SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मृगावती चरित्रम् ॥१३७॥ | क्तवंतमौत्सुक्या-तमुवाच वसंतकः । गत्वा ब्रूहि माहाबाहु-महीपालं प्रमोदतः ॥ २२ ॥ यथासौ वत्सराजेन, सर्वेऽप्यर्थः प्रतिश्रुतः। तेनेत्युक्तोऽपि भृभर्तुः, कंचुकी मुखमैक्षत ॥ २३ ॥ नृपोऽप्यूचे प्रमाणं नः, सर्वत्रार्थे वसंतकः । कदाचनापि नास्माक-मुल्लंघ्य वचनो ह्यसौ ॥ २४ ॥ राज्ञोऽप्येत- 10/ न्मतं ज्ञात्वा, प्रीतः प्रोवाच कंचुकी । गमनायानुजानीहि, राजन् राजसुतामपि ॥ २५ ॥ येनाद्य विजयो नाम, योगो धाम सुखश्रियां । विवाहमंगलारंभ-मस्मिन्ननुभवत्वियं ॥ २६ ॥ इतो लग्नं ग्रहर्दिष्टं, सप्तभिः सप्तमे दिने । विधिवा यत्र संयोज्य-कीर्त्या संयोक्ष्यते स्वयं ॥ २७ ॥ इत्युक्ते तेन भूपालः, प्राह पद्मावतींप्रति । राजपुत्रि यथाभीष्टो, विधिः सवों विधीयतां ॥ २८ ॥ प्रतस्थे | साज्ञया राज्ञो, मंद मंदं स्खलदतिः । तादृशामीदृशप्रेम्णां, दुस्त्यजः प्रियसन्निधिः ॥२९॥ तत्र नेत्रातिवर्त्तिन्यां, शून्यः स्थित्वा क्षणं नृपः। किमत्र मित्र नः कार्य-मिति देवालयं ययौ ॥ ३० ॥ प्रद्योतपुत्री श्रुत्वेदं, खेदेनोवाच कांचनां । दृष्टव्यमधुना दृष्टं, श्रोतव्यं च श्रुतं मया ॥ ३१ ॥ अभृत्प- IRID१३७॥ द्मावतीलाभो, यतोऽस्य तपसां फलं । ततः सांप्रतमादृत्यो, मृत्युर्वासवदत्तया ॥ ३२ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy