________________
॥७७॥
मृगावती तन्नाथ विद्विषस्तस्य, गृहे गंतुं न युज्यते । किंतु राजसुतात्रैव, कलामध्येतुमेतु सा ॥ १९ ॥ तदाक
| लय्य राजापि, वचस्तस्य वचखिनः । सहेलं लोहजंघाय, प्रातः प्रत्युत्तरं ददौ ॥ २० ॥ सा पार्थिवेन | | शिक्षार्थ, शिष्या नः प्रेष्यतामिह । विनयो विनयादेति, गुवंतिकमिति क्रमः ॥२१॥ इति लब्धोत्तरो दूतः | | प्रद्योताय महोभुजे । गत्वा निवेदयामास, यथादृष्टं यथाश्रुतं ॥ २२ ॥ अथ वासवदत्तेति, मधुरामक्षरावली । मुहुर्वत्साधिपो ध्यायन्, प्रमोदं वरमासदत् ॥ २३ ॥ परेयुर्विपिनोद्देशा-द्वेगादेत्य वनेचरः। । विनयावनतः कश्चि-द्वत्सराजं व्यजिज्ञपत् ॥ २४ ॥ तव सीमांतकांतार–पर्यंते पर्यटन प्रभो। ० | वन्योऽस्ति निजशौंडीर्य-निर्जिताशागजो गजः ॥ २५ ॥ संवर्मितेन महता, ततः सैन्येन दुर्द्धरः ।। | वनं वनेचराख्यात–वर्त्मना निर्ययौ नृपः ॥ २६ ॥ देशे दवीयसि क्वापि, व्यवस्थाप्य वरूथिनीं। | दधद्घोषवतीमेकां, सोऽचलत्करिणोंतिकं ॥२७॥ महाबलत्वसाधर्म्य-स्नेहेनेवातिवेगवान् । पवनोऽ- | | भिमुखस्तस्य, ववौ व्यावर्तयन्निव ॥२८॥ परोपकारव्यापार-व्रतसब्रह्मचारिणः । अमुं मुक्तशुकारावै || DI७७॥ RI-स्तरवो वारयन्निव ॥ २९ ॥ अथाग्रे द्रुतमालोक्य, कुंजरं राजकुंजरः । करेण कोणमादाय, मंजु