________________
मृगावती | गोचरः किं तु नास्माकं, नृपतो कुपिते सति । यदेव रोचते राजा, तदेव कुरुते यतः ॥ ४ ॥ ता- चरित्रम् ॥३५ दृशं दुर्नयं दृष्ट्वा, लब्ध्वा प्रस्तावमात्मनः । ततो युगंधरो मंत्री, वक्तुमेवं प्रचक्रमे ॥ ५॥ कोऽयं |||
| त्वया महीनाथ, नव्यो नीतिक्रमः कृतः । अक्षुण्णेन नृपैः पूर्वैः, पथा संचरसे कथं ॥ ६॥ कोपेन | पवनेनेव, दीपितो दुर्नयानलः । प्रभो भृमीभृतामाशु, वंशदाहाय जायते ॥ ७ ॥ प्राकृतोऽप्यवमं| तव्यो, न बुधेन शुभेच्छना । वराकः कृकलासोऽपि, विषं वर्षति रोषितः ॥ ८॥ दत्ते महांतमा | | संके, सामान्योऽप्यवमानितः । भुजंगो गूढमागत्य, दशत्येव खलीकृतः॥९॥ तदेष देवतादत्त-वरः | सन्मानमर्हति । यंत्रितश्च प्रसादेन, राज्यं ते भूषयिष्यति ॥ १० ॥ लोकंपृणगुणस्यास्य, विहिता त्व- | वमानना | दंदशूकमिवामर्ष, बलाजागरयिष्यति ॥११॥ व्यंगोऽपि पुरुषोऽमर्षा-समये दुःखदो भवेत् | | शिरःशेषोऽपि किं राहु-चंद्रसूर्यों न बाधते ॥१२॥ अपहत्यवमंतारं, सामर्षः पुरुषो यथा। कथ| यामि तथा देव, दृष्टांतमवधारय ॥ १३ ॥
॥३५॥ __ अस्ति प्रत्यापणन्यस्त-रत्नं रत्नपुरं पुरं । सरयूर्यस्य पर्यंत-प्रसृता परिखायते ॥ १४ ॥ वि