________________
चरित्रम
मृगावती
॥१०२॥
| आस्थानस्थाय तेनावां, प्रद्योतायोपदीकृतौ ॥१॥ ततो जगाद प्रद्योतः, सेनाधीश ममाधिकं । आसो|दुदयने क्रोधः, प्राणनिग्रहणावधिः ॥ ३॥ आभ्यां किंतु कुमाराभ्यां, वचोयुक्तिजलोर्मिभिः । स व| हिरिव दीप्तोऽपि, दूरं विध्यापितोऽधुना ॥ ४॥ अस्मन्मनस्तथैताभ्यां, तद्गुणैः प्रगुणीकृतं । दत्ता | वासवदत्तापि, तस्यास्माभिर्मुदा यथा ॥ ५॥ स एष भद्र संबंधी, तनो यौगंधरायणः । न्यस्ता वत्सैतदुत्संगे, संप्रत्यायुष्मी मया ॥६॥ शतानीकमृगावत्योः, कौतुकानि निरंतरं । असौ वत्सेश्वरामात्यो, मत्पुत्र्याः पूरयिष्यति ॥७॥ वसंतकोऽपि वत्साया-स्तत्रास्तु परिचारकः । उक्त्वेति राजा || | सेनान्य-मथ प्राह वसंतकं ॥ ८॥ क्षेमेण वर्ततेऽस्माकं, भद्र भद्रवती वशा । अथायं कथयामास, | सगद्गदमधोमुखः ॥ ९॥ योजनानां शतं गत्वा, सा करेणुशिरोमणिः । व्यपद्यत महीनाथ, भाग-| धेयैः समं मम ॥ १० ॥ क्षोणीभर्तुः कुमार्याश्च, वोक्ष्य चंक्रमणक्लमं । आवां पल्लींद्रमानेतुं, ब्रजं. तावमुना धृतौ ॥ ११ ॥
निशम्येदमवंतीशः, सुतामनुशुशोच तां । वत्से त्वमधुना वन्ये, पथि चंक्रमसे कथं । १२ ॥
॥१२॥