SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सृगावती ॥१३८॥ प्रद्योतजाथ जगदे, तदा कांचनमालया । मास्मगा देवि निर्वेद - मनिर्वेदः श्रियां पदं ॥३३॥ दृश्यतामवधिर्देवि, देवस्य सचिवस्य च । अपकारेऽपि मास्मैवं दर्शयाविधिमात्मनः ॥ ३४ ॥ समं सुबाहुसुतया, गुप्ताकारेंगिता सती । विवाहं पश्य देवस्य, रक्षंती चक्षुरादरात् ॥ ३५ ॥ तदेहि देवि गच्छंत्या, गम्यते सममेतया । इति कांचनया निन्ये, पद्मावत्यंतिकेऽथ सा ॥ ३६ ॥ कथं सखि चिराद् दृष्टे - त्यालप्य स्नेहनिर्भरं । पद्मावती तदाचख्यो, सर्वं प्रद्योतजन्मनः ॥ ३७ ॥ सखि त्वत्कांक्षिते सिद्धे, सिद्धं मे सर्वमीप्सितं । इत्यवंतीशनंदिन्या, वचसा साऽभ्यनंद्यत ॥ ३८ ॥ तत्राथ सहवास्तव्यं, जनमापृच्छ्य वत्सला । पद्मावती ययौ पुर्यां समं वासवदत्तया ॥३९॥ सोधमागत्य सा भक्त्या, पित्रोः पादाववंदत । तौ भवेवरपत्नीति, तथ्यां ददतुराशिषं ॥ ४० ॥ नयविक्रमसंपन्नः, क्क मे बंधुः सुदर्शनः । इति पृष्टस्तया हृष्टो, विष्टपाधीश्वरोऽवदत् ॥ ४१ ॥ अस्मै पत्ये यदा पुत्रि, तपस्तप्तुं | वनेऽभ्यगाः । रुमण्वांस्तस्य सेनानी - स्तदानीं मामुपागमत् ॥ ४२ ॥ उत्पाटयामि पांचालं, नद्योघ इव पादपं । त्वं घनः स्याः सहायश्चे – देवं मे स व्यजिज्ञपत् ॥ ४३ ॥ ततः सारबलः सोऽयं, चरित्रम् ॥ १३८ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy