________________
मृगावती
चरित्रम्
॥४२॥
कस्य मनस्यासी-तां प्रेक्ष्य मृगचक्षुषीं । इयं नेत्रसुधावृष्टि-न वा सृष्टिधुंवं विधेः ॥ ८३ ॥ लीला- लोकनमात्रेण, बलादाच्छिद्य मे मनः । निन्ये यत्तदियं बाल्ये-ऽप्यवश्यं पश्यतोहरा ।। ८४ ॥ एवं | चिंतयतस्तस्य, सा दृशः पथमत्यगात् । तदेकाग्रमनोवृत्तिः, स यावत्तत्र तिष्ठति ॥ ८५ ॥ तावत्क्षणांतरे जात-क्षोभामैक्षत विमितः । अतुच्छोच्छलदानंद-सज्जामुज्जयिनों पुरों ॥८६॥ काश्चिद्रुदंत्यः पूत्कारै-याँति राजकुले स्त्रियः । क सा वत्सेति जल्पंत्यः, सार्ने निर्याति काश्चन ॥ ८७ ।। बाष्पताम्यत्पुटे नेत्रे, दधद्वालोधवोऽपि च । लोकेनाऽस्तोकशोकेन, संयुक्तो निर्ययो बहिः ।। ८८ ।। विरं| गस्फारनोरंगी-पिहिताननपंकजाः । रुदंत्योऽत्यंतशोकार्ता, यांति शुद्धांतयोषितः ॥ ८९ ।। एकात| पत्रं तत्रेदं, शोकराज्यं विलोक्य सः । समपृच्छत गच्छंती-मेकां पंकजलोचनां ॥ ९० ॥ सांद्रं किमेतदुन्निद्र-मवंत्यां शोकवैवशं । अनल्पदुःखं साऽजल्प-न्महाभाग निशम्यतां ॥ ९१ ॥ ___अत्रास्ति त्रिदिवाधीश-बिंबं बिंबिकभूपतिः । तस्याऽवदातसौंदर्या, सुता कनकसुंदरी ॥ ९२ ॥ | साथ प्राप्तवरा बाला, कानने कुसुमाकरे । देवस्य मदनस्याय, नमस्यायै प्रगेऽगमत् ॥ ९३ ॥
॥४२॥