________________
मृगावती अवधूय निजान् वृद्धान्, क्रोधांधैर्यद्विधीयते । भवेत्तस्य परीणामो, ममेवानुशयावहः ॥ ७३ ॥ स्व- चरित्रम्
कर्मणः परोपाक-मेवमाकलयन्नहं । कस्मैचिन्नैव कुप्यामि, नैव कोप्ये च कंचन ॥ ७४ ॥ इति चिंतापरं कांतं, दुरंतव्याधिबाधितं । उवाच विनयादात्त-सतीमार्गा मृगावती ॥ ७५ ॥ धालीश | मंत्रिभिश्चक्रे, पुरी पिहितगोपुरा। वप्रश्च विविधैर्योधैः, संरुद्धः कपिशीर्षगैः ॥ ७६ ॥ शोलं मे मलि| नोकर्तुं, नालं मालविकाधमः । स्वामिन् वज्रमणेभैंदे, कस्य स्यात्प्रभविष्णुता ॥ ७७ ॥ असावु-IN | दयनः सूनु-रधृष्यस्तव विद्विषां । बालोऽप्यालोक्यते केन, दृशाप्यहिमदीधितिः ॥ ७८॥ तस्मा-101
न्मास्म पुरीं मास्म, मां मास्म शिशुमात्मजं । एकं विवेकमालंब्य, भूनाथः हृदये कृथाः ॥ ७९ ॥ | केवलं परमात्मानं, सर्वज्ञं ज्ञातनंदनं । उपासितं चिरं चित्ते, निश्चिंतः प्रणिधेहि तं ॥ ८० ॥ सर्वेषु | | पुरुषार्थेषु, धर्म एवांगिनां निजः । जन्मिनां यो भवत्येकः, परलोकपथेऽग्रगः ।। ८१ ॥ अष्टादशापि | दुष्टानि, पापस्थानानि संवृणु । स्वामिन्नस्यामवस्थायां, स्मर पंचनमस्कृतिं ॥८२।। अनुशास्तिमिमां |AI॥५९॥ 6 तस्याः, प्रेयस्याः स्वादयंस्तदा । शतानीकोऽस्तसंसार-संतापः प्राप पंचतां ॥ ८३ ॥ तदापि व्या-IN