________________
मृगावती
॥ ९८ ॥
लोचनां । नृपो निजांकपल्यंके, राजपुत्रीमसूषुपत् ॥ ५७ ॥ सरोज सुकुमालाभ्यां कराभ्यां तदभि ज्ञया । अंहिसंवाहनं चक्रे, तस्याः कांचनमालया ॥ ५८ ॥ इयं हि सहते क्लेशान, मत्कृतानिति चिंतया । विष्टोऽयमिति सेर्येव न निद्रा भूपमभ्यगात् ॥ ५९ ॥ तस्या मृगदृशो रक्षा - जागरू कस्य भूपतेः । अनल्पैरेव संकल्पै - विभातास्म विभावरी ॥ ६० ॥ भद्रे पांथासि तन्निद्रां सत्वरं मुच्यतामिति । शंसंतश्चक्रिरे तारं, शब्दान् शंके शकुंतयः || ६१ || तस्याः श्रमजुषः शंके, करालंबनहेतवे । करान् प्रसारयामास, लोकबंधुर्दिनेश्वरः ॥ ६२ ॥ ततः सा मंदमुत्थाय, चचाल पदचारतः । को दृष्टसमादिष्टां वर्तनीमतिवर्त्तते ॥ ६३|| तदा पादाः सहस्रांशो - रायतंते यथा यथा । क्लमाप्रद्योत दुहितु - मंदायंते तथा तथा ॥ ६४ ॥ तरुणे तरुणौ याव - ते सर्वे विश्रमार्थिनः । साकांक्ष चिक्षिपुश्चक्षुः प्रतिवृक्षं प्रतिक्षणं ॥ ६५ ॥ पुरो भयंकरां ताव - तं हक्कामुपशुश्रुवुः । साक्षाच्चकुश्च सन्नद्धा - मुद्धतां शाबरीं चमूं ॥ ६६ ॥ अथ प्रद्योतदुहिता भीताऽभाषत भूपतिं । एतैः पुरस्तादस्तोकै — रुद्धोऽध्वा पश्य दस्युभिः ॥ ६७ ॥ अयं नो निःसहांगानां धिगनर्थः पुनः पुनः । अथवा
चरित्रम्
॥ ९८ ॥