________________
मृगावती
चरित्रम्
॥३३॥
| नाथ न युज्यते ॥ ८१ ॥ आचचक्षे ततो यक्षः, कथमोऽयमर्थ्यते । तव मृत्युपरित्यागात् , सिद्ध एव स्वतो यतः ॥ ८२ ॥ तेनेत्युक्ते मयाऽप्येषः, स्वजातावपि दुर्लभः। प्रसादविकसन्नेत्रा-द्वरस्तस्मादया- || च्यत ॥ ८३ ॥ सपदस्याऽपदस्यापि, चेतनस्येतरस्य च ॥ वस्तुनो यस्य कस्यापि, देशमेकं विलोकये ।। ८४ ॥ तस्याऽध्यक्षीकृतस्येव, तव देव प्रसादतः। तादृक्षमेव निःशेष, लिखेयं रूपमंजसा | | ।। ८५ ॥ एवमस्त्विति यक्षोऽपि, प्रतिश्रुत्य तिरोदधे । देवता न हि दृश्यंते, विद्युदुद्योतलीलया ॥८६॥ lo | एकं प्रतीकमालोक्य, रूपनिर्माणकर्मणा । वरस्याऽव्यभिचारित्वं, मया सत्यापितं बहु ॥ ८७ ॥ | ततोबामिव कौशांबी, स्मृत्वा सोत्कंठमागमं । चित्रे चात्र समादिष्टो, विष्टपेंद्र द्रुतं त्वया ॥ ८८ ॥ | चित्ररूपेऽप्यभूदेव्या, मषीलक्ष्मेदमत्र यत् । अपराध्यति तलासी, केवलं देवतावरः ॥ ८९ ॥ पर्यवस्यति देवस्य, प्रत्ययश्चेन्न चेतसि । जनस्यास्य तदा सद्यः, प्रसादोऽस्तु परीक्षया ।। ९० ॥ इत्युक्त्वा विरते तत्र, नीतिपारीणबुद्धयः । युगंधरादयोऽमात्या, युगपज्जगदुस्तदा ॥ ९१ ॥ न्यायावतीर्णमाकर्ण्य, शिल्पिनोऽपीदृशं वचः । अभृम भूमिपालेंद्र, वयं विस्मितचेतसः ॥ ९२ ॥ आकर्णिता