________________
मृगावतो । बितं । अधुना तु त्वयि धुयें, कथमस्मि प्रमद्धरः ॥ ६१ ॥ इदानों तदिमाः संतु, राजन्वत्यस्त्वया |
प्रजाः । प्रजापालनसंभृतै-यशोभिः सुरभोभव ।। ६२ ॥ ततो विज्ञपयामास, स राजानं कृतांजलिः। राज्यमल्पेतरान् कल्पान्, देव एव करोत्विदं ॥ ६३ ।। त्वत्पादपरिचर्या हि, राज्यादप्यधिका मम ।। सुप्रापमेव साम्राज्यं, गुरूपास्तिस्तु दुर्लभा ॥ ६४ ॥ ततो राजा करे धृत्वा, दत्वा तस्मै निजं पदं ।। उपाददे तदेकायो, मुनीनां पदमात्मना ॥ ६५ ॥ तथा तां पालयामास, प्रजा नव्यः प्रजापतिः ।। | ऊर्वीपतीनां पूर्वेषां, यथासौ जातु नास्मरत् ॥ ६६ ॥ गुणिना तेन निन्याते, न्यायधर्मों समुन्नति।। | ताभ्यां तदात्मजा कोर्तिः, परां वृद्धिमनीयत ॥६७|| ततः पितृवधामर्षः, समयज्ञ इव द्रुतं ॥ अमु| मुत्साहयामास, निहंतुं नरविक्रमं ॥ ६८ ॥ सोऽथ दूतसमाहूत-सामंतपरिवारितः । चचाल प्रबलैः । | सैन्यै-रवनि कंपयन्निव ॥ ६९ ॥ भुवं भल्लमयीं कुर्वन, कुर्वन् कुंतमयों दिवं । पल्लोपतिर्विराधाख्य-10 स्तं रुरोध पथि क्वचित् ।।७०|| नरविक्रममित्रेण, रुद्धस्तेन स भूपतिः। मृगारिरिव निःशंक–श्चितयामास चेतसि ॥ ७१ ॥ अन्योन्यं सैन्ययोः कृत्वा, कुंताकुंति शराशरि । प्रथयिष्यामि यद्येनं, कृ
Drom000
%0000@@@
॥४९॥