________________
मृगावती
चरित्रम
प्रतिगृह्णीयाः, संमुखः सपरिच्छदः ॥ ६७ ॥
एवं तमात्तसंकेतं, कृत्वात्र द्रुतमागमं ॥ इह हि ग्रहिलीभूय, प्रतिचत्वरमभ्रमं ॥ ६८ ॥ केना| प्यहं न लक्ष्येयं, येन भ्राम्यन्निरर्गलं । कुत्रापि त्वां च पश्येय-मपश्यं चापि पुण्यतः ॥ ६९ ॥ त्वा- | मुद्रोक्ष्य विभो दुष्ट-पदातिपरिवेष्टितं । धैर्यसेतुभिदोऽभूवन्, मम नेत्रजलोर्मयः ॥ ७० ॥ ततस्तें-17 तिकमागंतु-मदृश्यीकारकारणं । तदैव गुटिकामेकां, मुखांतः क्षिप्तवानहं ॥ ७१ ॥ प्रभाववैभ- | वादस्या, देव त्वदपरो जनः । विलोकते न मे रूपं, शृणोति न च मे वचः ॥ ७२ ॥ यथैवाहमिहायातः, केनचिन्न च वीक्षितः। तथा देव त्वमागच्छ, संतु वत्साः सदोत्सवाः ॥ ७३ ॥ अथोदात्तां | नृपो वाच-मुवाच सचिवोत्तम । विधुरात्प्रभुमुद्धतु, त्वयि धौरेयता स्थिता ॥ ७४ ॥ उल्लंघयामि | नो वाचं, शक्तिभक्तिमतस्तव । किंत्वियं वत्सराजाय, वचोयुक्तिर्न रोचते ॥ ७५ ॥ यस्य मे त्वादृशो ||or मंत्री, वाचस्पतिविजित्वरः । यस्य मे दुर्जयानीकः, शतानीको नृपः पिता ॥ ७६ ॥ यस्य मेऽनुपमे| यश्री-र्माता देवी मृगावती ॥ पलाय्य तस्य मे यानं । मंत्रिराज त्रपाकरं ॥७७॥ युग्मं ॥ राज्य