SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मृगावतो चरित्रम् ॥३४॥ | गसो यद्वा, यद्वा दृष्टागसः स्वयं । परोक्ष्य निग्रहः कार्यः, कुप्यति स्मृतिरन्यथा ॥ ९३ ॥ परीक्षा- | विधिमेतस्य, तीव्रकोपः क्षितेः पतिः। मंत्रिणामुपरोधेन, कथंचित्प्रत्यपद्यत ॥ ९४ ॥ ___अथ चित्रकरस्यास्य, विकखरतरौजसः । नृपः सन्मुद्रकुब्जाया, वक्त्रमात्रमदर्शयत् ॥ ९५ ॥ | यथा विधिरनाधिस्तां, यथा संस्थानलांछनां । कुब्जामन्जसमानास्य-स्तादृशीमेव सोऽलिखत ॥ | ॥ ९६ ॥ दृष्ट्वास्य वरमाहात्म्यं, विस्मयस्मेरलोचनः । मूर्द्धानं धूनयामास, निःशेषपरिषजनः ॥२७॥ वयं कृतपरीक्षोऽपि, क्षोणीपालः क्रुधं दधत् । दधे न मधुरां छाया-मंतर्वह्निरिव द्रुमः॥ ९८ ॥ येनाऽदात विश्वेऽपि, वंशा विश्वंभराभृतां । ज्वलितो मे स कोपाग्नि-निष्फलो मास्मभूदिति ॥ ९९ ॥ आदिदेश नरेशोऽथ, चित्रकस्य गतत्रपः । दक्षिणे क्षोणदाक्षिण्यः, पाणी संदंशकर्तनं ॥ १० ॥ युग्मं ॥ तमादेशं निशम्याथ, न्यायनीरधयो जनाः । नृपस्याऽन्यायमुद्रीक्ष्य, वीक्षामासुः परस्परं ॥ १॥ उचिरे च वचो नीचे-रसो पश्यत कीदृशं । नियूंढोऽपि परीक्षायां, लभते पारितोषिकं ॥ २॥ प्रावृषेण्यपयोवाहा-दहिवृष्टिरियं ध्रुवं । प्रसादार्हस्य भूपाला-द्यदेतस्यैष निग्रहः ॥ ३ ॥ POOOOOOD ॥३४॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy