________________
॥६
॥
मृगावतो पि सा देवी, नो शोकेन विवेकिनी । विस्फुरति किमालोके, लोलास्तास्तिमिरोर्मयः ॥ ८४ ॥ ततःचरित्रम्
पत्युनिरोत्सुक्या-द्विधायाथोलदेहिकं । इत्थं चेतसि निश्चिक्ये, कर्त्तव्यं समयोचितं ॥४५॥ विसूत्रिततनुत्राणं, विना भूपादभूद् द्वयं । उज्ज्वलं मम शीलं च, राज्यमेतच्च संप्रति ॥ ८६ ।। एतद् द्वितयमप्यद्य, यथा प्रद्योतभूपतिः। नैव स्वच्छंदमास्कंदे-त्तथा कार्या मतिर्मया ॥ ८७ ॥ यद्येत| स्य तिरस्कारः, पन्नगस्येव दर्श्यते । तदाविष्कृत्य दौरात्म्यं, समग्र ग्रसते ह्यसौ ॥ ८८ ॥ अन्यथैव पराजेष्ये, तदेनमिति चेतसि । निश्चित्य चतुराभिख्यां, सखोमाह्वास्त सा ततः ॥८९॥ सा सकर्णा 10 तया करें, दत्वा शिक्षा मनीषितां । प्रद्योतभूभुजोऽभ्यणे, प्रहिता हितमानसा ॥ ९० ॥ उपेत्य सा| रहः प्राह, प्रणयादिति भूपतिं । भवंतमंतिकस्थेव, राजन् देवी वदत्यदः ॥ ९१ ॥ अस्तं दिनक्षयाः | दाप्ते, स्वामिनि युतिमालिनि । रजनीजानिमुन्मत्ता, स्वतः संक्रामति द्युतिः ॥ ९२ ॥ दिवं याते ||
शतानोके, तदेषोऽपि जनोऽधुना । प्रेमपाशसमाकृष्ट-स्तवागंता स्वयंवरः ॥९३॥ ममायं सरलो बालIN स्तनुजस्तनुसैनिकः । बलिष्टारातिसंक्लिष्टः, संप्रत्यंचति शोच्यतां ॥९४॥ पराभवमरातिभ्यो, वीप्सया ||