृपोऽथ सपरीवारः, कृत्वा घोषवतीं करे। आरुह्य करिणीमुच्चे - रिदं राजपथेऽपठत् ॥५॥ एषः प्रयाति सार्थः, कांचनमाला वसंतकश्चैव । घोषवतीभद्रवत्यौ, वासवदत्ता उदयनश्च ||६|| विदिते तत्र वृत्तांते, कुद्धः प्रद्योत भूपतिः । सुतौ गोपालपालाख्यो, समाहूय समादिशत् ॥७॥ बलात्पलाय्य गच्छंतं वत्सराजमुदायुधौ । युवां नलगिरिस्कंध - मधिरुह्यानुगच्छतं ॥ ८॥ सुता वासवदत्तापि, तेन नीता सहात्मना । अस्या व्यावर्त्तने यत्नं कुर्वीयाथां यथा तथा ॥ ९ ॥ संमतो मे न जामाता, लोकं - पृणगुणोऽप्ययं । अस्य पक्षो विपक्षो न, पारंपर्यक्रमायतः ||१०|| इति तातसमादिष्टो, दृढं संवर्मितावुभो । गजमात्रपरीवारौ, कुमारौ तावधावतां ॥ ११ ॥ भद्रवत्यामतीतायां, पंचविंशतियोजनीं । मदा
चरित्रम्
॥ ९३ ॥
Page #96
--------------------------------------------------------------------------
________________
मृगावती मोदमथाघ्राय, जल्पतिस्म वसंतकः ॥ १२ ॥ गजराजो महाराज, पश्चादायाति वेगतः । लुप्तसप्तच्छ- चरित्रम् ॥ ९॥ दोन्मादो, मदामोदो वदत्ययं ॥१३॥ करेणोर्द्विगुणं याति, जंघालोऽयं महागजः । तस्मिन्नेवं वदत्येव, |
स चक्षुर्लक्षतामगात् ॥ १४ ॥ ततो राजसुताऽवादी–दार्यपुत्र ममाग्रजौ। अधिरुयैनमायातो, त्वToll दनुपदिकाविमो ॥ १५॥ हेतुं पत्यहिते ह्यस्मिन्, धिग्मामक्षत्रकारिणीं। सह्यो सह्योन्नतस्कंधो, यदेतो । A केन संप्रति ॥ १६ ॥ ततोऽभ्यधत्त भूपाल-स्तामुदात्तमतिस्तदा । राजपुत्रि त्रपाकारि, कथमीदृगु- 17 RI दोर्यते ॥१७॥ वल्लकीवादने पूर्व, विलोक्य लघुहस्ततां । अधुना मम युद्धे तु, तामेतामवलोकय ॥१८॥ | KI इति जल्पंतमेवैतं, कुमारौ ताववोचतां । चौर स्वसारमस्माक–मपहृत्य क्व गच्छसि ॥१९॥
तत्तिष्ट शस्त्रमादत्व, यदि शौंडीर्यमस्ति ते । पीतं पलायमानस्य, नावयोर्विशिखरमृक् ॥२०॥ ताभ्याI मधिज्य चापाभ्यां, वाक्यैरेवमरंतुदैः । कुपितो धृतधन्वासौ । प्रहर्तुमुपचक्रमे ॥ २१ ॥ तयोर्मनोरथैः
साधं, धनुर्वेदधनंजयः । बाणश्रेणिमसौ चंडै-निजकांडेरखंडयत् ॥ २२ ॥ स गोपालं च पालं च, बाणच्छेदविषादिनं । निर्ममे निजधन्वोत्थै—मार्गणैर्मर्ममार्गणैः ॥ २३ ॥ विलक्षवदनो वीक्ष्य, तो
@@@@@2004
Page #97
--------------------------------------------------------------------------
________________
मृगावती
कुमारौ वसंतकः । अस्फोटयघटीमेकां, करिणीं चाप्यनुनुदत् ॥ २४ ॥ मग्नोऽनलगिरिस्तत्र, मूत्रसं- चरित्रम् चयपंकिले । प्रसह्य प्रेर्यमाणोऽपि, न पुरः पदमप्यगात् ॥२५॥ उवाच पालं गोपाल-स्ततो विज्ञाय तद्दलं । जेतुमिंद्रोऽपि नो वत्स, श्रीवत्सेश्वरमीश्वरः ॥२६॥ एतस्याच्छेतुमुत्संगा-जन्वंगी किल कः प्रभुः। सिंही सिंहांकपालोतः, केनापि किमु गृह्यते ॥२७॥ किं चासौ भाग्यवानायों, विनयी विक्रमी | क्रमी । सत्त्वी च तदसो वत्स, स्वसुर्नः प्रवरो वरः ॥ २८ ॥ अलं तदग्रतो गत्वा, वत्स व्यावय॑ते|ऽधुना । तथा च कार्य येनाय-मर्थस्ताताय रोचते ॥ २९ ॥ आर्यः प्रमाणमर्थेऽस्मि-नायेंण पर-10 | वानहं । इति व्यज्ञपयत्पालः, सादरः सोदरंप्रति ॥ ३० ॥ क्रमादवंतीमागत्य, ततस्तो तातचेतसि ।। स्थापयामासतुः सर्व-मर्थमेनं मनोगतं ॥ ३१ ॥ कियत्यपि व्यतीतेऽथ, घटीं पथि वसंतकः । द्वितीयां स्फोटयामास, करिप्रतिभयात्स्वयं ॥ ३२ ॥ इत्थं तृतीयां तुर्यां च, चिक्षेप स घटी क्षिती । शतयोजनमध्वानं, सा च भद्रवती ययो ॥ ३३ ॥ अत्रांतरे करेणुः सा, मार्गखेदाढ्यपद्यत । निमिः || | सानि निमित्त -रादिष्टानि हि नान्यथा ॥३४॥ तस्यां पतित्वा सुप्तायां, करेणो तत्र कानने । मार्ग- IR
Page #98
--------------------------------------------------------------------------
________________
मृगावतो | चिंतां जजागार, जगतीशस्य चेतसि ॥३५॥ वसंतकश्च मंत्री च, समयज्ञावुभावपि । परिचर्याकृते चरित्रम्
राज्ञ-स्तं पल्लींद्रमुपेयतुः ॥ ३६॥ नृपो वासवदत्ता च, समं कांचनमालया। दुःखातौ स्म प्रवत्तेंते, पम्यां गंतुं ततोऽग्रतः ॥ ३७ ॥ अटव्यं च महाटव्यां, विरहो वाहनेन च । द्वयमेकपदे तेषां,
श्रमाय समजायत ॥ ३८ ॥ स्वस्य बंधः स भृभर्तु-विदधे न तथा व्यथां । यथा वासवदत्तायाः, का पादचारस्तदातनः ॥ ३९ ॥ इतस्ते विषमा भूमि-रितस्ते कंटकाः पुरः । इतस्ते पन्नगास्तन्वि, |
पादं मुंचावधानतः ॥ ४० ।। अयं गिरि१रारोहः, सरोरुहसहोदरौ । तव पादौ च पद्माक्षि, भुजस्तन्मेऽवलंब्यतां ॥ ४१ ॥ अनवद्यानने नद्या, हृदयद्वयगं पयः । दुस्तरं च ततो भीरु, मम स्कंधेऽधिरुह्यतां ॥४२॥ इत्थं वासवदत्ताया-श्वाटुकारेण वर्त्मनि । विदधे वत्सराजेन, परिचर्याविधिः स्वयं | ॥ ४३ ॥ चतुर्भिः कलापकं ॥
नितंबदुर्वहत्वेन, निषीदंती यथातथा । मैत्र्यमासूत्रयामास, सा बाष्पैर्नृपनेत्रयोः ।। ४४ ॥ | तपनातपसंतप्त-मास्यमस्या विलोकयन् । दधे धात्रीपतिदोभ्या, दुकूलातपवारणं ॥ ४५ ॥ विस्तार्य ||
0000000
DOOOOOaloo
Page #99
--------------------------------------------------------------------------
________________
मृगावती । पटमाधाय, धनुदंडमधः परं । धमें तस्य निषण्णोऽग्रे, व्यधात्पटकुटी नृपः ॥४६॥ वपुस्तस्याः श्रमो- चरित्रम्
- भेदि-स्वेदांभोबिंदुदंतुरं । प्रमृज्य वीजयांचक्रे, स खचीनांशुकांचलैः ॥ ४७ ॥ तस्याः पथपरि॥९७॥
श्रांति, क्लेशतोऽपानयन्नृपः । प्रेमावलोकितैः पत्यु-रक्लेशे नैव सा पुनः ॥४८॥ स्वयमानीय पानीयं, | कृत्वा पुटकिनोपुटे । तृष्णां मुष्णात्यसौ तस्याः, क्षणेनैव क्षितीश्वरः ॥ ४९ ॥ ततो दत्वा करालंब
-मंबरव्यापिभिर्दुमैः । छायाभिराममारामं, तां निनाय नरेश्वरः ॥ ५० ॥ नृपतिः स्वयमानीतैः, | परिणाममनोरमैः। आश्वस्तां तां फलैस्तत्र, प्राणवृत्तिमकारयत् ॥५१॥ साऽवनीपतिविन्यस्त-पल्लव-|
स्रस्तरस्थिता । रविक्रांतनभोमध्यं, मध्यंदिनमलंघयत् ॥ ५२ ॥ अतिदीर्घद्रुमच्छाये, जाते पश्चिम- | | वासरे । कियंतमपि पंथानं, लंघयामास सा पुनः ॥ ५३ ॥ एतां तीव्रातपक्लांतां, विभाव्येव नभो. | मणिः । एकच्छायं तदा विश्व-मनुक्रोशादिवादधे ॥ ५४ ॥ एतां संताप्य मृद्वंगी, किरणेरुल्मुकै. 10 रिव । अपत्रपिष्णुरुष्णांशु-गतोऽवश्यमदृश्यतां ॥ ५५ ॥ तस्याः कांतारसंचार-व्यसनप्रश्नका
A९७१ म्यया । मन्येंधकारितमुखा-स्तदानीं मिलिता दिशः ॥ ५६ ॥ मार्गश्रमसमाहूत-निद्रामिलित
Page #100
--------------------------------------------------------------------------
________________
मृगावती
॥ ९८ ॥
लोचनां । नृपो निजांकपल्यंके, राजपुत्रीमसूषुपत् ॥ ५७ ॥ सरोज सुकुमालाभ्यां कराभ्यां तदभि ज्ञया । अंहिसंवाहनं चक्रे, तस्याः कांचनमालया ॥ ५८ ॥ इयं हि सहते क्लेशान, मत्कृतानिति चिंतया । विष्टोऽयमिति सेर्येव न निद्रा भूपमभ्यगात् ॥ ५९ ॥ तस्या मृगदृशो रक्षा - जागरू कस्य भूपतेः । अनल्पैरेव संकल्पै - विभातास्म विभावरी ॥ ६० ॥ भद्रे पांथासि तन्निद्रां सत्वरं मुच्यतामिति । शंसंतश्चक्रिरे तारं, शब्दान् शंके शकुंतयः || ६१ || तस्याः श्रमजुषः शंके, करालंबनहेतवे । करान् प्रसारयामास, लोकबंधुर्दिनेश्वरः ॥ ६२ ॥ ततः सा मंदमुत्थाय, चचाल पदचारतः । को दृष्टसमादिष्टां वर्तनीमतिवर्त्तते ॥ ६३|| तदा पादाः सहस्रांशो - रायतंते यथा यथा । क्लमाप्रद्योत दुहितु - मंदायंते तथा तथा ॥ ६४ ॥ तरुणे तरुणौ याव - ते सर्वे विश्रमार्थिनः । साकांक्ष चिक्षिपुश्चक्षुः प्रतिवृक्षं प्रतिक्षणं ॥ ६५ ॥ पुरो भयंकरां ताव - तं हक्कामुपशुश्रुवुः । साक्षाच्चकुश्च सन्नद्धा - मुद्धतां शाबरीं चमूं ॥ ६६ ॥ अथ प्रद्योतदुहिता भीताऽभाषत भूपतिं । एतैः पुरस्तादस्तोकै — रुद्धोऽध्वा पश्य दस्युभिः ॥ ६७ ॥ अयं नो निःसहांगानां धिगनर्थः पुनः पुनः । अथवा
चरित्रम्
॥ ९८ ॥
Page #101
--------------------------------------------------------------------------
________________
मृगावती
॥ ९९ ॥
G
मंदभाग्याना - मापदः स्युः पदे पदे ॥ ६८ ॥ अथ वत्सेश्वरोऽजल्प- कमलाक्षि किमाकुला । कुरंगारि: कुरंगाणा - मंतकृद्भूयसामपि ॥ ६९ ॥ अस्तु मे स्मर्यमाणाथ, शिवदा हि मृगावती । इति मंत्रं स्मरेस्त्वं तु येनेष्टफलमाप्स्यसि ॥ ७० ॥ प्रियामित्थं व्यवस्थाप्य, भिल्लानाह महीपतिः । शृगालानामिवायं वः, कः स्वैरोज्जागरः पुरः ॥ ७१ ॥ यतो वराकः कंपेत, प्राकृतः पन्नगेक्षणे । पत्युः पुनविहंगाना -माहारः स मनोहरः ॥ ७२ ॥ प्रतिपक्षक्षमापाल - कुक्षिविक्षोददक्षिणाः । प्रहरंतः पुलिंदेषु, लपंते मम पत्रिणः ॥ ७३ ॥ तस्करत्वापराधित्वा - दूधबंधादिकारिणः । भवंतो येन तेनायं, कोदंड: कुंडलीकृतः ॥७४॥ इत्याक्षिप्तास्ततस्तेऽपि, जगदुर्जगतीपतिं । गर्वं सर्वकषं कुर्वन्, कथं पांथ न लज्जसे ॥ ७५ ॥ वयं निंद्याः पुलिंदा: स्म - चक्रवर्ती भवान् पुनः । इदं हास्तिकमश्वीयं, परितस्तव दृश्यते ॥ ७६ ॥ वातुल तदितो याहि निहतेनापि किं त्वया । पुरतः कल्पवल्लीव, बह्वाकल्पास्ति यांगना ॥ ७७ ॥ रत्नाभरणमेतस्या, गत्वा गृह्णीमहे वयं । विजयेमहि माहात्म्यं, येन पुण्यजनेशितुः ॥७८॥ उदोर्येवमनार्यास्ते, किंचिदुच्चावचः स्पृहाः । अनुस्मरंतीं तं मंत्र, प्रधावंतिस्म तांप्रति ॥ ७९ ॥ महीप -
चरित्रम्,
॥ ९९ ॥
Page #102
--------------------------------------------------------------------------
________________
मृगावती तिर{श्चक्रे, मार्गणैर्मृत्युगोचरान् । महत्वपचिकीर्षा हि, सद्यः फलति पापिनां ॥ ८० ॥ पुलिंदध्व॥१०॥
| जिनी योध्धु–मारेभेऽभिमुखी ततः । तेने तेन शरैः सापि, विहस्ता हस्तलाघवात् ॥ ८१ ॥ ततो | दवीयो देशस्थ-मुपस्थाय चमूपतिं । सा सर्व कथयामास, तच्छौंडीर्यविजूंभितं ॥ ८२ ॥ सोऽप्या| भरणलोभेन, गर्भचौरश्चमपतिः । सन्नद्धः सायुधो धावन्, ददोंदयनं पुरः ॥ ८३ ॥ उपलक्ष्य स |
वैलक्ष्यः, समुत्तीर्य तुरंगमात् । स भूमिलुठनैरेत्य, न्यपतन्नृपपादयोः ॥ ८४ ॥ तेन मंत्रप्रभावेण, | कर्मणा च महीपतेः। उभयेनाद्भुतेनासो, राजपुत्री विसिस्मये ॥ ८५ ॥ नृपेण पाणिना पृष्टे, स्पृष्टो |
हृष्टश्च सोंजसा । पल्लींद्रो न्यगददेव, दुर्नयः क्षम्यतामयं ॥८६॥ क्षोणीवल्लभ भिल्लानां, भल्लूकानां |R |च नांतरं । उभयेऽपि च बीभत्सा, दुःकर्माणा द्वयेऽपि च ॥८७॥ किं च मे दत्तसंकेतः, कुत्र योगंधरा-18 | यणः । इत्युक्ते तेन सक्षोभो, भूपालः समभाषत ॥ ८८ ॥ वसंतकश्व मंत्री च, द्वावपि प्रहितो पुरः । || किं त्वां नोपस्थितावित्थं, व्याहृतो नेति सोऽब्रवोत ॥ ८९ ॥ तयोरपायसंकल्प-शंकाशंकुसमाकुलः | । पल्लींद्रेण निजां पल्लां, निन्ये तेनावनीपतिः ॥ ९० ॥
%8038640008
Page #103
--------------------------------------------------------------------------
________________
मृगावती
॥१०
__प्रभृतैः प्राभृतैस्तत्र, भक्त्या सत्कृत्य भूपतिः। पल्लीशेनोपकौशांवि, निर्विलंबमनीयतः ॥ ९१ ॥ चरित्रम् तं विदित्वाथ वृत्तांतं, चरद्वारा रुमण्वता । पुर्यामुत्सवमादिश्य, सत्कृतः स प्रभुर्निजः ॥९२॥ पुरीप| रिसराराम-सौधमध्यास्त पार्थिवः । नित्यं वसंतकामात्यौ, तदीयहृदये पुनः ॥ ९२ ॥ अथ प्रातः | | प्रतीहारः, प्रीतः मापं व्यजिज्ञपत् । अस्ति द्वारि नरद्वंद्व-युतो यौगंधरायणः ॥ ९३ ॥ शीघं प्रवे. |शयेत्युक्तः, स तान् प्रावीविशत्ततः। प्रणतस्तैर्नृपो हर्षा-दूचे मंत्रिवसंतकौ ॥९४॥ अंतराले विलंबो वां, I | कथं को वा पुमानयं । एवमाज्ञापितो मंत्री, सर्व राज्ञे व्यजिज्ञपत् ॥ ९५ ॥ अस्य पल्लीपतेः स्वामिन्, 0 | स्वरूपज्ञापनोत्सुकः। आगच्छंस्तुच्छवेषोऽपि, मुषितोऽहं मलिम्लुचैः॥ ९६ ॥ तथाप्यमुक्तवानं, या| बातो वलितस्तदा । मामवंतीशसेनानी, दृष्टवान् सवसंतकं ॥९७॥ स वसंतकमात्मीयं, परकीयं च |
मां पुनः । मिलितौ द्वावपि प्रेक्ष्य, तदा नौ प्रोक्तवानिदं ॥ ९८ ॥ विरुद्धद्रव्यसंयोगः, स्याद्यथानर्थ- 10/ | हेतवे । तथा राजविरुद्धाय, संगतिवां विरोधिनोः ॥९९॥ स एवमावामाक्षिप्य, भयलोलविलोचनौ ॥११॥ A गृहीत्वा तस्करग्राहं, चक्रे काराकुटुंबिनौ ॥ १०० ॥ अवंतीमेत्य सेनान्या, त्वत्स्वरूपं निशम्य च ।
00000004034
Page #104
--------------------------------------------------------------------------
________________
चरित्रम
मृगावती
॥१०२॥
| आस्थानस्थाय तेनावां, प्रद्योतायोपदीकृतौ ॥१॥ ततो जगाद प्रद्योतः, सेनाधीश ममाधिकं । आसो|दुदयने क्रोधः, प्राणनिग्रहणावधिः ॥ ३॥ आभ्यां किंतु कुमाराभ्यां, वचोयुक्तिजलोर्मिभिः । स व| हिरिव दीप्तोऽपि, दूरं विध्यापितोऽधुना ॥ ४॥ अस्मन्मनस्तथैताभ्यां, तद्गुणैः प्रगुणीकृतं । दत्ता | वासवदत्तापि, तस्यास्माभिर्मुदा यथा ॥ ५॥ स एष भद्र संबंधी, तनो यौगंधरायणः । न्यस्ता वत्सैतदुत्संगे, संप्रत्यायुष्मी मया ॥६॥ शतानीकमृगावत्योः, कौतुकानि निरंतरं । असौ वत्सेश्वरामात्यो, मत्पुत्र्याः पूरयिष्यति ॥७॥ वसंतकोऽपि वत्साया-स्तत्रास्तु परिचारकः । उक्त्वेति राजा || | सेनान्य-मथ प्राह वसंतकं ॥ ८॥ क्षेमेण वर्ततेऽस्माकं, भद्र भद्रवती वशा । अथायं कथयामास, | सगद्गदमधोमुखः ॥ ९॥ योजनानां शतं गत्वा, सा करेणुशिरोमणिः । व्यपद्यत महीनाथ, भाग-| धेयैः समं मम ॥ १० ॥ क्षोणीभर्तुः कुमार्याश्च, वोक्ष्य चंक्रमणक्लमं । आवां पल्लींद्रमानेतुं, ब्रजं. तावमुना धृतौ ॥ ११ ॥
निशम्येदमवंतीशः, सुतामनुशुशोच तां । वत्से त्वमधुना वन्ये, पथि चंक्रमसे कथं । १२ ॥
॥१२॥
Page #105
--------------------------------------------------------------------------
________________
मृगावती
| सर्वदेवातपत्रेण, त्राततीव्रातपक्लमा । धर्म मर्मविधं वत्से, त्वं कथं सहसेऽधुना ॥१३॥ सोरभोद्गारि | चरित्रम् ॥१०३॥
तद्वारि, निपीयापीयसे कथं ! पयोऽधुनाध्वकासारे, कासरैः कलुषीकृतं ॥ १४ ॥ प्रातराशप्रिये पुत्रि,
निःपरित्रेऽधुना पथि । तवाशनायाऽपाथेयं, कथं न प्रथते व्यथां ॥१५॥ हंसतूलीनिलीना या, पुष्पेAणापि स्म ताम्यति । कथं निद्रायसे पुत्रि, स्थपुटासु स्थलीषु सा ॥१६।। कूजितैः केलिहंसानां, या
शय्यातलमत्यजः । सा स्फारैः फेरफूत्कारैः, कथं निद्रां विमुंचसि ॥१७॥ निर्धनो निःपरोवारः, शूरोऽपि | सकलोऽपि ते । वत्से वत्सेश्वरः कुर्या-प्रेमवानपि किं प्रियं ॥१८॥ तमेवमनुशोचंत-मात्मजां मालवे-10 | श्वरं । वत्सेभ्य आगतश्चैक-श्वरो विज्ञो व्यजिज्ञपत् ॥१९॥ वत्सराज महाराज, सममात्मजया तव ।। वेगान्निनाय कौशांबी, पल्लींद्रो निरुपद्रवं ॥ २० ॥ सुधाकल्पमिमं जल्प–माकर्ण्य नृपतिस्ततः । मान्यं तमेव सेनान्यं, सानंदमिदमादिशत् ॥ २१ ॥ जयवर्मन् द्रुतं गत्वा, वत्सान् वत्सां विवाहय ।। सुखं सहैव नेतव्या वेतो मंत्रिवसंतकौ ॥ २२ ॥ गत्वा गजशतं वाजि-सहस्रं च महाजवं । वराय वरविद्याय, दद्याः कंकणमोचने ॥ २३ ॥ एवमादिश्य संवाह्य, प्रस्तुतोचितवस्तुभिः । वीवाह
॥१०३।
Page #106
--------------------------------------------------------------------------
________________
चारत्रम
मृगावती व्यवहारशं, तमिह प्राहिणोन्नृपः ॥ २४ ॥ स एष जयवर्माख्यः, प्रद्योतस्य चमूपतिः। सेनां संस्था
प्य पुरतो, विज्ञापयितुमागतः ॥ २५ ॥ ततो विज्ञपयामास, सेनानीदेव मंत्रिणा । यदुक्तं तत्तथा ॥१०४॥
किंतु, शुभं निर्णीयतां दिनं ॥ २६ ॥ मोहर्त्तिकैरथादिष्टे, सुमुहुर्ते महोत्सवात् । मुदा वासवदत्तायाः,
पाणिमादत्त पार्थिवः ॥२७॥ प्रत्यापणं प्रतिगृहं, प्रतिदेवालयं ततः । विविधारब्धमांगल्यां, कौशांबी-| A मविशन्नृपः ॥२८॥ महाव्यसनविध्वंसा-द्विवाहोत्सवतस्तथा । मंगलानि प्रजास्तस्य, द्विगुणानि प्रते
निरे ॥२९॥ जयवर्माथ निर्माय, स्वाम्यादेशमशेषतः । अर्पितोपायनो राज्ञा, विसृष्टोऽगाद्यथाजगतः | Joll३०॥ वसंतकाय महतीं, लक्ष्मीमुदयनो ददौ । उपकारद्रुमः स्थाने, रोपितः किमु निष्फलः ॥३१॥ JAI धुरमारोप्य राज्यस्य, धुर्ये योगंधरायणे । स स्मरादिष्टमध्यष्ट, रहस्यं प्रियया सह ॥३२॥ सा प्रिया |
तद्वपुस्तञ्च, साम्राज्यं तच्च यौवनं । अतो निरर्गलस्तस्य, जजंभे मकरध्वजः ॥३३॥ उद्याने मकरं-10 10 दाख्ये, कदाचित्सहितस्तया । स लतामंडपक्रोडे, क्रीडतिस्म स्मरातुरः ॥३४॥ उत्क्षिप्तदोलतामेनां, An १४॥ IA कदाचित्कुसुमार्थिनीं । उदस्य चुंबनं चक्रे, धूर्तस्तस्याश्च वांछितं ॥ ३५॥ सूक्ष्मक्षोमाभिरामांग्या, RI
400204000
Page #107
--------------------------------------------------------------------------
________________
मृगावती | कदापि स तया सह । जलकेलिच्छलात्कामं, कामोद्यानमसिंचत ॥ ३६ ॥ इत्यंतःपुरवास्तव्य-स्त- चरित्रम्
संगममहोत्सवैः । गणरात्रमहोरात्र लीलया सोऽत्यवाहयत् ॥ ३७॥ सर्वात्मनापि संरुद्ध-मिदं ॥१०५॥
वासवदत्तया । इतीर्ण्ययेव तच्चेतो, मुमुचे राज्यचिंतया ॥३८|कथांतरप्रसंगेन, तमप्रच्छत्प्रियान्यदा।
स्वामिन्नद्यापि तस्मान्मे, मंत्राच्चित्रीयते मनः ॥ ३९॥ ततो मे कथ्यतां नाथ, केयं देवी मृगावती। A यस्याः स्मरणमात्रेण, तीर्यते द्रुतमापदः ॥ ४० ॥ इति पृष्टः सरोमांच-मवोचदथ पार्थिवः । इयं 0
मे तस्य मंत्रस्य, श्रूयतां मूलमात्रिका ॥४१॥ विपत्प्रमाथजननी, जननी मे मृगावती । उरीकृतव्रता साक्षा-तपोवियेव विद्यते ॥४२॥ महिमातिशयस्तस्या, दृष्टपूर्वः सहस्रशः। असो मया चमत्कारी, प्रस्तावे दर्शितस्तव ॥ ४३ ॥ इत्युपश्रुत्य सानंद, प्रद्योतदुहितावदत् । मन्येऽहं धन्यमात्मानं, यस्या श्वश्रूरपीदृशी ॥ ४४ ॥ श्वश्रूपादान प्रसादात्ते, यदि वंदय भक्तितः । फलं जीवितकल्पद्रोः, प्राणेश प्राप्नुयां तदा ॥ ४५ ॥ दैवात्तदैव कोऽप्येत्य, व्याजहार मनोहरं । चिरादभीष्टलाभेन, दिष्ट्या त्वं
|॥१०५॥ देव वर्थसे ॥ ४६॥
Page #108
--------------------------------------------------------------------------
________________
मृगावती
॥१०६॥
adio DhODainion
___ अस्ति स्वस्तिकरोऽभ्यणे, यतः स्वर्णपुरे पुरे । आयातः सपरीवारो, जिनः सिद्धार्थनंदनः ॥४७॥ समं तेन समायाता, देवी देव मृगावतीं । दृष्ट्वाहमागमं वेगा-त्तव विज्ञापनाकृते ॥ ४८ ॥ इच्छाकूलंकषं दत्वा, स तस्मै पारितोषिकं । प्रतस्थे प्रियया साधं, वंदारुर्मातरं ततः ॥ ४९ ॥ एकाहेन | स पंथानं, विलंघ्य श्लाघ्यमानसः । पुरं स्वर्णपुरं प्राप, यत्पुनाति स्वयं प्रभुः ॥ ५० ॥ तो निःप्रद-1 क्षिणीकृत्य, दंपतो प्रणिपेततुः । अपश्चिमजिनाधीशं, पूर्व पश्चात्प्रवर्तिनीं ॥५१॥ ततश्च नम्रपंचांगA समालिंगितभूतलौ । पदद्वंद्व मृगावत्याः, प्रश्रयेण प्रणेमतुः ॥ ५२ ॥ तावुभो तन्मुखन्यस्त-निर्नि
मेषविलोचनौ । पुरस्तादुपविश्यांबां, वरिवस्यांबभूवतुः ॥ ५३॥ अथ सा वीतरागापि, सरागेवानुकं. |पया। विशदेनोपदेशेन, चकारानुग्रहं सुते ॥ ५४ ॥ आयुष्मन् पुरुषार्थेषु, धर्म एव धुरंधरः । अर्थकामौ हि जानोहि, ध्रुवमेतत्समुद्भवौ ॥ ५५ ॥ निसर्गेणारिषड्वर्ग-निग्रहाग्रहिको भव । इह चामुत्र चाप्येष, प्राणिनामप्रियंकरः ॥ ५६ ॥ भीताऽभयप्रदानेन, धर्ममावर्जयेस्तथा । इमामासादयेवत्स, यथा तीर्थंकरश्रियं ॥ ५७ ॥ अवश्यं नश्वरीमेनां, दोनोद्धरणकर्मसु । श्रियं व्यापार्य वत्सेश, विद
O@OODGoo
॥१०६॥
Page #109
--------------------------------------------------------------------------
________________
मृगावती
॥१०७॥
| ध्यास्त्वमनश्वरीं ॥ ५८ ॥ कामः क्रोधस्तथा लोभो, मानो हर्षो मदस्तथा । षड्वर्गमुत्सृजेदेनं, त्यक्ते चरित्रम् | तस्मिन सुखी नृपः ॥ ५९ ॥ स्नुषामप्यवदद्वत्से, वत्सेश्वरवधूरसि । प्रद्योतस्य सुता चासि, शिक्षा-IN
योग्यासि तध्रुवं ॥ ६० ॥ नित्यं भवसि चेद्वत्से, छायेवोदयनानुगा । एतावतैव पर्याप्तं, सुकृतोप| निषत्तव ॥६१ ॥ स्त्रीणां हि शीलमप्येकं, तुषारकरनिस्तुषं । स्वर्गापवर्गयोहेंतु-रेवं सर्वविदो विदुः । | ॥ ६२ ॥ एवं शिक्षामृतं मातु-रापिवंतो प्रमोदतः । एतौ कांश्चिदहोरात्रां-स्तत्र वासांबभूवतुः | ॥ ६३ ॥ अथ जनन्यामन्यत्र, प्रयातायां महीपतिः । आजगाम स्मरन्मातुः, सबाष्पो निजपत्तनं 0 ॥ ६४ ॥ स मातुरुपदेशेन, स्वस्मिन् देशे समंततः । अमारिपटहध्वाने-रेनोनिर्वासमादिशत् ।।६४॥ | विनयी नयधर्माभ्यां, स मातुरुपदेशतः । स्वःपुरीजित्वरीं चक्रे, कौशांबीमवनीश्वरः ॥ ६५ ॥ इति | जितपुरुहूतः स्फीतपुण्योपहृतः, प्रतिनवनृपतिश्रीसेव्यमानांहिपद्मः । ससुरभिगुणमालो मालवाधी- | शपुत्री-विषयसुखनिमग्नः स्वीयकालं निनाय ॥६६॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते धर्मसारे | ॥१७॥ श्रीमृगावतीचरित्रे चतुर्थो विश्रामः समाप्तः ॥ श्रीरस्तु ॥
Page #110
--------------------------------------------------------------------------
________________
मृगावती
॥ अथ पंचमो विश्रामः प्रारभ्यते ॥
lel चरित्रम् वशं तदानीमानीतः, स्मरेणाथ नृपस्तथा । सेहे न नाम नामापि, कामं धर्मार्थयोर्यथा ॥१॥ ॥१०॥
| प्रियोपचर्यापर्याप्त-कायवाड्मानसक्रियः । न स कार्यासनं भेजे, न च धर्मासनं यतः ॥ २॥ ततो
सो तत्यजेऽत्यंत-मोजसा तेजसापि च । अत्यासक्तिः कलत्रेऽपि, शुभोदर्का न कीर्त्यते ॥३॥ 0 अपरं विषयग्राम, स भृशं बुभुजे यतः। तदीयविषयग्रामं, पर्बुभुजिरे ततः ॥४॥ पांचालस्तु महीAI पाल-स्तत्र पत्यौ पराङ्मुखे । उदीर्णकामः कौशांब्या-मिच्छत्युपपतीयितुं ॥ ५॥ जितवाचस्प- Is
तिमंत्री, ततो यौगंधरायणः । सेनानाथो रुमण्वांश्च, मंत्रयामासतुर्मिथः ।। ६॥ फलैकगम्यतारम्यः, | पुण्यराशिरिवाद्भुतः। भूपालाभ्युदयोदर्क-स्तत्र मंत्रस्तयोरभृत् ॥ ७ ॥ अथोत्थाय समेताभ्यां, ताभ्यामंतःपुरान्नृपः । आनिन्ये नैशमास्थानं, कुतोऽपि व्यपदेशतः ॥ ८॥ विस्मयान्निनिमेषाः,
सुमनोभिरनेकधा । सा सभा भासुरा कल्पै-राजन्यैः पर्यपूर्यत ॥ ९ ॥ तदानीं मेदिनीपाले, मध्य8 मभ्यासिते सति । सुखासीनसुनासोरां, सा सुधमा व्यडंबयत् ॥ १० ॥ भूपालाकल्परत्नेषु, संजा
40,600.0000
॥१०८।
Page #111
--------------------------------------------------------------------------
________________
बुगापती
॥ १०९ ॥
तप्रसवैरिव । दीपिकानिकरैस्तस्या-मासीदीपोत्सवो नवः ॥ ११ ॥ किंतु भूभर्तुरभ्यर्ण-वर्त्तिनी कर दीपिका । विध्यातेति निमित्तज्ञः, सामंतैर्दुर्मनायितं ॥ १२ ॥ वपुः सिंहासने दृष्टिर्न सामंतकोटिषु । व्यापार्यत तदा राज्ञा, राज्ञ्यामेव मनः पुनः ॥ १३ ॥ चिरादुदयनो देवः स्वीयमास्थानमास्थितः । इति सर्वजनो याव - दासीदानंदमेदुरः ॥ १४ ॥ उच्छलत्तारपूत्कार - कातरीकृत कंचुकी । तावदंतःपुरे स्त्रीणां शुश्रुवे करुणध्वनिः ॥ १५ ॥ कृतांत महिषस्कंध — धूसरो धूमसंचयः । अथाकांडमिलद्यावा – भूमिर्भीमो व्यजृंभत ॥ १६ ॥ ततः किंशुकसंकाशो, वह्निरह्नाय दुर्धरः । ज्वालाजिह्वाशतैर्लोकं, लेलिहान इवोत्थितः ॥ १७ ॥ धूमसंभूतजीमूत—संगते गगनांगणे । लोलज्वालाकलापेन, सो विद्युल्लतायितं ॥ १८ ॥ धर्मराजमहाराज - दीपिका कलिका इव । अभ्रंलिहः स्फु रंतिस्म, स्फुलिंगततयस्तदा ॥ १९ ॥ उत्तरीयं परित्यज्य, ज्वलनज्वलदंचलं । प्रणेशुराकुलाः काश्चि - दंतःपुरपुरंध्रयः ॥२०॥ कंंत्यस्तात तातेति, कैश्चिदेत्य दयालुभिः । ज्वालामालाभिराश्लिष्टाः, कृष्टाः कष्टेन काश्चन ॥ २१ ॥ अनले तत्र कल्पांत - वह्निसब्रह्मचारिणि । क्षोभः सभायां भृभर्तुः, कोऽप्य
340
ॐ शिर छनक छ
जि
चरित्रम्
॥ १०९ ॥
Page #112
--------------------------------------------------------------------------
________________
मृणावती
॥ ११० ॥
पूर्वोऽभवत्तदा ॥ २२ ॥ मूर्छामगच्छन् केऽप्यत्र, केऽप्यमद्यंत निर्दयं । विभूषणसहस्राणां मथने तु कथैव का || २३ || हहा दंदहते देवीं, हताशोऽयं हुताशनः । इति जल्पन्नधाविष्ट, वेगाद्योगंधरायणः ॥ २४ ॥ स गच्छन्नुत्सुकस्तेषां सर्वेषामेव पश्यतां । उद्यद्भिर्धूमकल्लोले – रालोलैः कवली - कृतः ॥ २५॥ ततः कोपाद्विकोशासि - राक्रोशंस्तं हुताशनं । जवाज्जगाम हा देवि, हा देवोति वदनृपः ॥ २६ ॥ रुषा हुताशं नृपति-र्जघान तरवारिणा । कार्योपायं न पश्यंति, कोपव्याकुलचेतसः ॥२७॥ वह्निविध्यापनायेव, प्रियाविरहकातरः । वाष्पोर्मिनिर्मितं पूर-मुज्झतिस्म स निर्भरं ||२८|| ॐ कालजिह्वालमालोक्य, कृशानुमकृशं ततः । दग्धां देवीं विनिश्चित्य, मूर्छतिस्म महीपतिः ॥ २९ ॥ अहो किमत्र भावीति, संभ्रांतेन रुमण्मता । पुनश्चैतन्यमानिन्ये, महींदुश्चंदनादिभिः ॥३०॥ विललाप महीपाल - स्ततो म्लानमुखांबुजः । हा देवि हा सरोजाक्षि, हा प्रिये हा प्रियंकरे ॥ ३१ ॥ इहापहाय मामेव - मेकाकिनमनागसं । क्क प्रयातासि रंभोरु, दूरं ताम्यत्ययं जनः ॥ ३२ ॥ अयि स्वच्छे समागच्छ, विरहस्याऽसहोऽस्म्यहं । अनेनाशनिपातेन, हृदयं मे विदीर्यते ||३३|| मनखिनि
4604 छ
चरित्रम्
॥ ११० ॥
Page #113
--------------------------------------------------------------------------
________________
मृगावती / न मानस्य, मनागप्यस्मि गोचरः | जन्मतोऽपि न ते येन, प्रिये विप्रियमाचरं ॥३४॥ मयाद्यैव चिरा- चरित्रम
|चक्रे, कार्यासनपरिग्रहः । अस्मिन्नेवांतरे धिग्मां, मुमोषायमुषर्बुधः ॥ ३५ ॥ आतपस्तपनस्यापि, न | | कदापि यदस्पृशत् । तदंगं तव तन्वंगि, ददाह दहनः कथं ॥ ३६॥ पितरौ तो परित्यज्य, यन्मा
दृक्पतिराहतः । तस्येदृशं परीणाम-फलमासादितं त्वया ॥३७॥ त्वयारण्यपथे तस्मि-नहं सहचरः | कृतः। चलितासि कथं बाले, मागेंऽमुत्र मया विना ॥३८॥ अथवा किमुपालंभै-स्तवैवानेन वर्त्मना । || तन्वि त्वरितमेषोऽस्मि, त्वदंतिकमुपागतः ॥ ३९ ॥ अद्यापि येन जागर्ति, ममातिच्छेदकोविद । ज्वालाजालजटालोऽयं, सर्वभक्षी हुताशनः ॥४०॥ एवं विलप्य तत्रासो, झंपां दातुं प्रचक्रमे । प्रेयसी-19 विप्रयोगार्ताः, किं न कुर्वति रागिणः ॥४१॥ वसंतकेन मित्रेण, सेनान्या व रुमण्वता | उभाभ्यां स | तदा ताभ्यां, बलाहाह्वोरधार्यत ॥४२॥ युवाभ्यां मरणात्स्वामी, रक्षणोयः प्रयत्नतः । इति मंत्रिवचः स्मृत्वा, ताभ्यां चैवमबोध्यत ॥ ४३ ॥ देवाशुशुक्षणिः सोऽयं, देवीदहनकर्मणा । प्रत्यक्षः प्रतिपक्षोऽतः, सर्वथोच्छेदमर्हति ॥ ४४ ॥ स्त्रीहत्यापातकी ह्येष, चक्षुषापि निरीक्षितुं । नोचितः किं पुन
Page #114
--------------------------------------------------------------------------
________________
मृगावती | देव, सर्वांगमुपगृहितुं ॥ ४५ ॥ न च मृत्युरुपेत्यासो, स्वीकर्तुं युज्यते सतां । जोवंतो हि पुनर्जातु, चरित्रम्
लभेरनिप्सितं क्वचित् ॥ ४६॥ प्रमृतानां पुनः स्वामिन्, दुर्लभो वल्लभागमः। मार्गः कर्मवशाद्भिन्नैः, lol
संचरंते हि देहिनः ॥ ४७ ॥ किंच किंकार्यतामोहे, कृत्यमार्गप्रकाशिका । आज्ञा मातुर्मगावत्या, D lo| अस्ति नो हस्तदीपिका ॥४८॥ तदेहि त्यज कातयं, गम्यते तत्पदांतिकं । पुंसामाप्तोपदेशाय, देशां-IR
तरगमः कियत ॥ ४९ ।। श्रूयते दिशि पूर्वस्या–मिदानी विहरन् स्वयं । वीरो हि भगवान् विश्व | -कर्मनिर्मूलनोद्यतः ॥ ५० ॥ तत्परीवारसर्वस्वं, निर्मला श्रमणी गुणैः । मृगावत्यपि तत्रैव, संभा- | व्या भुवनाधिप ॥ ५१॥ तत्सर्वमवधायेंदें, सर्वकृत्यविचक्षण । एनमेनखिनं दूरात्, परित्यज हविभुजं ॥ ५२ ॥ प्रपद्येति वचो राजा, रुमण्वंतमभाषत । साधु सेनापते साधु, स्मारितो मातरं | त्वया ॥५३।। दुःखव्यपगमोपायः, साधीयानयमेव मे । जननी जनयत्येव, दृष्टापि सुखसंपदं ॥५४॥ परमाहूयतामल, मंत्री योगंधरायणः । यथालोच्य समं तेन, वितनोमि यथोचितं ॥ ५५ ॥ अथो
॥११२॥ वाच चमूनाथः, सबाष्पः पृथिवीश्वरं । देवी प्रद्योतजा यत्र, तत्र योगंधरायणः ॥ ५६ ॥ इति श्रुत्वा |
400000
Page #115
--------------------------------------------------------------------------
________________
मृगावती । प्रजानाथ-स्तं शुशोच पुनः पुनः । समं मुक्तोऽस्मि देव्या च, त्वया च सचिवोत्तम ॥ ५७ ॥ चरित्रम्
त्वामंतरेण दूरेण, गतं मे सुखसंपदा । सद्बुद्धे राज्यधौरेयः, को हि त्वदपरो मम ॥ ५८ ॥ अपरा|धोपहूतस्य, त्वां विना भाविनी मम । विदित्वा विपदं सद्यः, कोऽद्य प्रतिकरिष्यिति ॥५९॥ संग्रामे-101 | प्वभ्यमैत्रीणे, मयि निर्व्याजपौरुषः । त्वां विना पुरतो भूत्वा, को धुरं धारयिष्यति ॥ ६० ॥ किमेवं | | वानुशोचामि, वेधसि प्रातिकूलिके । तद्गत्वा मातुरभ्यणे, कार्यः कार्यस्य निर्णयः ॥ ६१ ॥ परिचर्या |
विनीताभ्यां, ताभ्यामनुगतस्ततः । स शोकविकलात्मापि, प्राचींप्रत्यचलदिशं ।। ६२ । भुज्यमानां To परैर्वीक्ष्य, जागरूकत्रपाभरः । अहोभिः पंचषैरेव, स्वभूमिममुचन्नृपः ॥ ६३ ।। कुर्वन् विश्राममा
| रामे, कुत्रचित्सिद्धपुत्रकं । एकं निविष्टमैक्षिष्ट, सहकारतरोस्तले ॥ ६४ ॥ विलोक्य पुस्तकं हस्ते, R
| नियतं ज्ञानवानयं । इत्यवेत्य नमस्यंत-स्तत्पुरस्तेऽप्युपाविशन् ॥ ६५ ॥ तं रुमण्वांस्ततोऽवादी10 दाबद्धविनयांजलिः । भवादृशाः प्रभोऽवश्यं, स्युः कालत्रयवेदिनः ॥ ६६ ॥ कदा व्यसनपारीणो, ॥१३॥
भविष्यत्येष नः प्रभुः । इदं निवेद्यतामस्ति, यद्यस्मासु कृपालुता ॥ ६७ ॥ इति तेन तदोक्तोऽस्मै, PI
000000
Page #116
--------------------------------------------------------------------------
________________
मृगावती ॥ ११४ ॥
कथयामास सोऽप्यदः । भविष्यत्येष वर्षांते, दुःखाकूपारपारगः ॥ ६८ ॥ वंचितोऽनेन यच्चक्र-चक्रवाकीपिधानतः । याममेकं पुरा तस्य कर्मणस्तदिदं फलं ॥ ६२ ॥ किंत्वसामान्यमासाय, कन्यार नमयत्नतः । असौ साम्राज्यलक्ष्मी च, प्रेयसीं च प्रपत्स्यते ॥ ७० ॥
इति श्रुत्वा तं नत्वा, ताभ्यामनुगतोऽग्रतः । व्रजन्नुदयनो मान्यं, सेनान्यं समभाषत ॥ ७१ ॥ प्रियोक्तिभिर्मृषाद्यापि धूर्तैरार्त्तः प्रतार्यते । दग्धाप्युदीर्यते देवी, जीवतीति किमन्यथा ॥७२॥ भावी मे प्रियया योगः, प्रोषितप्राणयापि चेत् । पूर्वजा अपि सर्वेऽपि किं मिलेयुर्न मेऽधुना ॥ ७३ ॥ जीवत्यद्यापि देवीति, वदंती किंवदंत्यापि । प्राणप्रयाणभंगाय, जातेदानीं तथापि मे ॥ ७४ ॥ आशापि व्यवसायेषु, प्रवर्त्तयति यज्जनं । दूरं धावंति नाध्वानं, किं मृगा मृगतृष्णया ॥ ७५ ॥ त
ध्वजिनीनाथ, कौशांव्यालंबनं भव । इदानीं सा दशां कांचि -- त्प्रपन्नेति न वेद्यहं ॥ ७६ ॥ अथ शुभ्रमते भ्रातः स्मर्त्तव्यं मंत्रिणो वचः । यत्नः कार्यः प्रभावेव - मुक्त्वैकांते वसंतकं ॥ ७८ ॥ बाप्पांबुपंकिलीभूत-भृतलन्यस्तमस्तकः । रुमण्वान् स्वामिनं नत्वा, प्रत्यावृत्तः पुरींप्रति ॥ ७९ ॥
994
चरित्रम्
॥११४॥
Page #117
--------------------------------------------------------------------------
________________
मृगावती युग्मं ॥ ततोऽग्रतः क्रमात्क्राम-नभ्रंकषशिखं पुरः । एकं नगेंद्रमद्राक्षी - नरेंद्रः सवसंतकः ॥ ८० ॥ सोऽस्मिन् मनोरमाराम - रामणीयकशालिनि । आरूढः प्रौढलक्ष्मीक-मोक्षांचके जिनालयं ॥ ८१ ॥ तदंतरंतःकरण — प्रियां भावुकसंपदं । प्रतिमामादिनाथस्य, दृष्ट्वा तुष्टाव पार्थिवः ॥ ८२ ॥ नमो नाभिकुलांभोधि - कौस्तुभाय भवच्छिदे । व्यसनापातमातंग - सिंहपोताय तायिने ॥ ८३ ॥ इि स्तुतिपरस्तस्मै, प्रणयात्प्रणनाम सः । अभ्यर्णेऽभ्युदये पुंसा - मीदृश्युदयते मतिः ॥ ८३ ॥ ततो | धर्मं वपुष्मंत - मनंतज्ञानसंपदं । चारणश्रमणं तत्र स सानंदमवंदत ॥ ८४ ॥ सोऽभिनंद्याशिषा तेन संप्रसादमभाष्यत । महाभाग महाभाग्यै— स्तीर्थमेतदुपागतः ॥ ८५ ॥
रत्नशैलाधिपः शैलो, निःसीममहिमा ह्यसौ । विद्या विद्याधरैरत्र, शतकृत्वः प्रसाधिताः ॥ ८६ ॥ अयं विहरता स्वैर - मादिदेवेन यत्पुरा । भूधरश्चरणांभोज – रजोभिः सुरभोकृतः ॥ ८७ ॥ तेन विद्याधरैराद्यैः, श्रीनाभेयप्रभोरिह । विद्याधरविहाराख्यो, विहारोऽयं विनिर्ममे ॥ ८८ ॥ अस्माभिः किंव तीर्थेऽस्मिन्ननुग्राह्योऽसि सर्वथा । अभूर्मृगावतीकुक्षि- शुक्तिमुक्तामणिर्यतः ॥ ८९ ॥ एकमा
॥ ११५ ॥
O
ভউछ
चरित्रम्
॥११५॥
Page #118
--------------------------------------------------------------------------
________________
मृगावती
॥११६॥
दत्व तन्मंत्र—मुत्वासप्रदमापदां । अनेन प्रणिधोयंते, पंचापि परमेष्टिनः ॥ ९० ॥ सद्यस्ते सफ- चरित्रम् लामीहा-मैहिकामुष्मिकश्रियां । विधाताऽयमचिंत्यो हि, महिमा मंत्रसंभवः ॥ ९१ ॥ इत्युक्त्वास्मै | नमस्कार-मयं मंत्रं ददौ मुनिः । चतुर्दशापि पूर्वाणि, यत्र लीनानि लीलया ॥ ९२ ॥ भूधवोऽभ्यः | स्तपूर्वस्य, मंत्रस्यास्य महर्षिणा । ध्यानं चासनबंधं च, शुद्धमध्यापितस्तदा ॥ ९३ ॥ तस्य जापाद्य- | मादिश्य, ययावभिनभो मुनिः । तद्गिरा मातुरुत्कंठा, सोऽपि कुंठां तदा व्यधात् ॥ ९४ ॥ शुद्धोद-| सरसि नातः, प्रातस्तत्पंकजैस्ततः । नित्यं नाभेयमभ्यर्च्य, तं मंत्रमजपन्नृपः ।। ९५॥ कोशांबीतः || समायातः, पुरुषः कश्चिदन्यदा । राज्ञे विज्ञपयामास, स्वरूपं पश्चिमेऽहनि ॥ ९६ ॥ तदा त्यक्तां त्वया देव, पांचालश्चतुराभिधः । दत्वा दृढमवस्कंद-माचस्कंद पुरी तव ॥ ९७ ॥ रुमण्वानपि मत्वेदं, डाहलेश्वरमभ्यगात् । प्रतापमाहतस्वाप-मिवोत्थापयितुं तव ॥ ९८ ॥ इत्याकर्ण्य विस्मृज्यैन-मुवाच स वसंतकं । सखे खेदोऽयमस्माक-मुपर्युपरि ढोकते ॥ ९९ ॥ हुताशस्याहुतिर्जाता, ॥११६ ॥ सुता प्रद्योतभृपतेः । एतामेवान्वगान्मंत्री, राज्यश्रीराददेऽरिभिः ॥ १०० ॥ वत्सभर्तुरहो कीर्ति-रहो
Page #119
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
॥११७॥
| भाग्यपरंपरा । एकोऽद्य श्रेयसे मृत्युः, स च कर्तुं न लभ्यते ॥१॥ न च किंचित्तदुद्यानं, न सा वापी | न तत्सरः । उद्वेगस्यायमावेगः, क्षणं यत्रातिवाह्यते ॥ २ ॥ ततो वसंतकः प्राह, देव मिथ्यैव खि- | | द्यसे । किं प्रभावः प्रभोरस्य, वचो वा ज्ञानिनोऽन्यथा ॥ ३ ॥ तत्प्रतीक्षस्व वर्षांते । लप्यसे सर्वमी| प्सितं । इदानीं तु विनोदाय, शृणु स्थानं निवेदये ॥ ४ ॥ ____ इहैव नातिदूरेऽस्ति, सुपुष्पं नाम काननं । तस्मिन् सुमनश्चेतु-मपरेयुरहं गतः ॥५॥ चिंन्वंती | | तत्र पुष्पाणि, स्त्रियमेकां व्यलोकयं । आलापसस्पृहां मत्वा, तामपृच्छमनुत्सुकः ॥६॥ भद्रे पुष्पाणि | चीयंते, किमेतानि सहस्रशः । इति पृच्छानुयुक्ता सा, व्यक्तमेवमचीकथत् ॥७॥ अस्ति माहिष्म| तीनाम-नगरी श्रीगरीयसी । महीपतिर्महाबाहुः, शास्ति तामास्तिकोत्तमः ॥८॥ प्रिया कमल| मालेति, तस्यास्ति सुरभिर्गुणैः । तयोः सुदर्शनः सूनु-रनूननयविक्रमः ॥९॥ तथास्ति सागर- | | स्येव, पद्मा पद्मावती सुता। भविष्यति पतिर्योऽस्याः, स एव पुरुषोत्तमः ॥ १० ॥ रूपे निरुपमे सा | | तु, नवे च वयसि स्थिता। पार्थिवैः प्रार्यमानापि, वरं न बहुमन्यते ॥ ११ ॥ किंतु त्यक्तगृहावासा, |
P११७॥
Page #120
--------------------------------------------------------------------------
________________
मृगावती
॥१९८॥
| वनवासमुपेयुषी । सात्र केनापि कामेन, तप्यते दुस्तपं तपः ॥ १२ ॥ तदस्मत्स्वामिनी सेयं, त्रिसंध्यं शुद्धमानसा । कुसुमैरसमैरेभिः, कुरुते देवतार्चनं ॥ १३ ॥ अहं चंपकमालेति, सखी तस्या | मनःसमा । इति सा कथयंत्येव, केनाप्याहूयतान्यतः ॥ १४ ॥ त्वमप्यतिथिरस्माकं, भवेरार्य कदा. चन । एवमामंत्रयंती मां, सा ययौ त्वरितैः पदैः ॥ १५ ॥ देवः को नाम नाभेय-प्रभोरन्योऽत्र | पूज्यते । यदेतन्न मया ज्ञातं, तत्तु चित्ते दुनोति मां ॥१६॥ तदाकाद्भुतं भूप-स्तयुतस्तद्ययौ | वनं । तत्रापश्यच्च कैलास-सुंदरं देवमंदिरं ॥ १७ ॥ स तं प्रासादमुत्तुंग-मारुरोह कुतूहलात् । विशंस्तु गर्भगेहांत-रूचे चंपकमालया ॥ १८ ॥ अत्रैव स्थीयतामत्र, भवद्भिरिति वादिनीं । द्वारदेशस्थितामाह, तां सहासं वसंतकः ॥ १९ ॥ भद्रे त्वयेच्छमातिथ्य-मतिथीनां वितन्यते । प्रवेशेऽपि यदस्माकं, निषेधोऽर्थपदे कृतः ॥ २० ॥ ततः सप्रश्रयं प्राह, सा किमित्यार्य कुप्यसि । देवागारप्रवेशेऽस्मिन्, शृणु वारणकारणं ॥ २१ ॥ वनांतर्दिवसे तस्मिन्, पुष्पाण्युच्चेतुमागतां । वार्त्तयंती | त्वयास्माकं, स्वामिनी मामजूहवत् ॥ २२ ॥ गताहं च द्रुतं तत्र, देव्याः सविधवर्तिनीं । एकामालो
॥११८॥
Page #121
--------------------------------------------------------------------------
________________
॥ ११९॥
मृगावती क्य तन्वंगी-मपृच्छं स्मरविस्मया ॥ २३ ॥ देवि केयं जगन्नेत्र कैरवाकरकौमुदी । मन्ये निर्मा- चरित्रम्
ल्यमेतस्याः, सापि क्षीरोदनंदिनी ॥ २४ ॥ ___ अथासो कथयामास, देवी पद्मावती मम । पुष्पार्थ त्वयि यातायां, विप्रः कश्चिदिहाययौ ॥२५॥ उभाभ्यां स पुरंध्रीभ्या-मन्वितो मधुराकृतिः । साशीर्वादमवादीन्मा–मिदमादरवंधुरं ॥ २६ ॥ अनयोः कल्यरूपेयं, विद्धि कल्याणि मे स्वसा । इयमप्यपरा नित्य—मेतस्याः परिचारिका ॥२७॥ अस्याश्च नवलावण्य-पुण्यायास्तरुणत्वगः । वितोर्णविविधायासं, प्रवासं च गतः पतिः ॥ २८ ॥ तन्यासीकर्तुमन्यत्र, नेमा विश्वसिमि क्षणं । त्रियः श्रियश्च निक्षेप्तुं, न युक्तं यत्र कुत्रचित् ॥२९॥ एतस्यां च भवत्यां च, न विशेषं वहाम्यहं । वामदक्षिणयोरक्ष्णोः, कस्याप्यस्ति किमंतरं ॥३०॥
धात्रीशपुत्रि तत्ताव-दियं मम सहोदरा । सतीजनशिरोरत्नं, तवाभ्यणेऽवतिष्टतां ॥ ३१ ॥ यावदुToll जयिनीं गत्वा, सिद्धसर्वप्रयोजनः। पुनः प्रतिनिवत्तेंऽहं, तदस्तु स्वस्ति तेऽधुना ॥३२॥ ओमित्युक्तो ||११९॥
मया सोऽपि, यथाभिलषितं ययौ । प्रमोदसंविभागाय, त्वं चाहूतासि संप्रति ॥ ३३ ॥ तपोभिर्दुः II
Page #122
--------------------------------------------------------------------------
________________
चरित्रम
मृगावती में स्तरैरद्य, सखि मंजरितं मम । सेयं सहचरी लब्धा, यन्नेत्रामृतसारणिः ॥ ३४ ॥ सखि चंपकमाले
त-न्मामिवैतामनारतं । वीक्षेथाः सर्वथा येन, गुणगृह्यासि सर्वदा ॥ ३५ ॥ वसंतकस्ततो दभ्यो, ॥१२०॥
विप्रो यौगंधरायणः । ध्रुवं वासवदत्ता सा, समं कांचनमालया ॥ ३६॥ मंत्रिन्नंकुरितस्ताव-लव | मंत्रमहीरुहः । इदानीं सुभगो भूया-पल्लवैः कुसुमैः फलैः ॥ ३७ ॥ ततश्चंपकमाला सा । पुनरेनमभाषत । सा ब्राह्मणी प्रियं स्मृत्वा, रुदतीह पुनः पुनः ॥ ३८ ॥ अत्यंतं रुदती सा मे, स्वामि- | नोमप्यरोदयत् । परदुःखावतारस्य, पात्रं हि महतां मनः ॥ ३९ ॥ अद्यापराह्नसमये, संबोध्य विविधोक्तिभिः । आनिनाय विनोदाय, तामिह स्वामिनी मम ॥ ४० ॥ इह प्रवेशः कस्यापि, न दातव्यस्त्वया सखि । इत्यादिदेश मां देवी, विशंतो गर्भवेश्मनि ॥ ४१ ॥ तदात्मना तृतीयास्ति, देवी देवगृहोदरे । अतो भद्र निषिद्धोऽसि, तन्मनागपि मा कुपः ॥ ४२ ॥ अथोत्तिष्ट सखे यामः । प्रवेश
श्चेन्न लभ्यते । किमत्रावस्थितेनेति, नृपोऽवादोवसंतकं । ४३ ॥ देव क्षणं प्रतीक्षख, शीतलेऽस्मिन् 18 शिलातले । विश्राम वितनोमीति, सोऽपि तं प्रत्यवोचत ॥ ४४ ॥ ततस्तस्मिन् शिलासीने, विशा
| ॥१२०॥
Page #123
--------------------------------------------------------------------------
________________
मृगावती
॥१२१॥
| मोशोऽप्युपाविशत् । स्वैरालापान् मिथः सख्यो—मध्ये शुश्रुवतुश्च तो ॥ ४५ ॥ विरहक्लांतमात्मानं, चरित्रम्
व्यवस्थाप्य कथंचन । प्रद्योतदुहिता प्राह, महाबाहुतनूरहं ॥ ४६ ॥ तव प्रियसखि स्नेह-श्चापलाय | युनक्ति मां । तत्पृच्छामि वयः क्वैत-द्वनवासविधिः क्व च ॥ ४७ ॥ द्वयोर्विरोधिनोः कोऽय-मेकत्र | वसतिक्रमः । इदं नातिरहस्यं चे-तदा व्याहर्तुमर्हसि ॥ ४८ ॥ व्याजहार ततः स्नेहा-ड्डाहले|श्वरनंदिनी । किं तदप्यस्ति यद्गोप्यं, तवापि श्रूयतामिदं ॥ ४९ ॥ जानास्युदयनो नाम, कौशांब्या - | अवनीपतिः । विपंचीचातुरीचंचु, वत्सराजमुशंति यं ॥ ५० ॥ उपेत्य योगिनी जातु, शंकराख्या-10 | तिनिर्मलां । विस्तार्य तद्गुणश्रेणिं, बबंध हृदयं मम ॥५१॥ ततोऽभून्मेऽस्य रागेण, बद्धरंगं मन| स्तथा । यथासीत्प्रार्थना व्यर्था, पार्थिवानां मदर्थिनां ॥५२॥ तस्मै स्वयंवरां दातु-मीषतुः पितरौ | च मां । भाग्यैरनुगृहीतास्मी–त्यहं च मुदमावहं ॥५३॥ अथाकस्मान्मनोवेधां, वार्तामश्रोषमीदृशीं ।। यत्तस्य वसुधाभर्तुः, शुद्धांते वह्निरुत्थितः ॥ ५४ ॥ रहस्यहृदयं प्राण-सर्वस्वमिव पिंडितं । प्रिया ||
॥१२१॥ | वासवदत्तेति, या च तस्य निशम्यते ॥५५॥ तदा प्रदीपने तत्र, दग्धा सा नृपवल्लभा । दह्यादह्य-श
Page #124
--------------------------------------------------------------------------
________________
मृगावती ॥ १२॥
विभागं न, कुर्वतिस्म हविर्भुजः ॥५६॥ कथं हरसि देवीं मे, पश्यतः पश्यतोहर । इत्याक्षिप्य क्षिती- चरित्रम् | शेन, शस्त्रैर्वह्निरहन्यत ॥५७॥ ततो विलप्य तामन्वग्, विविक्षन्नाशुशुक्षणिं । संबोध्य बहुशो बाहौ, धृत्वामात्यैः स वारितः ।। ५८ । सोऽथ राज्यं परित्यज्य, देशांतरगतः क्वचित् । ब्रह्मचारी शुचिः कांचि–देवतां वरिवस्यति ।। ५९ ॥ इत्युदंतं निशम्यांतः-शल्या मूर्छामुपागमं । कथंचित्प्राप चैतन्य-मुच्चैर्दुःखादरोदिषं ॥६०।। भवानकृत्रिमः शत्रु-ररे दैवसदैव मे । मय्यकस्मादवस्कंद, यदेवं | दत्तवानसि ॥ ६१ ॥ मम कोरकितः किंचि-न्मनोरथमहीरुहः । त्वया व्यसनसंपात-दुर्वातेन निपा| तितः ।। ६२ ।। तथापि तेन संगाय, परस्मिन्नपि जन्मनि । स्वयमूरीकृतो मृत्यु-मया कर्तासि | किं ततः ॥ ६३ ॥ एवं देवमुपालभ्य, मृत्युं निश्चित्य चेतसि । गत्वोपवनमारब्धं, यावदुबंधनं मया | ॥ ६४ ।। तावच्चंपकमालातो, विज्ञातमदुपक्रमौ । आतुरौ पितरावेत्य, साश्री मामेवमूचतुः ॥६५॥16) वत्से वत्सेश्वरेऽवस्था-मीदृशीमुपजग्मुषि । तवान्ये परिणेतारः, किं न संति महीभुजः ॥ ६६ ॥ १२॥ असदध्यवसायस्ते, कोऽयं पुत्रि त्रपाकरः । अन्ये त्वदथे ताम्यंति, वृथैव त्वं तु ताम्यसि ।। ६७ ॥
Page #125
--------------------------------------------------------------------------
________________
मृगावती पित्रोरप्येवमादेशै-रत्यजंती तमाग्रहं । एत्यानुकंपया साथ, शंकरा मोमभाषत ॥ ६८ ॥ श्रुतं भद्रे चरित्रम्
A ममाप्येतत्, किंवोदृग्व्यसनोदयः । द्विधा भवति दैवी वा, मंत्रिमंत्रोद्भवोऽथवा ॥ ६९ ॥ अवद्य एव | ॥ १२३॥
| तत्राद्यः, पक्षस्तचिंतयाप्यलं । शुभायतिर्द्वितीयस्तु, तदेवं संशये सति ॥ ७० ॥ त्वमपि प्रियवत्त- 11
स्मा–देवताराधनं कुरु । देवता च कुलस्त्रीणां, पतिरेव प्रकीर्तितः ॥ ७१ ॥ तद्गृहाण तदेकाया, | | समग्राभ्युदयप्रदां । यथावल्लिखितामेतां, पतिप्रतिकृति पटे ॥७२॥ एतदर्चापरा कांतं, प्रत्यक्षं दृक्ष्यः | | सि स्वयं | कार्यसिद्धिरवश्यं स्या-त्तदेकध्यानचेतसां ॥७३॥ इत्युदीर्य पटं दत्वा, पूजाम्नायं सम| Z च । योगाभिवृद्धयेऽवंती, गता भगवती ततः ॥७॥ ततो रम्यमठोपांत-मुत्संगितनभोंगणं ।। | इदं प्रासादमाधत्त, बंधुर्मम सुदर्शनः ॥ ७५ ॥ अत्र स्थापितमभ्यर्च्य, सुमनोभिः सुगंधिभिः ।
वत्सराजमपव्याज-महं प्रणिदधेऽन्वहं ।। ७६ ॥ स्वप्नेऽप्यय मया दृष्टो, दिष्ट्यासौ जोवितेश्वरः | तदिदानीं त्वमप्येनं, सखि नेत्रातिथीकुरु ॥७७॥ ततः प्रद्योतदुहिता, सा वहित्थमुदाहरत् । सखि |RIT१२३ ॥ INI जातु नरं नान्य-मालोकंते पतिव्रताः ॥ ७८ ॥ स्थाने तन्वि तव प्रेम, वत्सेश्वरनरेश्वरे । हसं ||
Page #126
--------------------------------------------------------------------------
________________
मृगावती
॥ १२४ ॥
विहाय किं हंसी, रमते सुमते कचित् ॥ ७९ ॥ एतद्धि प्रतिमामात्रं, न दोषायेतिवादिनी । पटं पद्मावती तस्या - स्ततः स्नेहाददर्शयत् ॥ ८० ॥ अधार्यपुत्र चित्रेऽपि दिष्ट्या दृष्टश्चिरान्मया । चिंतयंतोति सापश्यतं पटं सांद्रया दृशा ।। ८१ ॥
बहिः स्थितोऽथ राजान - मवोचत वसंतकः । आकर्णितमिदं देव, सख्योरन्योऽन्यजल्पितं ॥ ८२ ॥ अभ्यर्चयसि नाभेयं, भक्त्या त्वं त्वामियं पुनः । इदं सद्यो ददौ तुभ्य -मभीष्टं विष्टपाधिपः ॥ ८३ ॥ नृपोऽभाषिष्ट भोः संति, वत्सराजाः सहस्रशः । बहुशो नामसाम्येन, प्रतायंते भवादृशाः || ४ || कथाभिरथवा स्त्रीणां कृतं नो ब्रह्मचारिणां । सांध्याया विधये याम, इति यावद् यियासति ॥ ८५ ॥ चित्राकारसमाकारं, नृपमालोक्य विस्मयात् । पृष्टो वसंत कः कोऽय – मिति चंपकमालया ॥ ८६ ॥ युग्मं ॥ नर्ममंत्री ततोऽवादी - दसावुदयनो नृपः । यं तव स्वामिनी चित्ते, प्रणिधले दिवानिशं ॥ ८७ ॥ मध्ये वेगेन गत्वाथ, सा जगाद नृपात्मजां । अपूर्वावतिथी प्राप्ती, कावण्यातिथ्यमर्हतः ॥ ८८ ॥ ततः सुता महाबाहो - गर्भगेहाद्विनिर्यती । आह प्रद्योतजामेहि, क्रिय
चरित्रम्
॥ १२४ ॥
Page #127
--------------------------------------------------------------------------
________________
मृगावती
| तेऽतिथिसस्क्रिया ॥ ८९ ॥ साप्यूचे सखि गच्छ त्वं, प्रथयातिथिपूजनं । नित्यमेवास्मि विमुखी, चरित्रम् पुरुषांतरदर्शने ॥९०॥ पद्मावत्यर्घहस्ताथ, निर्ययो च तदा बहिः । अंतः कांचनमालां च, रहः प्रद्यो- | तजाऽवदत् ॥९१॥ सखि जानासि निःशेषां, यथा योगंधरायणः । पुरांतः पुरमागत्य, प्रांजलिमा व्यजिज्ञपत् ॥९२॥ सखि तदा समागत्य, मंत्री योगंधरायणः । विनयावनतोऽवादीत, शृणु मातर्वचो मम | ॥२२॥ देवि स्मरवशे देवे, शुद्धांतमधितस्थुषि | राज्यमाज्यमिवापीतं, बलात्प्रत्यर्थिपार्थिवैः ॥१३॥ चंडप्रयोतभूभर्तुः, पुत्री त्वमसि यद्वयं । किं ब्रूमो वेत्सि यत्सर्व-मित्युक्ताहमथाब्रुवम् ॥ ९४ ॥ एत-10 त्यजामि वा राज्यं, यामि वा पितृवेश्मनि । ब्रूषे यत्तत्करोमीति, मयाप्यस्मै प्रतिश्रुतं ॥ ९५॥ |
ततस्तेन निजारंभ-संरंभेण सुरंगया। वह्निमंतःपुरे दत्वा, समाकृष्टास्म्यहं बहिः ॥ ९६ ॥ क्रीडाशुकपिकीहंस-कुरंगकचकोरकाः। सुप्ता निजनिजे स्थाने, हहा तत्यजिरे मया ॥ ९७ ॥ ज्वलनालिंगनोद्भूत-निद्राछेदः परिच्छदः । अभृन्मदीयोऽनेदीयो, मृत्योरत्याकुलः कथं ॥९८॥ तत्त- | | दित्यनुशोचंती, दाक्षिण्यात्तस्य मंत्रिणः । नक्तमंह्रिक्षरद्रक्ता, चलितास्मि पुरस्ततः ॥ ९९ ॥ निःशू-II
Page #128
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
॥ १२६॥
| कधूकघूत्कार–प्रादुर्भूतभयाकुला । किं न स्मरसि दत्वाहं, बाहुं संधीरिता त्वया ॥ १०० ॥ अधि- शय्य त्वयास्तोणे, श्रस्तरे पल्लवैः पथि । तदा तमोभि(मायां, निशि निद्रामुपागमं ॥ १ ॥ शनै-N रित इतो देवी-त्यमात्याख्यातपद्धतिः । दिवा वर्द्धिष्णुतृष्णांधा-मपीप्यः सखि मां पयः ॥२॥ तवेत्थमुपचारेण, विधूतावपरीश्रमा । इहाहं मंत्रिणानीय, मुक्ता पद्मावतोमनु ॥३॥ क्लेशावेषमिम सर्व, सहमानातिदुस्सहं । सर्वथा मंत्रिणो वाणी, प्रमाणीकृतवत्यहं ॥ ४॥ पद्मावती सपत्नी मे, | शंकरायाः प्रयोगतः । चिकीर्षता पुनस्तेन, किं किं नापकृतं मम ॥५॥ मंत्रिणः परमास्त्रं हि, शंकरा कार्यसाधकं । विधीनेवंविधान् किं च, सैव कतुं प्रगल्भते ॥६॥ न्यासीकृता तवोत्संगे, मंत्रिन् पुत्री | मयाधुना । इति तातवचोऽप्येष, न सस्मार जरद्गवः ॥७॥
ऊचे कांचनमालाथ, मंत्रिणे देवि मा कुपः । यदेषः क्लिश्यते नित्यं, तवैव हितकाम्यया ॥८॥ मनोवाक्कायकर्माणि, तत्तबुद्धिप्रयोगतः । नित्यं व्यापारयत्येष, राज्योद्धरणहेतवे ॥९॥ राज्ञः पद्मावतीयोगा-त्वत्संयोगो हि निश्चितं । न ही प्राचीमनाश्लिष्य, भानुभुंक्ते दिनश्रियं ॥ १० ॥ पर्यालो
|॥१६
Page #129
--------------------------------------------------------------------------
________________
॥१२७॥
मृगावती | च्येदमेवोच्चै-मैत्रिणोऽयमुपक्रमः । तदेवि मंत्रिमंत्राणां, युज्यते दृष्टुमायतिं ॥ ११ ॥ स्वयमरीकृतं चरित्रम्
चैत-त्सहस्व क्लेशवैवशं । महद्भिरभ्युपेतोऽर्थः, सो निर्वाहमर्हति ॥१२॥ किंच लेखोऽस्ति यस्तात-प्र| हितोऽय समागतः । मयात्मना सहानीतः, स इदानीं विभाव्यतां ॥ १३ ॥ वाच्यतामिति सा वाच
–मवाप्य वामिनीमुखात् । नीचकैर्वाचयामास, मुदिता विशदाक्षरं ॥ १४॥ स्वस्ति श्रीमदवंतीतः, श्रीमान् प्रद्योतभूपतिः । वने वासवदत्ताख्या-मात्मजां बोधयत्यदः ॥ १५ ॥ मत्वा कुशलमस्माकं, IN दधीथाः परमां धृतिं । निजकल्याणवार्ताभि-मोदनीयाः सदा वयं ॥ १६ ॥ समस्तमपि विज्ञप्तं, यु-10 | गंधरसुतेन नः । व्यसने पातितास्मीति, खिन्नास्मिन् खलु मास्मभूः ॥ १७ ॥ कृतं पुत्रि बहुक्तेन, | रच्यते सचिवेन चेत् । सपत्न्यपि तदा वत्से, प्रपद्येथाः सखीति तां ॥१८॥ आदिश्य पालगोपालौ, | विपक्षोच्छेदपूर्वकं । वत्सराजस्य साम्राज्य-मुन्धृतं ज्ञायतामिति ॥१९॥ वचः कांचनमालाया, लेखा
| थे चावगम्य तं । ततः प्रद्योतजाऽवादी–दमात्ये त्यक्तमत्सरा ॥ २० ॥ सखि साधु त्वया प्रोक्तं, To तातादेशोऽपि तेऽनुगः । किं तु न ज्ञायते कुत्रा-प्यार्यपुत्रस्तपस्यति ॥ २१ ॥ वार्तयंत्योस्तयोरित्थ |
3000-00-
004
॥१२७१
Page #130
--------------------------------------------------------------------------
________________
॥ १२८॥
-मुत्थिताश्रुर्विषादिनी । पद्मावती निरुत्साहा, विवेशाभ्यंतरे तदा ॥ २२ ॥
चरित्रम् ___ अथ तां समदुःखेव, तदा प्रद्योतजावदत् । सखि ते वदने कांतिः, किं जातेयं मषीसखी ॥२३॥ | लज्जाग्रस्तगिरं मत्वा, स्वामिनी चतुरा ततः । तस्यै चंपकमालैव, यथावृत्तमचीकथत् ॥ २४ !! तत्रै| कमतिथिं वीक्ष्य, सखि स्वामिन्युवाच मां । सोऽयं चित्रपटाकारः, किमु जंगमतां गतः ॥२५॥ तप| स्ते फलितं सद्यो, देवी चिंतय मान्यथा। स्मितपूर्व मयेत्युक्ते, स्वामिन्यभ्रमदित्सत ॥ २६ ॥ किंतु | देवि तमालोक्य, वेपमानवपुस्तदा । स्तंभसंस्तब्धगालाभू-नालंभूष्णुः पदक्रमे ॥ २७ ॥ अथायम-| तिथिः स्वैरं, देवी निर्वर्ण्य सर्वतः । विविधं वर्णयामास, प्रमोदात्सुहृदः पुरः ॥ २७ ॥ एषा सखे | सखेदात्र, शंभुभस्मीकृतात्मनः । अनंगस्यांग लाभाय, किं रतिस्तपते तपः ॥२८॥ किं वाऽसो क्षेत्र| माहात्म्या-द्विशेषपदसस्पृहा । व्यवस्यतीह तीर्थाय, उतेयं वनदेवता ॥२९॥ वने चोपवनेऽमुष्मिन, | | नंदनोद्याननंदिनि । किमियं मूर्तिमादृत्य, तपाश्रीराश्रयं व्यधात् ॥ ३१ ॥ किंवा वासवदत्तैव, व्य- JAIL१२८॥ सनं मे व्यपोहितुं । इयमस्मिन् वने वास–मुपास्यैवं तपस्यति ॥ ३२ ॥ इति स्मृत्वा प्रियां तत्र,
Page #131
--------------------------------------------------------------------------
________________
मृगावती
॥ १२९॥
मुक्तकंठं रुरोद सः । उद्गृणस्तद्गुणग्राम, तुमुलं विललाप च ॥ ३३ ॥ हा प्रद्योतसुते देवि, त्वया चरित्रम् दयितया विना । चक्रवाक इवैकाकी, वराकीयमयं जनः ॥ ३४ ॥ मनसो मे त्वमेवासि, पदमानं- | दसंपदां । यद्वा देवि चकोरस्य, चंडिकैव रसायनं ॥ ३५॥ मम त्वया विमुक्तस्य, वनवासः किया- | नसौ । अस्मि निंद्यो यदद्यापि, जीवामि प्रियजीवितः ॥ ३६ ॥ स्निग्धासि त्वं क्षणादग्धा, ततस्तेन | कृशानुना । तादृग्नाहं यदद्यापि, न दह्ये विरहाग्निना ॥३७॥ भवत्या वरिवस्या वा, नमस्या वा जिने-16 | शितुः । इयं द्वयोगतिमेंऽस्तु, तृतीया तु विडंबना ॥ ३८ ॥ एतच्चेतोहरानेक–घनाऽनोकहसंकुलं ।। उद्यानमनवद्यांगि, हा विना त्वां मरुस्थली ॥ ३९ ॥ लतालास्यकलाचार्यः, पुष्पामोदमलिम्लुचः । वनवायुर्वियोगाख्यं, ज्वलनं ज्वलयत्ययं ॥ ४० ॥ विलपंतं तमित्युच्चै-रभ्यधत्त सुहृत्ततः । अर्ध गृहाण पश्यैता-मनन्यगतिकां पुरः ॥ ४१ ॥ इत्युक्तस्तेन सोऽवादीत्, कुर्वन्नस्याः समीहितं । कथं न याति मालिन्यं, देवीलाभफलं तपः ॥ ४२ ॥ किंचाथैव व्रतस्यास्य, वर्धते सिद्धिवासरः। विघ्नस्त- In कोऽयमेहीति, मित्रमाकृष्य सोऽव्रजत् ॥ ४३ ॥ ततस्तावनुपश्यंतो–मपश्यंती स्वमोप्सितं । सा
POOOOOO0
॥१२॥
Page #132
--------------------------------------------------------------------------
________________
मृगावती
॥१३०॥
440
श्रुनेत्रामिमां बाहो, गृहीत्वाहमिहागमं ॥ ४४ ॥ स्मरबंदीकृता तस्मै, ताम्यंतीयं तमीमिमा । कथं | | नेष्यति चिंता मां, दहत्यहह संप्रति ॥४५॥ लब्धव्यं सखि तल्लब्धं, देवताराधनाफलं । इहावस्थि| तया कार्य, तन्मया किमतःपरं ॥४६॥ .यामोऽधुनेति जल्पंती, प्रतिप्रद्योतनंदिनी | खेदात्पद्मावती | मंदं, चलतिस्म वनंप्रति ॥ ४७ ॥ युग्मं ॥ इच्छा सेत्स्यति ते नून-मुत्सुका सखि मास्मभूः । एवं | वासवदत्तापि, तामाश्वास्य सहाचलत् ॥ ४८॥ | तामनुपस्थिता साथ, कर्णेऽवोचत कांचनां । आर्यपुत्रोऽत्र स्वच्छंद-महो विहरते गिरी ॥४९॥ | | तदत्रैव क्वचिद्देशे, जिनेशपदपावनं । स किंचित्तीर्थमाश्रित्य, दुस्तपं तपते तपः ॥५०॥ तथेनं तपसा | क्लांत-मनन्यमनसं तु यत् । विलापविकलं चैव-मुपेक्षेऽहमलक्षणा ॥ ५१ ॥ ततः प्रक्षीणदा-| | क्षिण्यो, निस्त्रपैकशिरोमणिः । अत्यंतमकृतज्ञश्च, कोऽपि नास्त्येव मत्समः ॥ ५२ ॥ परं वाग्भिरमा| त्यस्य, गाढं निगडिता सती । पदमप्यधिकं नाहं, ददामि च वदामि च ॥ ५३ ॥ इति प्राप्तप्रियो- 81
॥१३०॥ दंत-परमानंदमानसा | मठमागत्य साऽनैषी-धर्मभ्यानेन तां निशां ॥ ५४॥ विहायसि विहंगाना, |
Page #133
--------------------------------------------------------------------------
________________
मृगावती ॥ १३१ ॥
04
कुलाय गमनात्मकं । व्यवसायं नृपः स्वायं, पश्यन्नाप स्वमास्पदं ॥ ५५ ॥ जिनं नाभेयमभ्यर्च्य, स बाह्याभ्यंतरं शुचिः । नृपः समाधिमाधत्त, निस्तरंगमनाः पुरः ॥ ५४ ॥ एकतानमनस्यस्मिन्नकस्मादात्तविस्मयं । अदभ्रं गर्भगेहांत — रुद्योति ज्योतिरुययौ ॥ ५७ ॥ तेजःपुंजादतो मंजु - मूर्ति - स्फुर्त्तिपरः पुमान् । निर्गत्यात्यंतनिष्कंपं, साऽनुकंपस्तमभ्यधात् ॥ ५८ ॥ विष्टपाधिप तुष्टोऽस्मि, वृणीध्व वरमंजसा । एतस्य त्रिजगद्भर्त्तु — रुपास्तिफलमाप्नुहि ॥ ५९ ॥ जिनस्योपास्तिकर्तॄणा - मनुग्रहकरस्त्वहं । पत्तिरेतस्य संजातो, गोमुखः सन्मुखस्तव ॥ ६० ॥
अथ क्रमेण पारीणः, समाधेस्तोयधेरिव । स्थिरं व्यापारयामास नृपश्चक्षुरुपांततः ॥ ६१|| स लोलकुंडलं हारि-हारमंडितमेकतः । पुनस्तदेव जल्पतं, यक्षमध्यक्षमैक्षत ॥६२॥ प्रीतिमंतं तमालोक्य, जगाद जगतीपतिः । अस्ति यक्ष जिनोपास्तेः फलं निःश्रेयसश्रियः ॥ ६३ ॥ विवेकहेवाकवतां, न स्पृहा स्वैहिके फले । इत्युक्त्वा विरते राज्ञि, यक्षोऽभाषिष्ट सादरं ॥ ६४ ॥ अमोघं हि महीनाथ, देवतादर्शनं भवेत् । अतः किंचिद् वृणीष्वेति, यक्षोक्त्या सोऽब्रवीत्पुनः ॥ ६५ ॥ यद्येवं तत्समं देव्या,
चरित्रम्
॥ १३१ ॥
Page #134
--------------------------------------------------------------------------
________________
मृगावती ॥१३२॥
साम्राज्यं पुनरस्तु मे । इति तस्य वचः श्रुत्वा, वक्तुं यक्षः प्रचक्रमे ॥ ६६ ॥ एवमस्तु परं राजन्, सुतां माहिष्मतीपतेः । विवाहय ततोऽवश्यं, देवीं राज्यं च लप्ससे ॥६७॥ परिणेतुर्यतो हेतु - जंगलक्ष्म्याः स्वलक्षणैः । पद्मावतीति व्याहृत्य, मंक्षु यक्षस्तिरोदधे ॥ ६८ ॥ तथैव तस्थुषस्तस्य, पश्यतो जिनपुंगवं । आनंदनिःस्यंदमयी, सा विभाता विभावरी ॥ ६९ ॥ व्यलीयत तमः सर्व, विष्टपस्य वनस्य च । पूर्वस्यां च तदास्ये च तुल्यमुल्लसिता द्युतिः ॥ ७० ॥ अक्षतैः शुचिभिः पूर्ण, स्वर्णस्थालमिवामलं । तदानीं रविमादाय, तं दिनश्रीरुपस्थिता ॥ ७१ ॥ स्ववस्तिक इवानंदी, प्रातविविधवीरुधां । आददानः सुमनसः पवमानस्तमभ्यगात् ॥ ७२ ॥ ततो वसंतकानीतै— विनीतः कुसुमैः प्रभोः । पूजां निवर्त्तयामास, मेदिनीशः प्रगेतनीं ॥ ७३ ॥ निशा वृत्तांतमावेद्य, सोऽन्वयुक्तं वसंतकं । रंगभंगे कृतेऽस्माभि - वेंत्सि तस्या बभूव किं ॥ ७४ ॥
विषण्णोऽथ महीनाथं, व्याजहार वसंतकः । तदैव देव विज्ञातं, स्वतः किंचिदिदं मया ॥ ७५ ॥ आये यथास्या वैवर्ण्य, दृशोर्वाष्पोद्गमो यथा । तथा मन्येऽपमानेन, मानसेऽस्याः कृतं पदं ॥ ७६ ॥
चरित्रम्
॥ १३२॥
Page #135
--------------------------------------------------------------------------
________________
*
मृगावती ॥१३३॥
@
@
@
मनसाभीप्सितात्पत्यु-रवमानतया तया । न वेद्मि सेयं जीवंती, पुनदृश्येत वा न वा ॥ ७७ ॥ चरित्रम् अभ्युपेतेन पुष्पेभ्यः, प्रातरय वने मया । दृष्टा चंपकमाला च, भ्रमंती संभ्रमाकुला ॥७८॥ म्लाना चंपकमाले त्वं, मालेव किमु दृश्यसे । इति व्याजेन पृष्टासी, ममाचष्टेस्म गद्दं ॥ ७९ ॥ तदा नः स्वामिनी तेन, स्वामिना तेऽपमानिता। गत्वा निःसहमात्मानं, पर्यंके पर्यमुंचत ॥ ८० ॥ स्वतापेन प्रियस्यांत-र्दाहभीरुरिवाभितः । हृदयं स्रवदश्रांभः-संभारेण सिषेच सा ॥ ८१ ॥ तत्रापि रतिम- | प्राप्य, मृणालीमालभारिणी। सरोजस्रस्तरे शस्ते, निःसहांगमशेत सा ॥ ८२ ॥ उष्मलांगपरिष्वंग- 16 मात्रेणापि क्षणात्तया । स्रस्तरः स समस्तोऽपि, निर्ममे मुर्मुरोपमः ॥ ८३ ॥ चंद्रिका च जलार्दा च, नास्यास्तापमलंपतां । चंदनव्यजनी व्यक्तं, वीज्यमाना मया तदा ॥ ८४ ॥ सा न चक्रंद नोवाच, नाकुलं विललाप च । मोनेन केवलं तस्थौ, किंचिनिश्चित्य चेतसि ॥८५॥ नवीनशयनीयाय, याव-18
प्रत्यग्रपल्लवान् । आनयामि न पश्यामि, तावत्तां तत्र त्रस्तरे ॥ ८६ ॥ ध्रुवं तेनापमानेन, मलिनं । |हंत जीवितं । त्यक्तुं क्वापि प्रयातासौ, वोक्षे तत्तामितस्ततः ॥ ८७ ॥ ततोऽहमेवं संभाव्य, स्त्रीह-19
@
@
@
॥१०
Page #136
--------------------------------------------------------------------------
________________
मृगावती | त्यापातकं तव | आत्तपुष्पस्त्वदभ्यणे, त्वरितं समुपागमं ।। ८८ ॥ ततः श्रुत्वेति वृत्तांतं, तदुदंतो- चरित्रम् ॥१३४॥
| पलब्धये । वसंतकेन सहितो, धावतिस्म धराधवः ॥ ८९ । ताभिस्ताभिः स वार्ताभि-वर्तनोम- | | तिवर्तयन् | पद्मावतीपवित्रं भू-प्रदेशमविशत्क्षणात् ॥ ९० ॥ इतो वासवदत्तापि, प्रातर्जागरिता |
सती। पद्मावती गता क्वापी-त्याकान्वेषयद्वने ॥ ९१ ॥ क्रमादन्वेषयंती च, सापश्यत्पार्थिवं | | पथि । हर्षात्कांचनमालां च, फुल्लचक्षुरवोचत ॥ ९२ ॥ तिथिरद्यातिथिः श्रीणा-मद्य वारो वरो हले ।।
पवित्रमद्य नक्षत्र-मार्यपुत्रो यदीक्षितः ॥ ९३ ॥ आर्यपुत्रेण यत्तप्तं, मत्संगैकफलं तपः । तन्म| माऽभूदगाधोऽय-माधमर्ण्यमहार्णवः ॥ ९४ ॥ एतस्य वपुराख्याति, क्षामं मद्विरहव्यथां । यद्दाल्यं | | निर्विकल्पस्य, प्रेम्णः सर्वमिदं सखि ॥ ९५॥ अद्यापि जागरूकाणि, मम भाग्यानि कानिचित् ।। | यदार्यपुत्रो जीवत्या, जीवन्नेव मयेक्षितः ॥ ९७ ॥ शृण्वती वचनान्यस्य, पश्यंति रूपमस्य च ।।
पादपांतरिता नेष्ये, श्रोत्रनेत्रे कृतार्थतां ॥ ९८ ॥ एवमुक्त्वा तथा चके, स्नेहाद्वासवदत्तया । यथा ॥१३॥ म तथापि हि प्रेयान्, प्रेयसीनां प्रियंकरः ॥ ९९ ॥ तदानीं वार्तयामास, नृपोऽप्यथ वसंतकं । जाने |RI
Page #137
--------------------------------------------------------------------------
________________
मृगावती
॥१३५॥
| कृशानुना तेन, दग्धा देवी दुरात्मना ॥ १०० ॥ मुनिभिर्देवतैश्चाह-माश्वस्येव मुहुर्मुहुः । सखे । चरि | प्रद्योतजा देवी, व पुनमें मिलिष्यति ॥ १ ॥ किं चैतदपरं दुःखं, यड्डाहलेशनंदिनी । अधुनांतर्वणं | क्वापि, हत्यां मे दातुमुद्यता ॥ २ ॥ तदैवाथ स शुश्राव, स्वामिनी हा विपद्यते । सोऽस्ति कश्चिद्य | एतस्या-स्त्रातेति तुमुलं ध्वनि ॥ ३॥ ध्वनेस्तस्यानुसारेण, धावन्नेष व्यलोकत । माऽतस्तात | महाबाहो, स्मर्तव्येयं सुतात्मनः ॥ ४ ॥ अमीषां फलमुग्राणां, तपसामस्ति चेत्तदा । वत्सेश्वरः प्रियो | मेऽस्तु, प्रेत्यापीत्युक्तिपूर्वकं ॥ ५॥ रसालतरुशाखायां, बद्धपाशावलंबिनीं । अम्लानवदनांभोज
युतां पद्मावतीं पुरः ॥ ६ ॥ त्रिभिर्विशेषकं ॥ अनेन साहसेनाल–मलं बाले ब्रुवन्निति । ततोऽसि. | धेनुमाकृष्य, भूपतिः पाशमच्छिदत् ॥ ७॥ बाष्पक्लिन्ननिजक्षौम-पल्लवव्यजनानिलैः । उपवोज्य स्वयं तस्या । मूर्छाछेदं चकार सः ॥ ८॥ अथ सा स्वास्थ्यमास्थाय, पश्यंती जगतीपतिं । किमपि व्याकुलीचक्रे, हर्षोंत्सुक्यत्रपाभरैः ॥ ९॥ प्रियास्पर्शरसज्ञत्वे, चिरादात्मानमानयन् । बाहुभ्यामव- |
॥१३५॥ लंब्यैना-मभ्यधावसुधाधिपः ॥ १० ॥ न स्मर्त्तव्यः सरोजाक्षि, पूर्वेद्युर्विहितो मया । अपमानस्त्वया
Page #138
--------------------------------------------------------------------------
________________
मृगावती
॥ १३६ ॥
प्रेम, प्रेक्षते हि न विप्रियं ॥ ११ ॥ अद्यप्रभृति कल्याणि, तपोभिस्ते वशंवदः । कृतोऽस्मि तत्फले प्राप्ते, पर्याप्तं तैरतः परं || १२ || अपि दास्यं त्वदास्यस्य, शीतांशुः स्पृहयन्नयं । शंके कथंचिदप्राप्य, लज्जितो गगनं ययौ ॥ १३ ॥ उत्पलैस्तव नेत्राभ्या - मभ्युपेत्य पराजयं । श्यामीभूतैर्जलस्यांत—- पापातो व्यतन्यत ॥ १४ ॥ स्वाधीनेऽपि सुधासिंधौ, त्वद्वचोऽपरनामनि । विदधे विबुधैर्नूनं, मिथ्यापाथोधिमंथनं || १५ || मुनीनां देवतानां चा-मोघां वाचं समर्चये । दत्ता वासवदत्ता मे, | ददता त्वां च वेधसा ||१६|| पद्मावती तदाकर्ण्य, लेभे मुदमुदित्वरीं । दत्तसादं विषादं च, प्रद्योत - नृपनंदीनी ॥ १७ ॥ अंशवो हि सहस्रांशोः, पंकजिन्याः प्रियंकराः । तेऽप्यहो कैरविण्यास्तु, नितरामप्रियकराः ॥ १८ ॥
अत्रांतरे जराग्रस्त-समस्तांगः शनैः शनैः । एत्यैकः कंचुकी कंप्रः पृथिवीपतिमब्रवीत् ॥१९॥ वत्सेश त्वां महाबाहु — नृपः प्रार्थयतेऽधुना । इयं नो दुहिता तावत्वामेव पतिमीहते ॥ २० ॥ अस्यास्तदिच्छां वत्सेश, सफलीकर्तुमर्हसि । प्रतिश्रुते त्वया कर्म, कुर्मो वैवाहिकं वयं ॥२१॥ इत्यु
चरित्रम्
1
॥१३६॥
Page #139
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
॥१३७॥
| क्तवंतमौत्सुक्या-तमुवाच वसंतकः । गत्वा ब्रूहि माहाबाहु-महीपालं प्रमोदतः ॥ २२ ॥ यथासौ वत्सराजेन, सर्वेऽप्यर्थः प्रतिश्रुतः। तेनेत्युक्तोऽपि भृभर्तुः, कंचुकी मुखमैक्षत ॥ २३ ॥ नृपोऽप्यूचे प्रमाणं नः, सर्वत्रार्थे वसंतकः । कदाचनापि नास्माक-मुल्लंघ्य वचनो ह्यसौ ॥ २४ ॥ राज्ञोऽप्येत- 10/ न्मतं ज्ञात्वा, प्रीतः प्रोवाच कंचुकी । गमनायानुजानीहि, राजन् राजसुतामपि ॥ २५ ॥ येनाद्य विजयो नाम, योगो धाम सुखश्रियां । विवाहमंगलारंभ-मस्मिन्ननुभवत्वियं ॥ २६ ॥ इतो लग्नं ग्रहर्दिष्टं, सप्तभिः सप्तमे दिने । विधिवा यत्र संयोज्य-कीर्त्या संयोक्ष्यते स्वयं ॥ २७ ॥ इत्युक्ते तेन भूपालः, प्राह पद्मावतींप्रति । राजपुत्रि यथाभीष्टो, विधिः सवों विधीयतां ॥ २८ ॥ प्रतस्थे | साज्ञया राज्ञो, मंद मंदं स्खलदतिः । तादृशामीदृशप्रेम्णां, दुस्त्यजः प्रियसन्निधिः ॥२९॥ तत्र नेत्रातिवर्त्तिन्यां, शून्यः स्थित्वा क्षणं नृपः। किमत्र मित्र नः कार्य-मिति देवालयं ययौ ॥ ३० ॥ प्रद्योतपुत्री श्रुत्वेदं, खेदेनोवाच कांचनां । दृष्टव्यमधुना दृष्टं, श्रोतव्यं च श्रुतं मया ॥ ३१ ॥ अभृत्प- IRID१३७॥ द्मावतीलाभो, यतोऽस्य तपसां फलं । ततः सांप्रतमादृत्यो, मृत्युर्वासवदत्तया ॥ ३२ ॥
Page #140
--------------------------------------------------------------------------
________________
सृगावती
॥१३८॥
प्रद्योतजाथ जगदे, तदा कांचनमालया । मास्मगा देवि निर्वेद - मनिर्वेदः श्रियां पदं ॥३३॥ दृश्यतामवधिर्देवि, देवस्य सचिवस्य च । अपकारेऽपि मास्मैवं दर्शयाविधिमात्मनः ॥ ३४ ॥ समं सुबाहुसुतया, गुप्ताकारेंगिता सती । विवाहं पश्य देवस्य, रक्षंती चक्षुरादरात् ॥ ३५ ॥ तदेहि देवि गच्छंत्या, गम्यते सममेतया । इति कांचनया निन्ये, पद्मावत्यंतिकेऽथ सा ॥ ३६ ॥ कथं सखि चिराद् दृष्टे - त्यालप्य स्नेहनिर्भरं । पद्मावती तदाचख्यो, सर्वं प्रद्योतजन्मनः ॥ ३७ ॥ सखि त्वत्कांक्षिते सिद्धे, सिद्धं मे सर्वमीप्सितं । इत्यवंतीशनंदिन्या, वचसा साऽभ्यनंद्यत ॥ ३८ ॥ तत्राथ सहवास्तव्यं, जनमापृच्छ्य वत्सला । पद्मावती ययौ पुर्यां समं वासवदत्तया ॥३९॥ सोधमागत्य सा भक्त्या, पित्रोः पादाववंदत । तौ भवेवरपत्नीति, तथ्यां ददतुराशिषं ॥ ४० ॥ नयविक्रमसंपन्नः, क्क मे बंधुः सुदर्शनः । इति पृष्टस्तया हृष्टो, विष्टपाधीश्वरोऽवदत् ॥ ४१ ॥ अस्मै पत्ये यदा पुत्रि, तपस्तप्तुं | वनेऽभ्यगाः । रुमण्वांस्तस्य सेनानी - स्तदानीं मामुपागमत् ॥ ४२ ॥ उत्पाटयामि पांचालं, नद्योघ इव पादपं । त्वं घनः स्याः सहायश्चे – देवं मे स व्यजिज्ञपत् ॥ ४३ ॥ ततः सारबलः सोऽयं,
चरित्रम्
॥ १३८ ॥
Page #141
--------------------------------------------------------------------------
________________
मृगावती
@
@
न्यायादर्शः सुदर्शनः । कौशांबी प्रहितोऽस्माभिः, समं तेन रुमण्वता ॥४४॥ भर्तुरभ्युदयोंकार-मद्य चरित्रम् श्वो वा सुलक्षणे । पंचालविजयोदंतं, कर्णोत्तंसीकरिष्यसि ॥ ४५ ॥ ततो विहितसंभारे-वैवाहिककुतूहलैः । मान्याभिः कुलवृद्धाभिः, सा सम्यक् समयोज्यत ॥ ४६॥ वनाद्वत्सेशमाहूय, प्रतीहार-IP मुखात्ततः । प्रासादे स्थापयामास, जन्ययात्रोचिते नृपः ॥ ४७ ॥ प्रेमैकलग्नके लग्ने, तावन्योऽन्य-141 | मनोहरौ । आडंबरेण महता, महाबाहुर्व्यवाहयत् ॥ १८ ॥ ततो माहिष्मतीनाथः, कोशांबोभर्तुरा-IN | दरात् । अर्चामत्यद्भुतां चक्रे, पाणिमोचनकर्मणि ॥४९॥ तदा वासवदत्तापि, तमपश्यत्तिरोहिता । रम्यैरुलूलकल्लोले, कलितोत्साहमुत्सवं ॥ ५० ॥ वधूवरस्य तस्यैवं, सत्यानंदमये महे । कौशांब्याः | पवनो नाम, वेगादागान्निजः पुमान् ॥ ५१ ॥ पांचालः पंचतां नीतः, कौशांबो घ करे धृता । वर्द्धसे | देव दिष्टयेति, स वत्सेशमवीवृधत् ॥ ५२ ॥ एतद्विस्तरतो भद्र, श्रोतुमिच्छामि संप्रति । एवमा- 10 ज्ञापितो राज्ञा, मूलतः स व्यजिज्ञपत् ॥ ५३ ॥ निदेशेन महाबाहोः, सह तेन रुमण्वता । उपाग-DI त्योपकौशांबि, समवासीत्सुदर्शनः ॥ ५४ ॥ अंभः कृतपरीरंभ, तन्मातंगमदांबुभिः । कलयामास का
@O
P१३९॥
04
Page #142
--------------------------------------------------------------------------
________________
मृगावती
॥१४०॥
400000.00
| लिंयाः, पुनरुक्ताऽसितां द्युतिं ॥ ५५ ॥ सिकताकोमले स्वैरं, तस्याश्वीयेन वेल्लता । कालिंदीपुलि-10
चरित्रम् | नेऽपोहां-चक्रे चंक्रमणक्लमः ॥ ५६ ॥ तत्र मजच्चमूचारु-लोचनास्तनचंदनैः। तत्राप्यार्मि| वद्गंगा-संगेव यमुना बभौ ॥ ५७ ॥ कालिंदोसीकरासार-सारवाही समोरणः । श्रमव्यपगमा|चक्रे, युद्धश्राद्धभुजो भटान् ॥ ५८॥ . ___ अथ पंचालभूपालः, सिंहनादेन रोदसीं । पूरयन्निर्ययौ पुर्या, गुहाया इव केसरी ॥५९॥ सहा- | | नीकमनोकिन्या, सरंगश्चतुरंगया । अरौत्सीदुत्सुको योन्धु, स दुर्द्धर्षः सुदर्शनं ।। ६० ॥ स्वीकृतोच्च-IN रणारंभः, ससंरंभः सुदर्शनः । अतुच्छशौर्यः प्रत्यैच्छ—च्छरभो रभसेन तं ॥ ६१ ॥ शरं धनुषि - संधाय, वधाय तव वैरिणः । सुदर्शनः पुनर्धावन् , प्रत्यषेधि रुमण्वता ॥ ६२ ॥ बभाषे च भटोत्तंस, यदेतद्गगनांगणे । रजः कपोतपोताभ, पूर्वस्यां दिशि दृश्यते ॥ ६३ ॥ तन्मन्येऽनन्यसामान्यौ, सुतौ प्रद्योतभूपतेः । बलैगोपालपालाख्या-वभ्यायातस्तरस्विभिः ॥ ६४ ॥ ततः क्षणं प्रतीक्षस्व, कुमार ॥१४०॥ | स्फारविक्रम । इति तस्मिन् वदत्येव, ध्वजैर्यातं दृशोः पथि ॥ ६५ ॥ ततोऽनलगिरिर्नाम, गजर
Page #143
--------------------------------------------------------------------------
________________
मृगावती १४१॥
| नमदृश्यत । बलं मालविकं सर्व-मथ वेगादुपागमत् ॥ ६६ ।। एकतो देव सन्नद्ध-सर्वसैन्यः । चरित्रम् | सुदर्शनः । अन्यतः पालगोपालौ, रिपुमावृत्य तस्थतुः ॥ ६७ ॥ अनीकान्यभितः पश्यन्, स शौं| डीरशिरोमणिः । पंचालपृथिवीपाल–३चुक्षोभ न मनागपि ॥ ६८ ॥ प्रत्युताननमुत्फुल्ल-मंग| मुत्पुलकांकुरं । बभूव तस्य सन्नाहः, संत्रुटत्संधिबंधनः ॥ ६९ ॥ गोपालाध्युषितस्याथ, विंध्यशैलस- 1
माकृतेः । कृतोऽनलगिरेस्तेन, स्वकीयः संमुखः करी ॥ ७० ॥ शिलासंघातनामानं, महेभमधित- 10 | स्थुषः । सुदर्शनस्य सांमुख्यं, गजेनास्यानुजो ययौ ॥७१॥ प्रभुभिः श्लाध्यमानानां, कुंताकुंति शरा
शरि । तेषां बलानामन्योऽन्यं, ववृते दारुणो रणः ॥७२॥ हेषितैः पोषितोऽत्यंतं, बंहितैरुपबंहितः। | तदानीं व्यानशे दूरा-दिशो निःस्वाननिःस्वनः ॥७३॥ रणतूर्यानुगामी च, रणरंगोद्भटै टैः । वितेने || | मंडलाग्राणां, तांडवाडंबरस्तदा ॥ ७४ ॥ भटः प्रतिभटं कश्चि-पुनराहंतुमुद्यतं । आदायासिमनायासं, पतितोऽपि न्यपातयत् ॥ ७५ ॥ येनारिणा शिरश्छिन्नं, तत्र शूरस्य कस्यचित् । तं हत्वा |R॥१४॥ तत्कबंधेन, वैरनिर्यातनं कृतं ॥७६॥ अनीकं नैकमन्येन, शौंडीर्यादत्यशय्यत। तज्जयश्रीः श्रमं प्राप-161
Page #144
--------------------------------------------------------------------------
________________
@
@
@
मृगावती | दुभयत्र गतागतैः ॥ ७७ ॥ एक एव विशेषोऽभू–तदारातिबले महान् । कुतोऽप्यागत्य यद- चरित्रम्
| गृढे रेकच्छायमतन्यत ॥ ७८ ॥ सुदर्शनकुमारेण, सेनान्या च रुमण्वता । ततः प्रापि च पंच-10 ॥१४२॥
| त्वं, पंचालक्षितिपानुजः ॥ ७९ ॥ अथास्मिन्नंतरे योg, कश्चिदावंतिकाबलात् । गंधसिंधुरमारूढः, |
प्रोढश्रीः समुपागतः ।।८०॥ शौंडीर्यात्तिर्यगागत्य, शरं संधाय धन्वनि । पंचालमवनोपालं, स साक्षे | |पमवोचत ॥ ८१ ॥ शून्यामालंब्य कौशांबी, किमु पांचाल दृप्यसि । किं गुहायामसिंहायां, स्फुरंति | न हि फेरवः ॥८२॥ असि त्वं हास्तिकप्राय-पृतनः पृथिवीपतिः । वत्सेश्वरस्य भृत्येषु, संख्यायाः |
पूरकस्त्वहं ॥ ८३ ॥ ततो वत्सेशभृत्यस्य, पंचालाधिपतेस्तथा । द्वयोरायोधनेऽमुष्मि-नंतरं ज्ञास्य-| तेऽधुना ।। ८४ ॥ यतोऽपराधी कौशांब्या, जातोऽस्युपपतिस्ततः । प्रायश्चित्तप्रदस्तुभ्यं, तदेष विशिखोऽस्तु मे ॥ ८५ ॥ इत्युक्त्वाथ रिपुं कोपा-द्वजधारदृढं तदा । मुदा मुमोच नाराचं, भवद्गृह्यः | स कश्चन ॥ ८६ ॥ शरः प्रविश्य वामेन, कुक्षिणा दक्षिणेन च । निर्ययो वैरिणः कुर्व-नात्मानु |॥१४२॥ पदिकानसून् ॥८७॥ आत्मीयानां परेषां च, सैनिकानां मुखेंदुषु । ज्योत्स्ना च दर्शरात्रिश्च, संजाते
@
@
@
Page #145
--------------------------------------------------------------------------
________________
मृगावती
॥ १४३ ॥
I
युगपत्तदा ॥ ८८ ॥ कृतेऽरिनिग्रहे तस्मिन् विस्मितैः सैनिकैर्दृशः । व्यापारिताः परं वर्मा-च्छादितोऽसौ न लक्षितः ॥ ८९ ॥ ततः पंचालसप्तांगी - मंगीकृत्य रुमण्मता । सराजन्येन कौशांबी, गत्वा मध्यमधिष्टिता ॥ ९० ॥ तदेतस्य स्वरूपस्य, वेगतो भक्तिमानिना । विज्ञापनाय देवस्य, प्रहितोऽस्मि रुमण्वता ॥ ९१ ॥ सोत्कंठो देवपादाना-मवदातपराक्रमः । अचिरेणैव सेनानीः, स्वयं सोऽपि समेष्यति ॥ ९२ ॥ इत्याख्यातवते तस्मै, वसनाभरणादिकं । वत्सराजः समुद्वृद्ध - प्रमोदः प्रददौ तदा ॥ ९३ ॥ नृपं निवेदयामासुः कालं वैतालिकास्तदा । संध्या माध्यंदिनी चेयं, सुखाय तव जातां ॥ ९४ ॥ दत्वा क्षोणीभृतां मूर्ध्नि, पादानुद्दाममंडलः । गभस्तीनां पतिस्तेज -स्तनोति | त्वमिवाधुना ॥ ९५ ॥ गिरं कर्णातिथोकुर्वं - स्तामानंदेन बंदिनां । आहूयत महाबाहु - पुरुषैर्भुक्तये नृपः ॥ ९६ ॥ ततो रचितदेवार्चः, श्वसुरेण सगौरवं । वत्सानामीश्वरः प्राज्यै-र्नानाभोज्यै र भोज्यत ॥९७॥
उपांतविहितोन्निद्र - मंद्रसंगीत संपदि । विश्राम्यतिस्म पल्यंके, स पल्यंको नृपः श्रियः ॥९८॥ तदा पद्मावती पत्यु — योदाहरणं रहः । आख्यातिस्म सखोस्नेहा - प्रद्योतदुहितुः पुरः ॥ ९९ ॥
चरित्रम्
॥ १४३ ॥
Page #146
--------------------------------------------------------------------------
________________
चरित्रम
मृगावती
॥१४४॥
अवंतीशसुताप्येता-मश्लाघत यथा सखि । सुलक्षणाऽसि यद्भर्तृ-रूढेवाभ्युदयं व्यधाः॥१०॥ तयेत्थं प्रस्तुतश्लाघा, चेदिराजतनूरुहा । व्यज्ञप्यत कुतोऽप्येत्या-द्भुतं चंपकमालया ॥१॥ येन | न्यासीकृता पूर्व-मियं प्रियसखी तव । देवि स्मेरमुखांभोजः, स द्विजो द्वारि वर्त्तते ॥ २ ॥ मुंचेति । वचसा देव्याः, सा तं प्रावीविशत्ततः । न्यवीविशच्च सौत्सुक्य-मानोते स्वयमासने ॥३॥ इयमार्य नमस्यामि, भवंतमिति वादिनी। प्रणयान्नमयामास, तस्य पद्मावती शिरः ॥ ४ ॥ भवेरविधवा नित्यं, मुदा भूपालनंदिनि । इत्याशास्य प्रसन्नास्य-स्तामभाषत स द्विजः ॥ ५॥ समपयंत पद्माक्षि, सर्वा मे कार्यसिद्धयः । तदिदानीं सतीसारं, स्वसारं मे समर्पय ॥ ६ ॥ अभूस्त्वं च ममाशीभिर्यथा पूर्णमनोरथा । पत्या निजेन संयुज्य, तथेयमपि जायतां ॥ ७॥ तेनेत्युक्ताथ व्यक्ताश्रु-रूचे पद्मावती सखि । सुचिरं सजनैयोंगं, सहते न हतो विधिः ॥ ८॥ आकारयति | बंधुस्त्वां, भर्तुः संगाय गम्यतां । एवं वासवदत्तां सा, विससर्ज कथंचन ॥९॥ ततोऽल्पेतरसंकल्पा
Mal॥१४४॥ |-मतिम्लानमुखांबुजां । प्रद्योतजामुपादाय, ययौ यौगंधरायणः ॥ १० ॥
Page #147
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती वत्सेश्वरोऽथ संध्यायां, कृतसंध्याविधिक्रमः। पद्मावत्यासमं रम्यं, वासागारमुपागमत् ॥११॥ IPI मुक्तपल्यंकमालोक्य, प्रातरुन्मनसं नृपं । समुवाच वचोयुक्ति-रत्नयुक्तो वसंतकः ॥ १२ ॥ प्रियां
प्रेमवतीं प्राप्तः, पूर्वराज्यश्रियं तथा । तथाप्येवं कथं देव, नितरां दुर्मनायसे ॥ १३ ॥ इति पृष्टः | क्षितेर्भर्त्ता, व्याकर्तुमुपचक्रमे । वयस्य दोर्मनस्यं मे, किं जानन्नपि पृच्छसि ॥ १४ ॥ किं लक्ष्म्या किमु कौशांब्या, पद्मावत्याथवा किमु । मम मानसविश्राम-धाम प्रद्योतजा न चेत् ॥ १५ ॥ किं | चाद्य तां पुरस्कृत्य, किंचित्स्वप्नायितं मया । सुमुखी विमुखीभृता, महाबाहोः सुताप्यतः ॥ १६ ॥ | तद्भातरुभयभ्रष्टो, जीवितुं न क्षणं क्षमः । गत्वाग्रे गोमुखस्यैव, ततोऽसून विसृजाम्यहं ॥ १७ ॥ | इत्युक्त्वाचलदुर्वीभृ-न्नाभेयभवनंप्रति । वर्धमानमनोमन्यु-रन्वगात्तं वसंतकः ॥ १८ ॥ वंचयि- | त्वाथ भूनाथ, स किंकर्तव्यताजडः । रहः संमुखमागत्य, प्रोचे कांचनमालया ॥ १९ ॥ विभाति मे | भवन्मंतः, पर्यंतविरसोऽधुना । अगाधर्मबुधिं तीर्खा, गोष्पदे यन्निमज्जथ ॥२०॥ भद्रे कथमिवेत्युक्ता, तेन साऽकथयत्पुनः । देवी स्वांतिकमानीता, मंत्रिणा यस्तने दिने ॥ २१ ॥ निपत्य पादयोस्तेन,
@@@2004
000000
॥१४५॥
Page #148
--------------------------------------------------------------------------
________________
मृगावती
॥ १४६ ॥
सा व्यज्ञप्यत सादरं । क्लेशोऽयमादृतो देवि, सर्वो मद्वयसा त्वया ॥२२॥ कल्याणि फलितः सोऽय, राज्यस्य पुनराप्तितः । तद्देवस्य स्वसंगेन, राज्यलक्ष्मीं कृतार्थय ॥ २३ ॥ ततः प्रयोतजा देवी, बद्धरोषाऽवभाषत । पर्याप्तं प्रश्रयालाप - प्रलापैरेभिरार्य मे ॥ २४ ॥ अपकृत्येति नीतिज्ञ, यदियं विनयक्रिया । तदिदं नासिकां लूत्वा, दुकूलेन प्रमार्जनं ॥ २५ ॥ पद्मावतीमिमां यत्ता - सपलीं मम कुर्वता । साधु साधु त्वयामात्य, कृते प्रतिकृतं कृतं ॥ २६ ॥ शंकरायाः प्रयोगो हि नियतं त्वन्निबंधन: । यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः ॥ २७ ॥ ममैतत्तु दिवानक्त - मंतः प्रथयति व्यथां । अभूवमार्यपुलस्य, यदहं क्लेशहेतवे ॥ २८ ॥ अयं हि कंटकाकीर्णा - मरण्यानीमशिश्रयत् । मत्कृते च क्षुधोदन्या-भवमन्वभवरमं ॥ २९ ॥ त्वदीयवचसा राज्यं त्यजंत्यां मयि सर्वथा । अगाधे व्यसनांभोधी, प्रेमसज्जो ममज्ज सः ||३०|| तदेषाहमनेकेषां दुःखानामस्य कारणं । सांप्रतं प्रोषि - तेष्वेषु, सिद्धं मे पुनरीप्सितं ॥ ३१ ॥ इदानीं यदसौ जज्ञे, राज्यलक्ष्मीस्वयंवरः । पद्मावतीनवप्रेमां - भोरुहभ्रमरायितः ॥ ३२ ॥ प्रपद्यंते यतः पत्यु – दुःखे दुःखं सुखे सुखं । सहोदयव्यथाः शश्व
चरित्रम्
॥ १४६ ॥
Page #149
--------------------------------------------------------------------------
________________
मृगावती ०/–द्योषितः पतिदेवताः ॥ ३३ ॥ तीर्थं गत्वार्यपुत्रस्य, तपोभिः पावनीकृतं । साधीयं साधयाम्येषा, चरित्रम्
INI तदहं स्वसमीहितं ॥३४॥ अभिधायेति तत्तीर्थ-मभिसंधाय सत्वरं । चलिता गलितानंद-मित्यूचे ॥१४७॥
व सचिवेन सा ॥ ३५ ॥ देवि प्रसीद सीदंति, मादृशाः सरुषि त्वयि । चंद्रिकायामसांद्रायां, दुनोत्येव | चकोरकः ॥ ३६॥ हितकारी न हेयः स्याद्, दूरं दुःखाकरोऽपि चेत् । निदोष एव दोषज्ञो, रोगिणं | लंघयन्नपि ॥ ३७ ॥ तदेते तव भर्तुश्च, तव चोन्नतिहेतवे । ममापराधाः सर्वेऽपि, पर्वेदुमुखि जज्ञिरे ॥३८॥ पद्मावत्याः पतियः स्या-त्स लब्धा सार्वभौमतां । इति नैमित्तिकस्तथ्य–मादिदेश ममै- III कदा ॥३९॥ भर्तुरभ्युदयोत्कर्ष-प्रथमानमनोरथः। ततः पद्मावतीयोग-प्रयोगमहमावहं ॥४०॥ | एवमप्यपराधश्चे-त्वया मनसि मन्यते । युगंधरसुतस्यापि, मरणं शरणं ततः ॥ ४१ ॥ इत्युक्तापि | | यदा देवो, ददौ किंचन नोत्तरं । मृत्यवे सचिवस्तस्या, निश्चिक्ये निश्चयं तदा ॥ ४२ ॥ सुविमर्ष ||
शुभोपाय-मात्मीयं मंत्रनाटकं । दृष्ट्वा विरसनिर्वाहं, मंत्री खेदमुपाददौ ॥ ४३ ॥ ततो देवीममात्यं | L१४॥ Mच, मरणैकविनिश्चयो । विज्ञाय व्याकुला वेगा-दागतास्मि तवांतिकं ॥४४॥ आगत्य तत्र चेदेवो, AI
Page #150
--------------------------------------------------------------------------
________________
मृगावती ॥१४८॥
| देवीमनुनयत्यसौ । संभाव्यते शुभोदर्का, भवन्मंत्रास्तदा यदि ॥ ४५ ॥ इदमाद्रियते देवो-ऽप्यथे. दानी तथा कुरु । ते ह्याप्ता यानपात्राणि, ये प्रभोर्व्यसनार्णवे ॥ ४६॥ इति व्याहृत्य विरतां, ताम-10 वाच वसंतकः । तदेतत् कुर्वतः शांति, वेतालोत्थानसन्निभं ॥ ४७ ॥ देवोऽपि विरहे देव्या, राज्यं । संत्यज्य दूरतः । पुनर्गत्वा तपस्तीर्थे, प्राणान् परिजिहीर्षति ॥४८॥ तत्रोपेतः समं देव्या, देवः | संयोक्ष्यते स्वतः। अन्योऽन्यानुनयं चैतौ, प्रेमैवाध्यापयिष्यति ॥४९॥ तत्त्वं व्रज जवाद्भद्रे, मा विद्रा-10 णमुखीस्म भूः । यतेथास्तु तथा किंचि-यथा देवी विलंबते ॥ ५० ॥ एवमाश्वासिता तेन, वेगा-| | वनमुपेयुषी । वत्सराजपटागारे, स्वामिन्या समगंस्तथा ॥ ५१ ॥ तदा प्रयोतजा तत्र, वत्सराजम
पूजयत् । मूर्ध्नि बद्धांजलिश्चैवं, विनयेन व्यजिज्ञपत् ॥ ५२ ॥ आर्यपुत्र परत्रापि, लोके शोकतमो| उपहः । प्रियस्त्वमेव मे भूयाः, प्रार्थये न ह्यतः परं ॥ ५३ ॥ इत्युदीर्यावरोहंती, प्रासादान्नृपनंदिनी । विज्ञा विज्ञपयांचक्रे, कांचना रचितांजलिः ॥५४॥ यदितो दृश्यते देवि, शृंगमभ्रंलिहं गिरेः । देव| स्येयं तपोभूमिः, सर्वकल्याणकारणं ॥५५॥ इह हि श्रूयते शश्व-दादिनाथः कृतस्थितिः। व्यस
P॥१४८॥
Page #151
--------------------------------------------------------------------------
________________
मृगावती - नानि व्यलीयंते, यत्र नेत्रपथातिथौ॥५६॥ तयैवं साधितोत्साहा, राज्ञी वेगानुपाययौ । त्रिलोकीस्वामिनं चरित्रम्
तत्र, विनयेन ननाम च ॥ ५७ ॥ शुद्धोदसरसस्तीरे, गत्वा प्रद्योतजा ततः । चिता विरच्यतामत्रे | ॥१४९॥
-त्यूचे यौगंधरायणं ॥ ५८ ॥ मंत्री जगाद देवि त्वं, यद्येवं कृतनिश्चया | निश्चितं तत्फलिष्यंति, पिशुनानां मनोरथाः ॥ ५९ ॥ दग्धा प्रदीपने देवी, दुर्वृत्तेन कृशानुना । शुद्धान्वयोऽन्वगादेना, AI
भक्त्या यौगंधरायणः ॥ ६० ॥ इति वार्ता मया लोके, यन्मिथ्योत्थापिता पुरा । इदानीं तदिमां । | देवि, सत्यां कर्तुं प्रवर्त्तसे ॥ ६१ ॥ युग्मं ॥ ___इत्याख्याय विनीताख्यं, स पदातिं समादिशत् । भद्र भूयोभिरेधोभि-राचितारच्यतां चिता ॥६२ ॥ ततस्तेन विनीतेन, यथादिष्टमनुष्टितं । अथ प्रद्योतजा तस्या-माशुशुक्षणिमक्षिपत ॥३३॥ आर्द्रधनोत्थधूम्याभि-स्तथासो व्यानशे दिशः। यथा दुर्दिन्नवन्नात्र, वस्तुव्यक्तिर्न लक्षिता ॥६॥ राज्ञी प्रदक्षिणीकर्तुं, चितां प्रववृते ततः । पृष्टवर्ती विषादातः, सचिवग्रामणीरपि ॥ ६५ ॥ इतो वत्सेश्वरोऽप्येत्य, जिनं सम्यक् प्रणम्य च । खेदाद्विवर्णवदन-मभ्यधत्त वसंतकं ॥ ६६ ॥ सखे पुरः
044000066
2000@OOOK
॥१४९॥
Page #152
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती || सखेदोऽपि, चितामारचयोचितां । येन प्रद्योतजाकोडे, क्रीडामनुभवाम्यहं ॥६७॥ वसंतकोऽवदद्देव,
चितां कर्तुं न वेदम्यहं । उत्सवैकसहायोऽस्मि, मा मे कमेंदमादिश ॥ ६८ ॥ नृपतिस्तद्वचः श्रुत्वा, ॥१५०॥
| मत्वा दुर्लभमीप्सितं । दिक्षु व्यापारयंश्चक्षुः, पुरः पावकमैक्षत ॥ ६९ ॥ तत्समीपमुपागत्य, धूमांध| तमसावृतः । रभसेन समारेभे, भूपतिस्त्रिःप्रदक्षिणां ॥ ७० ॥ आत्मनोऽग्रेसरं दृष्ट्वा, विष्टपेंद्रं नृपा- 12 त्मजा । तदा सकोपकां वाच-मुवाच सचिवाग्रिमं ॥७१॥ पुरुषाकृतिरार्याय, कोऽप्यसावग्रतो नरः || || चितायां मत्पुरो वेगा-द्विविक्षुरिव दृश्यते ॥ ७२ ॥ तदसौ प्रविशंस्तस्यां, झगित्येव निवार्यतां ||
। भविष्यत्यस्य संपर्का-त्पावकोऽयमपावकः ॥ ७३ ॥ इत्युक्तः स तया मंत्री, नृपं वोक्ष्योपलक्ष्य च | | जगाद जगतीनाथ, कथा मम निशम्यतां ॥ ७४ ॥ परिणेतुर्वियोगेन, दुःखितेयं मम वसा । अह्ना| यास्मिन् चितावह्नौ, प्राणमोक्षं चिकीर्षति ॥ ७५॥ तदन्यत्र धरित्रीश, गत्वाऽभिप्रेतमाचर । संतो | | जातु परार्थस्य, नहि प्रत्यूहहेतवः ॥ ७६ ॥ तेनेति व्याहतोत्साहो, वत्सप्रभुरचिंतयत् । नाद्यापि | भागधेयानि, विधेयानि भवंति मे ॥ ७७ ॥ यत्समीहा ममेहापि, नापूर्यत कथंचन । प्रपद्य तगिरेः
JOOOOOOO
॥१५॥
Page #153
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती ॥१५१॥
शृंगा-प्राणान्निर्वासयाम्यहं ॥७८॥ विचिंत्येत्यचलत्किंचि-द्राजा यावजवात्ततः । स्मित्वा ताव- | जगादैनं, बाहौ धृत्वा वसंतकः ॥ ७९ ॥ भूमिदेवमिमं देव, स्वानुगं वेरिस कोऽस्त्यसौ । न जाना| मीति राज्ञोक्ते, पुनरूचे वसंतकः ॥८॥ तवार्थे प्रार्थितक्लेशः, सोऽयं योगंधरायणः । येन चेदं नृपा
नीकं, समानाय्य रुमण्वता ॥ ८१ ॥ स्वयं चावंतीभूभर्तुः, सैन्यमादाय दुर्धरं । अधिसंग्राममुत्थाय, | | हतः पांचालभूपतिः ॥८॥ युग्मं ॥ ततः प्रत्यभिजिज्ञासु-र्भुवो भर्त्ता द्विजोत्तमं । सर्वांगीणं तमालिंग-दंभोजसदृशा दृशा ॥ ८२ ॥ अभितः प्रत्यभिज्ञाय, निजं तं सचिवोत्तमं । जगाद राजा दृष्टोऽसि, दिष्ट्यामात्यशिरोमणे ॥ ८३ ॥ साध्वमात्य त्वया चक्रे, यत्प्राणाः परिरक्षिताः । इदं भूयोऽपि मे राज्यं, त्वयि जीवति जीवितं ॥ ८४ ॥ इत्यालापोल्लसत्प्रीति-बाष्पायितविलोचनः । पपात । | पादयोर्वत्स-भूपतेमंत्रिपुंगवः ॥ ८५ ॥ तदा विज्ञातवृत्तांता, प्रियस्यानुपदं जवात् । आगात्पद्मावती | तत्र, यत्र प्रद्योतनंदिनी ॥ ८६ ॥ चिताशुशुक्षणेस्तां च, वीक्ष्यारब्धप्रदक्षिणां । इयं प्रियसखी सा | | मे, कथमत्रेत्यचिंतयत् ॥ ८८ ॥ इति चिंतापरामेता-मूचेऽवंतोनृपात्मजा । पद्मावति पतिं त्य
BिOO@@@
॥१५१॥
-
Page #154
--------------------------------------------------------------------------
________________
॥१५२॥
मृगावती : क्त्वा, कथमत्र त्वमागमः ॥ ८९ ॥ पद्मावती ततोऽवादोत्, सखि सत्यं निशम्यतां । प्रिया वासव- चरित्रम्
दत्तास्य, या दग्धा प्राक्प्रदीपने ॥९० । मनस्यस्ति प्रिया सैव, वाचि तन्नाम केवलं । तस्य चित्रेषु तद्रूप-लिखनं कायिकी क्रिया ॥ ९१ ॥ निमंत्रितः स मित्रेण, कौशांबीराज्यभुक्तये । किंतु तस्या वियोगेन, खिन्नस्तन्नान्वमन्यत ॥ ९२ ॥ प्रियां प्रत्युत तामेव, प्रेत्यापि प्राप्तुमुत्सुकः । तीर्थेऽस्मिन् प्राणमोक्षार्थ-मागतोऽस्त्यग्रतो मम ॥ ९३ ॥ अहमप्यधुना तस्य, पंथानमनुवर्तितुं । आयातास्मि । कुलीना हि, वनिताः पतिवम॑गाः ॥ ९४ ॥
इत्याख्याते तया दध्यो, प्रद्योतदुहिता हृदि । अद्याप्यनुपमप्रीति-रार्यपुत्रो मयि ध्रुवं ॥९५॥ पद्मावती च राज्यं च, स हि संत्यज्य संप्रति । मत्कृते विहितायासः, प्राणानपि जिहासति ॥२६॥ यश्च प्रदक्षिणोकतं, प्रावर्त्तत चितामिमां । ममैव स प्रियः शंके, धूमेन तु न लक्षितः ॥ ९७ ॥ मया निराकृतोऽत्यंतं, मृत्यवेऽप्युत्सुकस्तदा । असौ यदि निवर्तेत, ततः स्यान्मम वांछितं ॥ ९८ ॥ १५२ ॥ इतश्चोत्थाय तं श्लिष्य-न्मंत्रिणं मंत्रिवल्लभः । राजा जगाद केयं ते, स्वसाऽमात्य मुमूर्षति ॥९९॥ RI
04Oke
Page #155
--------------------------------------------------------------------------
________________
ना१५३॥
20000
मृगावती/सचिवो व्याहरदेव, त्वत्कृतादपमानतः । देवी वासवदत्तेयं, चितावहौ विपद्यते ॥ १०० ॥ अभाषत
| ससंरंभ, भूपश्चित्रमहो महत् । कथं पूर्व विपन्नापि, पुनर्देवी विपद्यते ॥१॥ द्रुतमेत्य स्वयं देवीं, दृष्ट्वा कुरु यथोचितं । इत्युक्तो मंत्रिणा भूपः, प्रत्यावृत्तश्चितांतिके ॥ २॥ तत्र प्रत्यक्षमद्राक्षोन्नृपः प्रद्योतजां स्वयं । चिंतयंती किमप्यंतः, पद्मावत्या समन्वितां ॥ ३ ॥ इयं वासवदत्तेति, नृपतिनिश्चिकाय तां । प्रत्यक्षाद्धि परं नास्ति, संदेहानामपोहकं ॥ ४ ॥ अथाललाप भूपालः, प्रेयसी तां प्रियोक्तिभिः । दृशं प्रद्योतजे देवि, देहि देह्याकुले मयि ॥ ५॥ कश्चिद्यश्चापमानस्ते, मया देवि प्रदर्शितः । सोऽपि वल्लाभलोभेन, प्रिये न पुनरन्यथा ॥ ६॥ निमेषमपि वामाक्षि, मम चेदसि विस्मृता । एतास्तदा सदाक्षिण्ये, साक्षिण्यः कुलदेवताः ॥ ७॥ तत्प्रसीद प्रिये मां, चिंतया | कृतमेतया । सत्योऽस्तु गोमुखो यक्ष-स्तपोऽप्यस्तु फलेग्रहि ॥८॥ इत्युक्त्वा विरते राज्ञि, धूमोर्मों | च भिदेलिमे । प्रत्यभिज्ञाकृते पत्यु-देवो व्यापारयद् दृशं ॥ ९ ॥ दृष्टिर्वासवदत्तायाः, प्रोत्या प्रत्य- 10
॥१५३॥ | भिजानती । रमणस्यांगरंगांतः, खेलतिस्म यदृच्छया ॥ १०॥ निर्णीय परिणेतारं, स्मृत्वा पद्मावती- JAI"
Page #156
--------------------------------------------------------------------------
________________
मृगावती | वचः । विससर्जाश्रुरूपेण, सापमानं स्वमानसात् ॥ ११ ॥ अपमानज्वरावेग-व्यथाव्यपगमस्तदा। चरित्रम् ११५३ अवेदि स्वेदनिःस्यदा-दंगेस्तस्या विशारदैः ॥ १२ ॥ प्रियालापैर्घनरसैः, सिक्तोऽस्याः प्रेमपादपः To1
।। रोमांचनिचयव्याजा–दमुंचदिव कोरकान् ॥ १३ ॥ पतिलावण्यपीयूष–पानपीनवपुस्ततः । सा | जगाद गलबाष्प-बिंदुर्बद्धशिरोंजलिः ॥ १४ ॥ देशत्यागस्तपःक्लेशः, कांतारक्रमणक्लमः । आर्यपुत्र | | मया तुभ्य–मुपनिन्ये पदे पदे ॥ १५ ॥ उत्तमणोंऽसि नाथ त्व-मधमर्णास्म्यहं पुनः । तत्किं 10 | ब्रवीमि सर्व मे, क्षेतव्यं विप्रियं त्वया ॥ १६ ॥
इति विज्ञप्य सा पत्युः, पादो केशैरमार्जयत् । विनयः कुलनारीणां, कांते नैसर्गिको यतः | A॥ १६ ॥ युगंधरसुतोऽप्यूचे, भक्त्या तौ दंपतीप्रति | युवां दुःखे मया क्षिप्तौ, पांचालोच्छेदमिच्छना | ॥ १७ ॥ तद्युवामपराधं मे, सर्व मर्षितुमर्हथः । नैव कुप्यंति विद्वांसो, वैद्याय कटुदायिने ॥ १८ ॥ दंपती बहुमेनाते, तत्तदा मंत्रिणो वचः । मंतुं नांतर्गतं धत्ते, कृतज्ञो हितकारिणां ॥ २० ॥ ऊचे ॥१५४॥ चंपकमालाथ, पद्मावत्या सविस्मयं । सखि प्रियसखीयुक्ता, या पूर्व ब्राह्मणो मया ॥ २१ ॥ साऽभू
Page #157
--------------------------------------------------------------------------
________________
मृगावती
चरित्रम्
चार
| द्वासवदत्तेव, दृश्यतामंग कौतुकं । वर्षीयान् स च विप्रोऽपि, जातो यौगंधरायणः ॥ २२ ॥ तामित्युक्त्वा पुरो गत्वा, नत्वा प्रद्योतनंदिनीं । अवोचदायें याऽवज्ञा, चक्रे सा मयि मृष्यतां ॥२३॥ ततः प्रद्योतजा प्राह, स्नेहात् पद्मावतीं प्रति । सेवास्मि मास्मभूः खिन्ना, नावाज्ञातास्मि यत्त्वया ॥ २४ ॥ जामातुश्च सुतायाश्च, प्रवृत्तिं ज्ञातवानथ । संभ्रांतमानसस्तत्र, महाबाहुरुपाययो ॥ २५ ॥ पितुः पद्मावती तत्र, वृत्तमाख्यत्तदातनं । अशंसच्च नमस्यंती, प्रीत्या प्रद्योतजां पुरः ॥२६॥ तात प्रणौति | | विनया-ज्ज्यायसी ते तनूरुहा । दृष्टयैव जीवयामास, यासौ जामातरं तव ॥२७॥ युग्मं ॥ चिर- | | कालमवैधव्यं, वत्से धत्स्वेति चेदिपः । तामभ्यनंददाशीर्भि-मालवेश्वरसंभवां ॥ २८ ॥ ___अत्रांतरे गिरौ तत्र, बृंहितैरथ हेषितैः । निःखाननिःस्वनैश्चापि, शब्दाद्वैतमजायत ॥ २९ ॥ | अथ वत्सेश्वरस्तारं, तं निशम्य सविस्मयः । धीरां व्यापारयामास, दृशं शब्दानुसारिणीं ॥ ३०॥ | नगरस्योपत्यकोपांते, ततोऽनेकाननेकपान् । ऐक्षिष्ट स पुरो लक्षां-स्तुंगांश्चैव तुरंगमान् ॥ ३१ ॥ विस्मयात्पश्यतस्तस्य, भटकोटिमयी महीं । वेगादेत्य पुमानेकः, पादयोरपतत्तदा ॥३२॥ तमुत्थाप्य |
१५५॥
Page #158
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती || विदित्वाथ, रुमण्वानयमित्यमुं । आलिंग्यागमने हेतुं, पप्रच्छ पृथिवीपतिः ॥ ३३ ॥ रुमण्वानप्य
भाषिष्ट, देवस्याह्वानहेतवे । आयातोऽस्मि निषेवंतां, चिराद्वत्सा महोत्सवं ॥ ३४ ॥ अथ प्रसीद ॥१५६॥
तद्देव, द्रुतं पादौ च धार्यतां । भालविन्यस्तहस्ता हि, मार्गमालोकते प्रजा ॥३५॥ ततो नाभेयमभ्यर्च्य, प्रणिपत्याथ गोमुखं । सपत्नीको महानीकः, कौशांबीमचलन्नृपः ॥ ३६॥ सहायांतं महाबाहूं, विसृज्य विनयात्ततः । वत्सान् वत्सेश्वरः प्राप्य, पितेवानंदभासदत् ॥ ३७ ॥ कालिंदीकूल| देशेषु, पंचालोच्छेदसाक्षिषु । सेनां निवेशयामास, द्रुतमेत्य क्षितीश्वरः ॥ ३८ ॥ तत्तीरे सह पत्नी-10 भ्यां, विहरतं महीपतिं । रुमण्वानभ्यधादेवं, पंचालस्याजिभूरियं ॥ ३९ ॥ अत्र गोपालपालाभ्यां, पंचालंप्रति तत्कृतं । भीमार्जुनाभ्यां कोपेन, कौरवान्प्रति यत्पुरा ॥ ४० ॥ सुदर्शनकुमारोऽत्र, तथा ते परिपंथिनि । दर्शयामास शौंडोर्य, यथा करिणि केसरी ।। ४१ ॥ अत्र तु प्रौढमित्रेण, सचिवाग्रेसरेण ते । अच्छेदि कदलीच्छेद, पंचालनृपतेः शिरः ॥ ४२ ॥ इत्थं कथयतस्तस्य, रजःसंचयसूचिताः । प्रत्याजग्मुस्तमुर्वीशं, राजपुत्रास्त्रयोऽपि ते ॥ ४३' ॥ तानौचित्येन संभाव्य, भूपः शिबिर
॥१५६॥
Page #159
--------------------------------------------------------------------------
________________
मृगावती
॥१५७
| मेत्य च । उपवाह्यां समारुह्य, दिव्यां प्रत्यचलत्पुरीं ॥ ४४ ॥ सौधमारुह्य पश्यंत्य-स्तं प्रवेशं मही- चरित्रम् | पतेः । चरितार्थानि चशूषि, चक्रुः पुरपुरंध्रयः ॥ ४५ ॥ विन्यस्तस्वस्तिकश्रेणिं, वैजयंतीतरंगितां ।। उत्तोरणां पुरीं पश्यन्, मुमुदे मेदिनीपतिः ॥ ४६ ॥ अभितो विपणिश्रेणि-मधिरूढास्तमादरात् ।। अवाकिरन् प्रजा लाजान्–राजमार्गमुपागतं ॥४७॥ सोऽमोदत न वारस्त्री-चलितैश्चामरैस्तथा ।। यथा पौरवधूघूतो-त्तरीयसिचयांचलैः ॥ ४८ ॥ मुक्तमुक्तामयोच्चूल-चंद्रोदयकृतोदयं । उन्मी- | | लन्मंगलोद्गारं, सौधमभ्यासदन्नृपः ॥ ४९ ॥ गजैः केऽपि हयेंः केऽपि, रत्नैः केऽपि महीभुजः । तदा |
तं भूरिसंभारैः, प्राभृतैरुपतस्थिरे ॥ ५० ॥ गोपालपालौ भूपालः, कुमारं च सुदर्शनं । स सत्कृत्य | | यथौचित्यं, विससर्ज सगौरवं ॥ ५१ ॥ निरस्य व्यसनं सर्व, सर्वसहतया तया । स प्रजाः पालयामास, पुरा दाशरथिर्यथा ।। ५२॥ निःसीमैः प्रेमसंस्कारै-स्तिरस्कारः पुरातनः । तेन वासवदत्तायाः, समूलमुदमूल्यत ॥ ५३ ॥ पद्मावत्यामपि प्रेम, तस्य पल्लवितं तथा । अमन्यत तपःक्लेशं, सा |
3॥१५७॥ कृतार्थं यथात्मनः ॥ ५४ ॥ सर्वाधिकारिणं चक्रे, राजा यौगंधरायणं । सर्वमेधाशुचिं वाच-स्पति ||
Page #160
--------------------------------------------------------------------------
________________
मृगावती
| वास्तोष्पतिर्यथा ॥ ५५ ॥ तस्यारितिमिरस्तोमं, तेजःप्रत्यूहकारणं । तरणेररुणेनेव, व्यनीयत रुम- चरित्रम् | ण्वता ॥ ५६ ॥ विविधोपासनाचारु-गुणाकृष्टहृदं तदा । आत्मांतेवासिनं चक्रे, वीशामीशो वसंतकं | ॥५७॥ धर्ममाद्रियमाणस्य, दीनानुद्धरतोऽपि च । नित्यं तस्य मनो मातृ-वंदनायोदकंठत ॥५८॥ तस्याकूतमथो ज्ञात्वा, ज्ञानेन ज्ञातनंदनः । पावयामास कौशांबी, निजैश्चरणरेणुभिः ॥ ५९॥ मृगावत्यपि तत्रागा-समं चंदनवालया। वांछितार्थः समस्तोऽपि, सुकृतैरुपढौक्यते ॥ ६० ॥ व्याख्या | पर्वजिनेशस्य, प्राकारत्रयशालिनी ! सुरैः परिसरारामे, रमणीया विनिर्ममे ॥ ६१ ॥ तद्विदित्वा | क्षणात् क्षोणी-पालेनोद्यानपालकात् । सांतःपुरपरीवारे–णागामि स्वामिनोंतिके ॥ ६२ ॥ तत्र प्रदक्षिणीकृत्य, भगवंतं भुवः प्रभुः । जानुस्पृष्टमहोपृष्टः, सानंदमिति तुष्टुवे ॥ ६३ ॥ जय त्वं सर्वसिद्धार्थ-सिद्धार्थनृपनंदन | जगत्संकल्पकल्पद्रो, गुणमाणिक्यरोहण ॥६४॥ इत्थं कृतस्तुतिर्नियदानंदाश्रुकणावलिः । ननाम नम्रपंचांगः, कौशांबीशो जिनेश्वरं ॥६५॥ ततः समुचितं देश-मध्या- IN॥१५॥ सीने महीपतौ । वर्धमानजिनाधीशः, शुद्धं धर्ममुपादिशत् ॥ ६६ ॥ संसारसागरस्यांतः, प्राणिभिर्व्य
Page #161
--------------------------------------------------------------------------
________________
मृगावती वहारिभिः । रत्नत्रयमुपादेयं, हेयास्तु विषयोपलाः ॥ ६७ ॥ सुखं विषयसेवाया - मत्यल्पं सर्षपादपि । दुःखं तु देहिनः प्राज्यं, मधुबिंद्रादिपुंसवत् ॥ ६८ ॥
॥ १५९ ॥
तथाहि पुरुषः कोऽपि, देशाद्देशं परिभ्रमन्, सार्थेनाऽविक्षवीं, चौरयादोमहानदीं ॥ ६९ ॥ तं सार्थं लुंटितुं तत्र, चोरव्याघ्रा दधाविरे । मृगवच्चापलायंत, सर्वे सार्थनिवासिनः ॥ ७० ॥ सार्थाद्धीनः स तु पुमान्, प्रविवेश महाटवीं । आकंठमागतैः प्राणैरभ्युद्यत्कूपवारिवत् ॥ ७१ ॥ उच्चैस्तरो गिरिरिव, प्रक्षरन्मदनिर्झरः । उदस्तहस्तोऽभ्राणीव, प्रभ्रंशयितुमंबरात् ॥७२॥ न्यंचयन् क्ष्मामंहिपातै-रं| तः सुषिरिणीमिव । आध्मातताम्रताम्रास्यो, घनश्यामोग्रदेहभृत् ॥ ७३ ॥ साक्षाद्यम इव क्रोधाद्, दुर्धरो वनकुंजरः । वराकं कांदिशीकं तं पुरुषं प्रत्यधावत ॥ ७४ ॥ त्रिभिर्विशेषकं || मारयिष्याम्यहं याहि, | याहीति प्रेरयन्निव । जघान तं मुहुः पृष्टे, वारणः करशीकरैः ॥ ७५ ॥ स पुमान् कुंदुक इव, निपतन्नुत्पतन् भयात् । प्राप्तप्रायो द्विपेनाप, तृणच्छन्नमथावरं ॥ ७६ ॥ गजोऽवश्यं जीवितहृत्, कूपे जीवामि जातुचित् । इति सोऽदात्तत्र झंपां जीविताशा हि दुस्त्यजा ॥७७ || वटोऽवटतटे चाभृ-त
चरित्रम्
॥ १५९ ॥
Page #162
--------------------------------------------------------------------------
________________
मृगावती
१६०॥
। त्पादश्चैक आयतः । लंबमानोऽभवत्कूप-मध्ये भुजंगभोगवत् ॥ ७८ ॥ स पुमानिपतन् कूपे, प्राप ? | तत्पादमंतरा । आलंब्यलंबमानोऽस्था-द्रज्जुबद्धघटीनिभः ।।७९ ॥करं प्रक्षिप्य कूपांतः, करी पस्पर्श तच्छिरः । नाशकत्तु तमादातुं, मंदभाग्य इवोषधीं ॥ ८० ॥ दत्तदृष्टिरधोभागे, भागधेयविवर्जितः ।। कूपस्यांतरजगरं, गरोयांसं ददर्श सः ॥ ८१ ॥ पतत्कवलबुध्ध्या तं, निरीक्ष्याजगरोऽपि सः । कूपां-R तरपरं कूप-मिव वक्त्रं व्यकाशयत् ॥ ८२ ॥ चतुलपि हि पक्षेषु, चतुरोऽहीन् ददर्श सः । कालिंदीसोदरस्येव, बाणान् प्राणापहारिणः ॥ ८३ ॥ उत्फणाः फणिनस्ते तु, तं दष्टुं दुष्टचेतसः। फूत्कारपवनानास्यै–रमुंचन् धमनीनिभैः ॥८३॥ वटप्ररोहं तं छेत्तुं, मूषको द्वौ सितासितो। चटच्चटिति | चक्राते, दंतक्रकचगोचरं ॥ ८४ ॥ अनाप्नुवन् पुमांसं तं, सोऽपि मत्तौ मतंगजः । जघान वटशाखां | तां, वटमुत्पाटयन्निव ॥ ८५ ॥ वटस्यांदोल्यमानेन, पादेन स पुमान् दृढं । पाण्यहिबंधं तन्वानो, IN | नियुद्धमिव निर्ममे ॥ ८६ ॥ गजेनाहन्यमानायाः, शाखाया मधुमक्षिकाः । मधुमंडपमुत्स्सृज्यो-16
॥१६०॥ | डिडिरे तोमराननाः । ८७ ।। मक्षिकास्ता ददंशुस्तं, लोहसंदंशसन्निभैः । तुंडैर्भयंकरैस्तीक्ष्णे-जी
POOOOOO.
Page #163
--------------------------------------------------------------------------
________________
मृगावती
॥१६१॥
वाकृष्टिपरैरिव ॥ ८८ ॥ उत्पक्षमक्षिकारुद्ध सर्वांगः स पुस्तिदा । कृतपक्ष इवालक्षि, कूपान्निर्ग- चरित्र तुमुत्सुकः ॥८९॥ वटस्थमधुकोशाच्च, मधुबिंदुर्मुहुर्मुहुः। ललाटे न्यपतत्तस्य, वार्धन्या वारिबिंदुवत् ॥९॥ मधुबिंदुस्तस्य भाला-ल्लुठित्वा प्राविशन्मुखे । स तदाखादमासाद्य, सुखं महदमन्यत ॥ ९१ ॥ | श्रूयतां नृपतेऽमुष्य, दृष्टांतस्य च भावना | यः पुमान् स हि संसारी, याऽटवी सा तु संमृतिः ॥९२॥ | | यो गजः स पुनर्मृत्यु-र्यः कूपो मर्त्यजन्म तत् । योऽजगरः स नरको, येऽहयस्ते क्रुधादयः ॥१३॥ | वटपादो यस्तदायु-मषको च सितासितौ। तो शुक्लकृष्णौ द्वौ पक्षा-वायुश्छेदपरायणौ ॥ ९४ ॥ | या मक्षिका व्याधयस्ते, मधुविंदुस्तु यो मुखे । तद्धि सुखं वैषयिकं, तत्र रज्येत कः सुधीः ॥ ९५ ॥
चतुर्भिः कलापकं ।। देवो विद्याधरो वापि, यदि कूपात्तमुद्धरेत् । तत्किमिच्छेदथवा न, स पुमान् । | देवदूषितः ॥ ९६ ॥ एवं दुःखमयं तुच्छं, मत्वा वैषयिकं सुखं । सुधीर्धर्माय जागर्या-दद्वैतसुख/ दायिने ॥ ९७ ॥ देवः सम्यग्जिनो यत्र, गुरुर्यत्र चरित्रवान् । यत्र जीवादयस्तत्वं, तत्र धमें मतिं |१६ कुरु ॥ ९८ ॥ तस्य चेतसि जैनेंद्र-वचःस्वात्यंबुसेकतः। शुक्तौ मुक्ताफलेनेव, धर्मेण पदमादधे |RI
Page #164
--------------------------------------------------------------------------
________________
मृगावती ॥९९॥ श्राद्धधर्ममुपादित्सु-वत्सराजो जिनेश्वरं । मातुः समक्षमुत्थाय, नम्रमौलि~जिज्ञपत् ।।१००||
चरित्रम् प्रपद्ये प्रोषिताऽवद्यं, श्रावकरवं त्वदंतिके । भूर्भुवःस्वस्त्रयीरक्षा-बद्धकक्ष प्रसीद मे ॥ १॥ इति । विज्ञापितो यामे, चरमे चरमो जिनः । श्रावकत्वं नरेंद्राय, तस्मै दातुं प्रचक्रमे ॥२॥ मौलं विमाः | नमारुह्य, सूर्यचंद्रमसौ स्वयं । तदा च त्रिजगन्नाथ-मुपासितुमुपेयतुः ॥ ३ ॥ सूर्येदुकांतवपुषोः, - श्रोपुषोस्तद्विमानयोः । ज्योतिरुज्जागरं दधे, जगदोशयशःश्रियः ॥ ४ ॥ तदुद्योतस्तमःस्तोमं, निज| ग्राह बहिस्तनं । प्रभुस्त्वंतर्गतं श्रेया-नहो लोकस्तदातनः ॥ ५॥ अथ चित्ते मृगावत्याः, प्रादुर्भु-10 तमिदं तदा । वत्सराज महाराज, मन्ये धन्यशिरोमणिं ॥ ६॥ तिमिरोच्छेदनिस्तंद्रौ, चंद्रमःकर्मसाक्षिणौ । साक्षिणौ च व्रतादाने, वत्सेशस्य बभूवतुः ॥ ७॥ तज्जानामि निमित्तेन, श्लाघ्येनानेन | A निश्चितं । उदित्वरमसौ धर्म, भूपालः पालयिष्यति ॥ ८॥ अथ त्रैलोक्यनाथेन, श्राद्धधर्माधिरो- 18
पणात् । शिरसि न्यस्तहस्तेन, वत्सराजोऽन्वगृह्यत ॥ ९॥ विदशानामधीशेन, शशिना तपनेन च । साधु साधर्मिकत्वेन, स तदा प्रत्यपद्यत ॥ १० ॥ तदा चंदनबालाथ, विज्ञाय समयं स्वयं । जिन
90000-
000
॥१६२।
Page #165
--------------------------------------------------------------------------
________________
मृगावती । नाथमनुज्ञाप्य, स्वीयाश्रयमशिश्रियत् ॥ ११ ॥ दृष्टालोकेन लोकेन, दोषायां दिनमानिना | आनं- चरित्रम्
दनिःस्यंदजुषा, तथैवावस्थितं पुनः ॥ १२ ॥ मृगावत्यपि हर्षेण, पारवश्यमुपेयुषी । संध्यां न स्वयमाज्ञासी-न्न चाज्ञाप्यत केनचित् ॥ १३ ॥ भगवंतमभिष्टुत्य, तथा स्वमधिरुह्य च ! विमानं युलतापुष्पं, पुष्पदंतो स्म गच्छतः ॥ १४ ॥ तयोः स्वस्थानगमना-दंधकारो निरर्गलः । प्रससार जलाधारः, । पालिव्यपगमादिव ॥ १५ ॥ निर्नामनष्टमाशाभि-स्तमो राज्ये विजूंभिते । निम्नानामुन्नतानां च, IN विभागो न व्यभाव्यत ॥१६॥ ध्वांतकच्छत्रमालोक्य, क्षोभादध्यौ मृगावती। कस्मादकस्मादेवेय-म-10 | भूभीमतमा तमी ॥ १७ ॥ संभ्रांतमानसा याव-दन्वियेष प्रवर्तिनीं । प्रदेशे तत्र तावत्ता-मी-IA क्षतेस्म न सा क्वचित् ॥१८॥ लब्धोन्मादः प्रमादो मे, यत्संध्यासमयो मया। चंद्रसूर्यविमानांशु-प्र. भावान्न विभावितः ॥ १९ ॥ ततोऽन्वशोचदात्मानं, नितरां सा विषादिनी । निजापराधे साधूनां, चेतो दंदह्यतेऽधिकं ॥ २० ॥ मया नाऽज्ञायि गच्छंती, प्रवर्त्तिन्यपि शून्यया । कथं संप्रति गंतास्मि, DIA
॥१६३॥ भ्वांतेऽस्मिंस्तत्पदांतिकं ॥ २१ ॥ ईर्यापथः कथं चाय-मित्थं तमसि शुध्ध्यति । एवमेकपदे प्राप्तां,
Page #166
--------------------------------------------------------------------------
________________
॥१६॥
मृगावती | धिग्ममैतां प्रमादितां ॥ २२ ॥ इत्यतीवानुशोचंती, सिंचंती मार्गमश्रुभिः । पदे पदे स्खलंती च, सा
चलद्धर्मनिश्चला ॥ २३ ॥ आगाच्च व्रतिनीवात-स्वाध्यायध्वनिबंधुरं । गतातिचारचारित्र-पात्रसंश्रयमाश्रयं ॥ २४ ॥ आवश्यकांते विश्रांतां, संस्तारकतले तदा । मृगावती शनैरेत्य, तत्रावंदत | | चंदनां ॥ २५ ॥ विनयेन नमस्यंती-मवगम्य मृगावतीं। उपालब्ध वचोभिस्तां, चंदना चंदना
पमैः ॥२६॥ नक्तमेकाकिनी वत्से, जिनास्थाने स्थितासि किं । निशामप्यसमप्रज्ञ, न हि ज्ञातवती । | कथं ॥ २७ ॥ इतरापि तमखिन्यां, संचरंती कुलांगना । अन्यथा शंक्यते लोकैः, किं पुनर्न तपो-10 धना ॥ २८ ॥ चेटकस्य विशां पत्यु-रभवस्त्वं तनूरुहा । शतानीकमहोभर्तु-रभृश्च सहचारिणी ॥ २९ ॥ प्रभावतीप्रभृतय-स्तव याश्च सहोदराः। तासां कल्याणि नाम्नापि, जनोऽयं विरजीभवेत् | ॥३०॥ आयुष्मति प्रमादोऽयं, तत्ते नाभूत्कुलोचितः। उपात्तमुनिवृत्ताना-मसौ हि परमो रिपुः | ॥ ३१ ॥ पश्य प्रत्यर्थिनानेन, हन्यते संयमः सतां । हते तस्मिन् हतास्तेऽपि, मुधा तेषां हि जीवितं ॥१४॥ ३२|| अचक्षुर्विषयेऽमुष्मिन्, पथि संचरणेन ते । षट्कायोत्माथनाद्वत्से, हतं संयमजीवितं ॥३३॥
Page #167
--------------------------------------------------------------------------
________________
मृगावती इत्युपलभमानाया - चंदनाया मृगावतीं । निमीलन्नयनद्वंद्व - निद्रा मानसमानशे ॥३४॥ | तूष्णीजुषि प्रवर्त्तिन्या - मंहिसंवाहन क्रियां । कुर्वती सर्वतः शाश्रु - पूरिताक्षीत्यचिंतयत् ॥ ३५ ॥ आर्यिका ॥ १६५ ॥ ॐ जनमर्यादा - विपर्यास विधायिनीं । धिग्मां गुरुजनोद्वेग - निर्माणकलुषीकृतां ॥ ३६ ॥ संयमैकसमीनः, सर्वोऽपि श्रमणीजनः । सोऽतिप्रशस्यो यत्रास्ति, नातिचारः क्वचिद्यते ॥३७॥ अतंद्रधर्मनिर्माण - क्षपिताखिलकल्मषाः । धन्याः प्राचीनमुनयो, मुक्तिमार्गमुपस्थिताः ॥ ३८ ॥ एवमध्यवसायेन, कुंदेंदु कुमुदत्विषा । सा हत्वा घातिकर्माणि, कलयामास केवलं ॥ ३९ ॥ ततः सा हस्तविन्यस्त - व्यक्तमुक्त कणोपम । लोकमालोकयांचक्रे, द्रव्यपर्यायभेदतः ॥ ४० ॥ तिमिरं मेदुरोकुर्वनंगश्यामतया तया । संचरिष्णुस्तदा तेन, दुष्टो दृष्टः फणी तया ॥ ४१ ॥ मृगावत्या तमालोक्य, निकटाटनलंपटं । न्यस्तः संस्तारके बाहुः, प्रवर्त्तिन्याः क्षितेस्तलात् ॥ ४२ ॥ तस्यास्तेन जजागार, प्रयत्नेन प्रवर्त्तिनी । मनसा च प्रसन्नेन, निजगाद मृगावतीं ॥ ४३ ॥ वत्सेऽद्यापि तथैवासि, मम संवाहनांपरा । धिग्मदीयोऽपराधोऽयं, यद्विसृष्टासि नो मया ॥ ४४ ॥
चरित्रम्
॥१६५॥
Page #168
--------------------------------------------------------------------------
________________
मृगावती
॥१६६॥
कथमुत्सारितो वत्से, मम बाहुर्महीतलात् । तया पर्यनुयुक्तेति, शंसतिस्म मृगावती ॥४५॥ अयं चरित्रम् वस्तूर्णमभ्यणं, भोमोऽभ्येति भुजंगमः।माऽसौ दशस्विति न्यस्तो, हस्तः संस्तारके मया ॥४६॥ कुत्राय-10 मिति पृच्छंती, पुनरूचे मृगावती ।अहिः सन्निहितो याति, भवतीनामयं पुरः॥४७॥ इत्याख्यातेऽपि सा || प्राह, नाहं पश्यामि किंचन । त्वमीक्षसे किमक्ष्णैव, किं वा ज्ञानेन केनचित् ॥४८॥ इति पृष्टा प्रवर्त्तिन्या, सा ज्ञानेनेत्यवोचत । किमु संप्रतिपातेन, किमुताऽप्रतिपातिना ॥ ४९ ॥ इति प्रश्नपरां पूज्यां, व्या- 131 जहार मृगावती । इमं ज्ञानेन पश्यामि, सर्पमप्रतिपातिना ॥ ५० ॥ इत्थं चंदनवालााप, श्रुत्वा | विमितमानसा । अचिंतयच्चिरं चित्ते, अहो धन्या मृगावती ॥ ५१ ॥ या प्रपंचेन पंचापि, विषयान् | भुक्तपूर्विणी । पश्चादात्तव्रताऽप्यासीत्, सर्वेषामग्रतः सरी ॥५२॥ धन्याहमपि यस्या मे, गुरुः सिद्धा| र्थनंदनः । स्पृहणोयगुणग्रामा, शिष्या चेयं मृगावतो ॥ ५३ ॥
____ इत्थमुत्थाष्णुसंवेगा-द्गुराण्यखिलान्यपि । कृत्वा घातीनि कर्माणि, प्रपेदे सापि केवलं॥५४॥ १६ ॥ | गुरुभ्यो लम्यतेऽवश्यं, पदमुत्तरमुत्तरं । मृगावत्या त्वनीयंत, गुरुवोऽपि परं पदं ॥ ५५ ॥ शाखाः
Page #169
--------------------------------------------------------------------------
________________
मृगावती
॥१६७॥
खंति मूलेभ्यः, क्रमोऽयं सर्वशाखिनां । मूलोदयस्तु शाखाभ्यो, येषामल्पे हि तेंहिपाः ॥ ५६ ॥ | विजहार महीहार-भृतः स्थानांतरे प्रभुः । चंदनापि मृगावत्या, समं स्वामिनमन्वगात् ॥ ५७ ॥ दिवं दिविषदां वर्ग, जग्मुषि प्रोतमानसे । वत्सराजोऽपि कोशांबी, सपत्नीकः समाययो ॥ ५८ ॥ प्रीत्याथ पालयामास, प्रजामिव निजां प्रजा । स विजिग्येऽरिषड्वर्ग, न्यायमार्गममार्गयत् ॥ ५९ ॥ स त्रिष्वपि पुमार्थेषु, समतां दर्शयन्नपि । मानसेनाऽनुरागेण, धर्ममेव न्यषेवत ॥ ६० ॥ जोवंतस्वामिनो बिंब-सनाथं पृथिवीपतिः । प्रासादं कारयामास, स्वर्णरत्नमयं पुरि ॥ ६१ ॥ सोऽमारिं घो-10 षयामास, रथयात्रामवीवृतत् । अवीवृधच्च दानेन, दीनानाथमनोरथान् ॥ ६२ ॥ अथ केवलिपर्याय-मनुभूय मृगावती । कर्म निर्मूल्य निर्वाणं, लेभेऽनंतसुखोदयं ॥ ६३ ॥शीलं शरच्चंद्रमरीचि- | निर्मलं, गुरौ च गुर्वी बहुमानसंपदं । द्वयं दधानेदमशेषयोषितां, निदर्शनीभावमगान्मृगावती ॥४॥ मृगावत्याः सत्याश्चरितमिदमुद्दाममहिम-प्ररोहं संरोहत्पुलकमुकुले कर्णकुहरे । समानीतं नोति ॥१७॥ जनयति कुमार्ग शमयति, श्रियः सूते स्फीताः परमपि पदं तत्प्रथयति ॥ ६५ ॥ बुधभ्रमरचुंबितं RI
DN0002040%
Page #170
--------------------------------------------------------------------------
________________
चरित्रम्
मृगावती सकलमागमारामतो, विचित्य कुसुमोज्ज्वलं सरसमर्थजातं मया । इदं किल मृगावतीचरितपुष्प- 1 दामादृतं, दिशत्किमपि सौरभं सुचिरमस्तु कंठे सतां ॥ ६६ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते
श्रीमृगावतीचरित्रे धर्मसारचूडामणौ पंचमो विश्रामः समाप्तः ॥
॥ इति श्रीमृगावतीचरित्रं समाप्तं ॥
॥ श्रीरस्तु॥
आ ग्रंथ जामनगरवाला वीठलजी हीरालाल लालने पोताना सूर्योदय प्रिन्टिंग प्रेसमां खपरना श्रेय माटे छापी प्रसिद्ध कयों छे.
॥१६८।
Page #171
--------------------------------------------------------------------------
Page #172
--------------------------------------------------------------------------
________________ 34-4547647679643336433 363790253364367636. ls fa sftpora atafi farq - ***CHOSEMA SCHUHSHSHS436486444 XHOSA88437