________________
मृगावती
| सर्वदेवातपत्रेण, त्राततीव्रातपक्लमा । धर्म मर्मविधं वत्से, त्वं कथं सहसेऽधुना ॥१३॥ सोरभोद्गारि | चरित्रम् ॥१०३॥
तद्वारि, निपीयापीयसे कथं ! पयोऽधुनाध्वकासारे, कासरैः कलुषीकृतं ॥ १४ ॥ प्रातराशप्रिये पुत्रि,
निःपरित्रेऽधुना पथि । तवाशनायाऽपाथेयं, कथं न प्रथते व्यथां ॥१५॥ हंसतूलीनिलीना या, पुष्पेAणापि स्म ताम्यति । कथं निद्रायसे पुत्रि, स्थपुटासु स्थलीषु सा ॥१६।। कूजितैः केलिहंसानां, या
शय्यातलमत्यजः । सा स्फारैः फेरफूत्कारैः, कथं निद्रां विमुंचसि ॥१७॥ निर्धनो निःपरोवारः, शूरोऽपि | सकलोऽपि ते । वत्से वत्सेश्वरः कुर्या-प्रेमवानपि किं प्रियं ॥१८॥ तमेवमनुशोचंत-मात्मजां मालवे-10 | श्वरं । वत्सेभ्य आगतश्चैक-श्वरो विज्ञो व्यजिज्ञपत् ॥१९॥ वत्सराज महाराज, सममात्मजया तव ।। वेगान्निनाय कौशांबी, पल्लींद्रो निरुपद्रवं ॥ २० ॥ सुधाकल्पमिमं जल्प–माकर्ण्य नृपतिस्ततः । मान्यं तमेव सेनान्यं, सानंदमिदमादिशत् ॥ २१ ॥ जयवर्मन् द्रुतं गत्वा, वत्सान् वत्सां विवाहय ।। सुखं सहैव नेतव्या वेतो मंत्रिवसंतकौ ॥ २२ ॥ गत्वा गजशतं वाजि-सहस्रं च महाजवं । वराय वरविद्याय, दद्याः कंकणमोचने ॥ २३ ॥ एवमादिश्य संवाह्य, प्रस्तुतोचितवस्तुभिः । वीवाह
॥१०३।