________________
मृगावती ॥ ११४ ॥
कथयामास सोऽप्यदः । भविष्यत्येष वर्षांते, दुःखाकूपारपारगः ॥ ६८ ॥ वंचितोऽनेन यच्चक्र-चक्रवाकीपिधानतः । याममेकं पुरा तस्य कर्मणस्तदिदं फलं ॥ ६२ ॥ किंत्वसामान्यमासाय, कन्यार नमयत्नतः । असौ साम्राज्यलक्ष्मी च, प्रेयसीं च प्रपत्स्यते ॥ ७० ॥
इति श्रुत्वा तं नत्वा, ताभ्यामनुगतोऽग्रतः । व्रजन्नुदयनो मान्यं, सेनान्यं समभाषत ॥ ७१ ॥ प्रियोक्तिभिर्मृषाद्यापि धूर्तैरार्त्तः प्रतार्यते । दग्धाप्युदीर्यते देवी, जीवतीति किमन्यथा ॥७२॥ भावी मे प्रियया योगः, प्रोषितप्राणयापि चेत् । पूर्वजा अपि सर्वेऽपि किं मिलेयुर्न मेऽधुना ॥ ७३ ॥ जीवत्यद्यापि देवीति, वदंती किंवदंत्यापि । प्राणप्रयाणभंगाय, जातेदानीं तथापि मे ॥ ७४ ॥ आशापि व्यवसायेषु, प्रवर्त्तयति यज्जनं । दूरं धावंति नाध्वानं, किं मृगा मृगतृष्णया ॥ ७५ ॥ त
ध्वजिनीनाथ, कौशांव्यालंबनं भव । इदानीं सा दशां कांचि -- त्प्रपन्नेति न वेद्यहं ॥ ७६ ॥ अथ शुभ्रमते भ्रातः स्मर्त्तव्यं मंत्रिणो वचः । यत्नः कार्यः प्रभावेव - मुक्त्वैकांते वसंतकं ॥ ७८ ॥ बाप्पांबुपंकिलीभूत-भृतलन्यस्तमस्तकः । रुमण्वान् स्वामिनं नत्वा, प्रत्यावृत्तः पुरींप्रति ॥ ७९ ॥
994
चरित्रम्
॥११४॥