________________
मृगावती युग्मं ॥ ततोऽग्रतः क्रमात्क्राम-नभ्रंकषशिखं पुरः । एकं नगेंद्रमद्राक्षी - नरेंद्रः सवसंतकः ॥ ८० ॥ सोऽस्मिन् मनोरमाराम - रामणीयकशालिनि । आरूढः प्रौढलक्ष्मीक-मोक्षांचके जिनालयं ॥ ८१ ॥ तदंतरंतःकरण — प्रियां भावुकसंपदं । प्रतिमामादिनाथस्य, दृष्ट्वा तुष्टाव पार्थिवः ॥ ८२ ॥ नमो नाभिकुलांभोधि - कौस्तुभाय भवच्छिदे । व्यसनापातमातंग - सिंहपोताय तायिने ॥ ८३ ॥ इि स्तुतिपरस्तस्मै, प्रणयात्प्रणनाम सः । अभ्यर्णेऽभ्युदये पुंसा - मीदृश्युदयते मतिः ॥ ८३ ॥ ततो | धर्मं वपुष्मंत - मनंतज्ञानसंपदं । चारणश्रमणं तत्र स सानंदमवंदत ॥ ८४ ॥ सोऽभिनंद्याशिषा तेन संप्रसादमभाष्यत । महाभाग महाभाग्यै— स्तीर्थमेतदुपागतः ॥ ८५ ॥
रत्नशैलाधिपः शैलो, निःसीममहिमा ह्यसौ । विद्या विद्याधरैरत्र, शतकृत्वः प्रसाधिताः ॥ ८६ ॥ अयं विहरता स्वैर - मादिदेवेन यत्पुरा । भूधरश्चरणांभोज – रजोभिः सुरभोकृतः ॥ ८७ ॥ तेन विद्याधरैराद्यैः, श्रीनाभेयप्रभोरिह । विद्याधरविहाराख्यो, विहारोऽयं विनिर्ममे ॥ ८८ ॥ अस्माभिः किंव तीर्थेऽस्मिन्ननुग्राह्योऽसि सर्वथा । अभूर्मृगावतीकुक्षि- शुक्तिमुक्तामणिर्यतः ॥ ८९ ॥ एकमा
॥ ११५ ॥
O
ভউछ
चरित्रम्
॥११५॥