________________
मृगावती
परित्रम
॥४१॥
प्रवर्त्तनं ॥७१॥ चंद्रचूडस्ततो ध्यानं, दधाबभिदधावथ । प्रज्ञप्त्याऽवधिना ज्ञात्वा, सर्वमावेदितं मम ॥७२।। परं तत्कंठनाड्यंत-रभ्यस्यति गतागतं । मूकस्येव न मे जिह्वा, प्रह्वीभवति जल्पितुं ॥७३॥ | तथापि धैर्यमालंब्य, कथ्यते शृणु बांधव । तदा निहतपत्तिस्त्व-मुत्तराशामशिश्रयः ॥ ७४ ॥ नृपेण | त्वदसंप्राप्ति-प्रकामज्वलितक्रुधा । कटमईः कुटुंबस्य, कारितस्तव निर्दयं ॥७५॥ तदाकर्ण्य मृगां
केन, शोकाश्रुजलकुल्यया ॥ सेचं सेचं परां वृद्धिं, लंभितः क्रोधपादपः ॥७६॥ नोत्पाटयामि चेदेनं, | | वर्षांतर्नरविक्रमं । तदा वह्नौ विशामीति, स प्रतिज्ञां विनिर्ममे ॥ ७७ ॥
चंद्रचूडमथापृच्छय, पत्रलेखां प्रणम्य च । रत्रप्रस्थात्प्रतस्थेऽसो, प्रत्यवंती समुत्सुकः ॥७८॥ | विद्याप्रसादमाहात्म्या-ज्जितारिमणिनूपुरे । चंद्रचूडोऽपि चिक्रीड, स्वच्छंदं सपरिच्छदः ॥ ७९ ॥ | मृगांकः कामसंपूर्ति-सज्जामुजयिनी ययौ । सिप्रासमोरणो यस्या-माचामति रतिक्लमं ॥ ८ ॥
तस्यां विलासिनीवक्त्र-ज्योत्स्नाछिन्नमनःक्लमः । दिनान्युद्दामपंचेषुः, पंचबाण्यत्यवाहयत्॥१॥ बाल्य| यौवनयोः सोऽथ, मध्ये वयसि तस्थुषीं । कांचिद्भरिपरीवारां, बालामालोकयत्पथि ॥ ८२ ॥ मृगां
BAGGAG.
॥४१॥