SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ BLOCK मृगावती तदिदं दूति मद्वाचा, त्वया वाच्यः प्रभुनिजः । क्व राजा त्वं महाबाहु-रिदं दुश्चरितं क्व च ॥१८॥ चरित्रम् IPI कुलीना नाम कोलीनान्, कामं कामान् प्रचक्षते । अहल्यामकुलीनस्तु, चकमे मेघवाहनः ॥ १९॥ ॥ ३॥ | गुरुवर्गे वैनयिकं, विरुद्धस्मरनिग्रहः । यूनामपि शुभं यूनां, नैसर्गिकमिदं द्वयं ॥२०॥ तस्मादधर्ममन्याय, | मा कर्म नृपते कृथाः । सतोशापानलज्वाला-रसाभिज्ञश्च मास्मभूः ॥ २१ ॥ अभिधायेति गंभीरं, | | दूती च विससर्ज सा । वर्ष संवर्मयामास, नूतनं च ससौष्टवा ॥२२॥ ततो दूतीमुखाद ज्ञातं, राज्ञा | | तदनुशासनं । च्युतफाल इव द्वीपी, क्षमापः प्राप विलक्षतां ॥ २३ ॥ सोऽचिंतयदहो बुद्धि-रहो। | तत्प्रोढिरद्भुता। यदात्तशस्त्रशास्त्रोऽपि, स्त्रियाप्येवं पराजितः ॥ २४ ॥ कुवें सर्वंकषं तस्या, विक्रमो- IR | पक्रमं परं । मत्कर्तृकेण शत्रूणा-मसो दुर्गेण दुर्जया ॥ २५ ॥ इति चिंतामषीलितं, तमूचुर्मत्रिण| स्तदा । देव नीतिविपर्यासः, पश्यैवं पर्यवस्यति ॥ २६ ॥ अस्य पापैकमूलस्य, महारंभमहीरुहः ।। इदृक्पराभवपुष्पं, फलमन्यद्भविष्यति ॥२७॥ इतो मृगावती वीक्ष्य, तदा दुर्जयमात्मजं । राज्ये निवे-RIN६३॥ शयामास, पैत्रिके पितृसन्निभं ॥२८॥ रुमण्वांस्तस्य सैन्येशो, मंत्रो यौगंधरायणः । अजायेतां सुतौ ।
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy