SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मृगावती । प्रजानाथ-स्तं शुशोच पुनः पुनः । समं मुक्तोऽस्मि देव्या च, त्वया च सचिवोत्तम ॥ ५७ ॥ चरित्रम् त्वामंतरेण दूरेण, गतं मे सुखसंपदा । सद्बुद्धे राज्यधौरेयः, को हि त्वदपरो मम ॥ ५८ ॥ अपरा|धोपहूतस्य, त्वां विना भाविनी मम । विदित्वा विपदं सद्यः, कोऽद्य प्रतिकरिष्यिति ॥५९॥ संग्रामे-101 | प्वभ्यमैत्रीणे, मयि निर्व्याजपौरुषः । त्वां विना पुरतो भूत्वा, को धुरं धारयिष्यति ॥ ६० ॥ किमेवं | | वानुशोचामि, वेधसि प्रातिकूलिके । तद्गत्वा मातुरभ्यणे, कार्यः कार्यस्य निर्णयः ॥ ६१ ॥ परिचर्या | विनीताभ्यां, ताभ्यामनुगतस्ततः । स शोकविकलात्मापि, प्राचींप्रत्यचलदिशं ।। ६२ । भुज्यमानां To परैर्वीक्ष्य, जागरूकत्रपाभरः । अहोभिः पंचषैरेव, स्वभूमिममुचन्नृपः ॥ ६३ ।। कुर्वन् विश्राममा | रामे, कुत्रचित्सिद्धपुत्रकं । एकं निविष्टमैक्षिष्ट, सहकारतरोस्तले ॥ ६४ ॥ विलोक्य पुस्तकं हस्ते, R | नियतं ज्ञानवानयं । इत्यवेत्य नमस्यंत-स्तत्पुरस्तेऽप्युपाविशन् ॥ ६५ ॥ तं रुमण्वांस्ततोऽवादी10 दाबद्धविनयांजलिः । भवादृशाः प्रभोऽवश्यं, स्युः कालत्रयवेदिनः ॥ ६६ ॥ कदा व्यसनपारीणो, ॥१३॥ भविष्यत्येष नः प्रभुः । इदं निवेद्यतामस्ति, यद्यस्मासु कृपालुता ॥ ६७ ॥ इति तेन तदोक्तोऽस्मै, PI 000000
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy