________________
मृगावती | विरतामेता, मृगांकः प्रत्यवोचत । विद्यासिद्धौ तदेकारः, क मातमें स बांधवः ॥ ४९॥ अध्यासीनो चरित्रम्
| लतामध्यं, तदेकभ्यानमानसः । चंद्रचूडो मृगांकस्य, तया संदर्शितस्ततः ॥ ५० ॥ हेमाद्रिमिव नि-01 | स्तंद्रः, परितस्तल्लतागृहं । मृगांक इव निःशंको, मृगांकः स्वैरमभ्रमत् ॥ ५१ ॥ तदा मृगांकमालोक्य, | शलवस्तेऽपि तत्रसुः । हरेरालोकने हंत, स्फुरेयुः किमु फेरवः ॥ ५२ ॥ प्रज्ञप्त्या दत्तमासाद्य, राज्य| मुर्जस्वलं निशि । चंद्रचूडः प्रगे मातु-रेत्य पादाववंदत ॥ ५३ ॥ पत्रलेखा तमाशीभि-रभिनं-10 | याददे वचः। वत्सांतरायहंतायं, वास्तवस्तव बांधवः ॥ ५४॥ ततो ज्ञातप्रबंधेन, बंधुवत्प्रीतिबंधुरः।। | आलिंग्य चंद्रचूडेन, मृगांकः समभाष्यत ॥ ५५ ॥ भ्रातरस्योपकारस्य, मागां प्रत्युपकारितां । ममेव | | हि तवापीह-व्यसनं जातु मास्मभूत् ॥ ५६ ॥ साहायकपणक्रीतं, राज्यमेतत्तवैव मे । अमी चापि |
मम प्राणा-स्तवैवायतवृत्तयः ॥ ५७ ॥ कृपाणं तु गृहाणैन-मस्माकं स्मृतिहेतवे । ध्रुवं पाणि| स्थितेऽमुष्मिन्, जिष्णुनापि न जेष्यसे ॥ ५८ ॥ चंद्रचूडप्रदत्तासे—रुपनिन्येंगुलीयकां । पत्रलेखा मृगांकस्य, तच्छक्तिं चैवमादिशत् ॥ ५९ ॥ अस्मिन् सन्निहिते वत्स, दिव्यातिशयशालिनि । स्था
00420404