________________
मृगावती
॥ १३६ ॥
प्रेम, प्रेक्षते हि न विप्रियं ॥ ११ ॥ अद्यप्रभृति कल्याणि, तपोभिस्ते वशंवदः । कृतोऽस्मि तत्फले प्राप्ते, पर्याप्तं तैरतः परं || १२ || अपि दास्यं त्वदास्यस्य, शीतांशुः स्पृहयन्नयं । शंके कथंचिदप्राप्य, लज्जितो गगनं ययौ ॥ १३ ॥ उत्पलैस्तव नेत्राभ्या - मभ्युपेत्य पराजयं । श्यामीभूतैर्जलस्यांत—- पापातो व्यतन्यत ॥ १४ ॥ स्वाधीनेऽपि सुधासिंधौ, त्वद्वचोऽपरनामनि । विदधे विबुधैर्नूनं, मिथ्यापाथोधिमंथनं || १५ || मुनीनां देवतानां चा-मोघां वाचं समर्चये । दत्ता वासवदत्ता मे, | ददता त्वां च वेधसा ||१६|| पद्मावती तदाकर्ण्य, लेभे मुदमुदित्वरीं । दत्तसादं विषादं च, प्रद्योत - नृपनंदीनी ॥ १७ ॥ अंशवो हि सहस्रांशोः, पंकजिन्याः प्रियंकराः । तेऽप्यहो कैरविण्यास्तु, नितरामप्रियकराः ॥ १८ ॥
अत्रांतरे जराग्रस्त-समस्तांगः शनैः शनैः । एत्यैकः कंचुकी कंप्रः पृथिवीपतिमब्रवीत् ॥१९॥ वत्सेश त्वां महाबाहु — नृपः प्रार्थयतेऽधुना । इयं नो दुहिता तावत्वामेव पतिमीहते ॥ २० ॥ अस्यास्तदिच्छां वत्सेश, सफलीकर्तुमर्हसि । प्रतिश्रुते त्वया कर्म, कुर्मो वैवाहिकं वयं ॥२१॥ इत्यु
चरित्रम्
1
॥१३६॥