SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मृगावती सर्वस्वमाच्छिद्य, प्रद्योतस्य सुतामिमां । पश्यतोऽस्यैव नेतासि, चेन्मां तत्ते मतिर्मतिः ॥७॥ घन- चरित्रम् स्नेहा समागत्य, यदियं राजपुत्र्यपि । मम राज्यश्रियोऽजस्रं, सपत्नीत्वं चिकीर्षति ॥ ७९ ॥ सखी | कांचनमालाख्या, तस्या मूर्तमनोरथा। भवत्सार्थे समागंता, स्वामिनी सहगामिनी ॥ ८०॥ किंचा स्त्यत्र महामात्रो, भद्रवत्या वसंतकः । सोऽपि निस्सीममस्मासु, दाक्षिण्यमनुरुध्यते ॥ ८१ ॥ ततR स्तवोपजापस्य, प्रतापस्येव मे ध्रुवं । अस्त्येष विषयो योग्यः, संस्कारस्येव सन्मणिः ॥ ८२ ॥ ततो भद्रवतीस्कंध-मधिरुह्य निराधयः । विविधायुधसंनद्धा, गच्छामः सपरिच्छदाः ॥ ८३ ॥ तन्मंत्रिन् पंचरात्रेण, सर्वमर्थं समर्थय । कार्येऽस्मिन् सहकारिणः, संतु नः कुलदेवताः ॥८४॥ इत्युक्तः सचिवोत्तंसः, शीघ्रं यातो गृहाइहिः । पुनराहतदृश्यत्व-मुन्मत्तीभावमन्वभूत् ॥ ८५॥ सिंहद्वारमथागत्य, । सुश्लोकः श्लोकमीदृशं । चंडप्रद्योतभूपस्य, पश्यतः पठतिस्म सः ॥८६॥ यदि तां चैव तां चैव, तां चैवायतलोचनां । न हरामि नृपस्याथें, नाहं योगंधरायणः ॥८७॥ तत्र श्रोत्रातिथी याते, कोपात्पा- IN To टलपाटले । नृपश्चिक्षेप साक्षेप-श्चक्षुषी अहिलंप्रति ॥८८|| ततः स कपटोन्मत्तो, नृत्यन्नूवंदमः || OOr@@@400 year
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy