________________
मृगावती
३२॥
स्यातिरहस्यं हि, प्राणिरक्षां प्रचक्षते ॥ ७० ॥ युग्मं ॥ ततो बाष्पनिरुद्धाक्षी, वृद्धा वाचमुपाददे ।। | मम त्वमपि पुत्रोऽसि, वत्स वात्सल्ययोगतः ॥ ७१ ॥ निर्दाक्षिण्येन यक्षेण, त्वयि नीतेंतकांतिकं ।। स्युमें पुत्र भृशं नेत्र-वारिपूरमुचः शुचः ॥७२॥ इति ब्रुवाणां तां वृद्धां, निबंधादहमभ्यधां । ऐषसो | विषमेऽप्यस्मिन्, यतिष्ये चित्रकर्मणि ॥ ७३ ॥ उपवासत्रयस्यांते, ततः स्नानपुरस्सरं । गंधोन्मदिष्णुभिर्गानं, चंदनाथैरचर्चयं ॥७४॥ सितवस्त्रधरो वस्त्र-पल्लवस्थगिताननः । शुद्धैर्वगैर्नवैः कूर्चे-भक्त्या | यक्षमचित्रयं ॥ ७५ ॥ विरचय्य ततश्चित्रं, नम्रो व्यज्ञपयं च तं । त्वादृक्षः क्व विभो यक्षः, स्वल्प- 1 शिल्पी क्व मादृशः ॥ ७६ ॥ तदत्र चित्रव्यापारे-ऽपराद्धं यन्मया त्वयि । तत्सम्यक् क्षम्यतां हंत, संतः प्रणतवत्सलाः ॥ ७७ ॥ इति विज्ञापितो यक्षः, प्रत्यक्षीभूय भूयसा। मां जगाद प्रसादेन, | भक्तिग्राह्या हि देवताः ॥७८ ॥ अकार्षीः साहसं यच्च, यच्चेदं शोचमाचरः । तेन ते सुष्टु तुष्टोऽस्मि, वृणीष्व वरमीप्सितं ॥ ७९ ॥ यक्षं वाचमथाऽवोचं, पुण्यैः पुण्यजनेश्वर । यदि मह्यं प्रसन्नोऽसि, | तन्मे देहीदमीहितं ॥ ८० ॥ तात साकेतलोकस्य, मा कृथा मृत्युवैवशं । असौ निशाचराचार-स्तव
॥३२॥