________________
मृगावती
॥ ५८ ॥
||६|| आत्ममूलमथ ज्ञात्वा, विग्रहं नृपयोस्तयोः । मृगावती तदात्मानं, निनिंदेत्थमनिंदिता ||३२|| हा धिग्मे वपुरेतस्य नासीदजननं कथं । अस्य युद्धप्रबंधस्य यद्दभूव निबंधनं ॥ ६३ ॥ दुर्भगाश्च कुरूपाश्च मन्ये धन्याः खलु स्त्रियः । नाहंपूर्विकया तासां, ढोकंते शीलदस्यवः ॥ ६४ ॥ महतामपि कोऽप्येष दुरुच्छेदो मतिभ्रमः । देहे मांसमये स्त्रीणां प्रतिभासो यदन्यथा ॥ ६५ ॥ ध्रुवमेष मणि मूर्ध्न - तक्षकस्य जिघृक्षति । ममापि शीलभंगाय, यदुरात्मा व्यवस्यति ॥ ६६ ॥
अथोल्कापातनिर्घात – काश्यपीकंपनादिकैः । संजातमुत्पातशतैः शतानीकपुरे तदा || ६७ ||| अरिं वीक्ष्य बलोन्मत्तं, दुर्निमित्तानि तानि च । निजानीके शतानीको, महातंकमशंकत ॥ ६८ ॥ भयप्रसृमरस्याधेः, सौहार्दादिव सत्वरं । तस्य व्याधिरतीसारः, प्रससार सुदुस्सहः ॥ ६९ ॥ साधिव्याधिरसो चक्रे, चिंतामित्यतीसारको । पतितोऽहमहो मृत्यु — निकटे संकटेऽधुना ॥ ७० ॥ इतः कूप इतो व्याघ्र, इतः सिंधुरितः फणी । इतोऽरातिरितो व्याधिः, करवाणि किमोशे ॥ ७१ ॥ निगृहीतो हताशेन, चित्रकृयो मया पुरा । तेन बद्धकुधा नून - मित्थमुत्थापितो रिपुः ॥ ७२ ॥
चरित्रम्
॥ ५८ ॥