________________
मृगावती
॥ ८० ॥
तदेतस्यापराधस्य । कौशांबीश त्वमीशिषे । चंद्रो नभश्च भूमिं च, समं विलभते न किं ॥ ५३ ॥ बालगोपालयोरेषा, लक्ष्मीरायततो यथा । समस्तापि तथा वत्स, वत्सेश्वर तवाप्यसौ ॥५४॥ तवोपयोगिनी ह्येषा, सफलोभवति स्फुटं । उपकारैकसारं मे । तद्वचो मंतुमर्हसि ॥ ५५ ॥ समानीय तदानीं त्वं ममैवोत्संगसंगितां । स्वयं देव्या मृगावत्या, तार्त्तीयकः सुतः कृतः ॥५६॥ आनभिराद्य कंठांता, त्वयि से प्रार्थनागवी । प्रत्यादेशभयाद्वत्स, वितनोति गतागतिं ॥५७॥ संभावयसि चेदानीं, प्रतिषेधाऽभयाक्षरैः ॥ तदेषा चरति स्वैरं त्वदीयश्रुतिगोचरे ॥५८॥ अथ वत्सेश्वरोऽजल्प-त्ससौष्टवमनिष्ठुरं । मम वः सांत्वनान्नष्टो, हठग्रहपराभवः ॥ ५९ ॥ पितृकर्तृकवात्सल्या - चित्तं क्रीतशंकितं । कायें मद्धेतुके क्वापि, ममादिश नरेश्वर ॥ ६० ॥ सत्युपादानसामर्थ्ये, तत्कार्यकरणक्षमः । धाधव तवादिष्टं, को नाम कुरुतेऽन्यथा ॥ ६१ ॥
उवाच चंडप्रद्योतः कुलोद्योत निशम्यतां । अस्ति वासवदतेति, पुत्री मे गोत्रजीवितं ॥६२॥ आराधितेन दत्तेयं, वासवेन सुता मम । ततो वासवदत्तेति मयास्या नाम निर्ममे ॥६३॥ श्रनिर्वि
चरित्रम्
॥ ८० ॥