________________
मृगावती
चर्सि
॥८७॥1
| तस्थावुग्रोऽपि, ग्रावोत्कीर्ण इव द्विपः ॥ ३२ ॥ अयस्कांत इवानंदी, घोषो घोषवतीभवः । अयस्पिंडमिवाकर्ष-तं वारणशिरोमणि ॥ ३३ ॥ उल्लंघ्य दूरमध्वानं, विपंचीध्वनिनाऽमुना। पोतः सुपवनेनेव, | खां पुरीमाययो गजः ॥ ३४ ॥ उद्वेल्लबल्लकीनाद-नव्यांकुशवशंवदः । एत्य स्तंभमवष्टभ्य, तस्थौ । खस्थः स कुंजरः ॥ ३५॥ उद्दामगुणपुष्पश्री-वसंतोऽथ वसंतकः । भद्रवत्या महामात्रो, वत्सराज | व्यजिज्ञपत् ॥ ३६॥ धात्रीधव तवालापैः, कलापैरिव केकिनः । अतिचित्रैरतिस्निग्धै-रधमणोऽस्मि |AI निर्मितः ॥ ३८ ॥ द्विवाहोरात्रमित्रस्य, जनस्यास्य कदाचन । व्यापार्यास्तन्निजे कायें, प्राणाः स्वामि- IN निमे त्वया ॥ ३९ ॥ स्वस्थानमधुना गंतु-मादेशं देहि मे प्रभो । इति वत्सेशमापृच्छय, स्वावासेऽ- | गावसंतकः ॥ ४० ॥ तस्यां गंधर्वशालायां, भुक्तिगुप्तिगृहे स्थितः । सप्रेमां वत्सराजोऽपि, राजपुत्री- |
मपाठयत् ॥ ४१ ॥ दूरे समस्तमप्यन्य-न्न क्षेमालापतोऽपि तं । तदभ्यनंदत्प्रद्योत-स्तेन सोऽजनि IN दुर्मनाः ॥ ४२ ॥ स दध्यौ भ्रमरश्यामा, प्रद्योतस्य मुखद्युतिः । अनेनाप्यवदातेन, दृश्यतेऽसौ यदी- 161
दृशी ॥ ४३ ॥ तन्मन्ये मन्युजननीं, वहत्येष विपक्षतां । नीलोपाधिं विना न स्या-नोलता स्फटि
@0000000
॥८७॥