________________
मृगावती
॥११६॥
दत्व तन्मंत्र—मुत्वासप्रदमापदां । अनेन प्रणिधोयंते, पंचापि परमेष्टिनः ॥ ९० ॥ सद्यस्ते सफ- चरित्रम् लामीहा-मैहिकामुष्मिकश्रियां । विधाताऽयमचिंत्यो हि, महिमा मंत्रसंभवः ॥ ९१ ॥ इत्युक्त्वास्मै | नमस्कार-मयं मंत्रं ददौ मुनिः । चतुर्दशापि पूर्वाणि, यत्र लीनानि लीलया ॥ ९२ ॥ भूधवोऽभ्यः | स्तपूर्वस्य, मंत्रस्यास्य महर्षिणा । ध्यानं चासनबंधं च, शुद्धमध्यापितस्तदा ॥ ९३ ॥ तस्य जापाद्य- | मादिश्य, ययावभिनभो मुनिः । तद्गिरा मातुरुत्कंठा, सोऽपि कुंठां तदा व्यधात् ॥ ९४ ॥ शुद्धोद-| सरसि नातः, प्रातस्तत्पंकजैस्ततः । नित्यं नाभेयमभ्यर्च्य, तं मंत्रमजपन्नृपः ।। ९५॥ कोशांबीतः || समायातः, पुरुषः कश्चिदन्यदा । राज्ञे विज्ञपयामास, स्वरूपं पश्चिमेऽहनि ॥ ९६ ॥ तदा त्यक्तां त्वया देव, पांचालश्चतुराभिधः । दत्वा दृढमवस्कंद-माचस्कंद पुरी तव ॥ ९७ ॥ रुमण्वानपि मत्वेदं, डाहलेश्वरमभ्यगात् । प्रतापमाहतस्वाप-मिवोत्थापयितुं तव ॥ ९८ ॥ इत्याकर्ण्य विस्मृज्यैन-मुवाच स वसंतकं । सखे खेदोऽयमस्माक-मुपर्युपरि ढोकते ॥ ९९ ॥ हुताशस्याहुतिर्जाता, ॥११६ ॥ सुता प्रद्योतभृपतेः । एतामेवान्वगान्मंत्री, राज्यश्रीराददेऽरिभिः ॥ १०० ॥ वत्सभर्तुरहो कीर्ति-रहो