________________
106
मृगावती
॥ ४० ॥
वरं जंगमं चापि, न जातु प्रभवेद्विषं ॥ ६० ॥ एषाऽवस्वापिनी विद्या, पाठसिद्धा च गृह्यतां । करे वैरिजयो यस्यां न च प्राणिवधः क्वचित् ॥ ३१ ॥ तत्तयोरुपरोधेन, मृगांकः सर्वमाददौ । किं किं नाम न कुर्वति, संतः प्रार्थनया सतां ॥ ६२ ॥ तदा तदीयं सत्कारं, न्यक्कारं च पुरातनं । परामृशन्मृगांकोऽभू-दास्पदं हर्षशोकयोः ॥ ६३ ॥ पत्रलेखा समालोक्य, संकीर्णरससंकुलं । आकारेंगितनिष्णाता, प्राह बाहौ विधृत्य तं ॥ ६४ ॥ उन्मीलत्प्रमदालोक— कल्लोलमपि लक्ष्यते । किंचित्तमित्रव्यामिश्रं, प्रभातमिव ते मुखं ॥ ६५ ॥ वत्साभिधत्स्व तत्सत्यं, किं नु दुःखाकरोति ते । मयि मातरि ते नून - मनावेद्यं न विद्यते ॥ ६६ ॥ ततस्तयोर्मृगांकस्तां, पूर्वामकथयत्कथां । दुःखकारणमूचे च मन्युपर्यश्रुलोचनः ॥ ६७ ॥ न दुनोति किमप्यंतः, स भृधवपराभवः । क्षोणीपतिः क्षणामित्र-ममित्रं वा क्षणाद्भवेत् ॥ ६८ ॥ प्राणानादाय नष्टेन, दुष्टेन पितरो मया । तत्रैव यत्पुनस्त्य - तो, तदेव व्यथते मम ॥ ६९ ॥ एतयोस्तान्यनिष्टानि, विकल्पैः स्नेहढौ कतैः । नृपोपज्ञानि संकल्पाद्, ये मातर्निरंतरं ॥ ७० ॥ किंवदंतीमहं पित्रो - र्लभेयं यदि संप्रति । तदा तदुचितं किंचि - दनुवर्त्ते
1
चरित्रम्
॥ ४० ॥