________________
मृगावता
लप्स्यते ह्यसो । इति मामोरसः स्नेहो, विक्लवीकुरुतेतरां ॥९५॥ विघ्नमेनं मनोऽभीष्ट-सिद्धो विद्धि चरित्रम् धराधिप । वदंतीमेव तामेवं, बभाषे रभसान्नृपः ॥ ९६ ॥ कुतो पैलव्यवैयग्यं, भद्रे भद्रंकरे मयि । उपद्रवति दारिद्यं, मित्रे रत्नाकारेऽपि किं ॥९७॥ मद्भुजमंडपच्छाये, सुखासीनस्य किं भवेत् । सुत| स्योदयनस्येह, शत्रुभ्यस्तापविप्लवः ॥ ९८ ॥ चतुरोवाच बालोऽयं, दवीयोवर्तिनि त्वयि । अरिभ्योऽ- | |भ्यर्णचारिभ्यः, कुतः स्यादकुतोभयः ॥ ९९ ॥ एवं सति महाराज, सत्यमेतद्धि जायते । योजनानां
शते वैद्यः, क्रुद्धो मूर्ध्नि फणी पुनः ॥ १०० ॥ जगादोजयिनीनाथः, कथ्यतां कथमात्मजं । सर्वथा निर्भयं मन्यं, मन्यते स्वामिनी तव ॥१॥ साथ प्रोचे नृपावंती--पक्वं चेदिष्टिकाचयं । झगित्या|नीय कौशांब्याः, प्रकारं कुरुषे नवं ॥ २ ॥ भुवोनाथ भवेदेवी, तदा पूर्णमनोरथा । तवापि वांछाऽ| विच्छेदो, भविता नात्र संशयः ॥ ३॥ स तथेति प्रतिश्रुत्य, चतुरां तां विसृज्य च । वप्रोपक्रम- 10 मारेभे, कामिनां किमु दुष्करं ॥४॥ श्रेण्यामवंतीकौशांब्यो-रंतः कृत्वा स सेवकान् । चतुर्दशापि । भूपाला-नुपानिन्ये स इष्टिकाः ॥५॥ ताभिरभ्रंकषाकारं, स प्राकारमचीकरत् । देवानां मनसा राज्ञां,
®®®®®®
॥६१॥