________________
@
@
@
मृगावती || वीणामवीवदत् ॥ ३० ॥ विपंचीनादपीयूष-श्रद्धालुमनसो मृगाः । अखंडमंडलीबद्धाः, परितस्तं || चरित्रम्
| सिषेविरे ॥ ३१ ॥ अवेल्लत्तस्य वल्लक्या, यदा कर्णाध्वनि ध्वनिः । योगींद्र इव नागेंद्र, स्तिमितांग| स्तदाभवत् ॥ ३२॥ कूणिताक्षमविक्षिप्त-कर्णतालमनाकुलं । एत्य राज्ञोंतिके तस्थो, भुवि न्यस्तकरः | करी ॥ ३३ ॥ तथावस्थे ततस्तस्मिन्, भृशं रभसनिर्भरः । स वीणां वादयामास, सकलो निष्कलस्वनं ॥ ३४ ॥ निःशेषविषयत्यागी, भूतग्रामश्चराचरः । तदेकानः समग्रोऽपि, जज्ञे वाचंयमस्तदा ॥ ३५ ॥ सोऽपि दत्तसुधावादे, नादे निर्मग्नमानसः । न वेद क्वास्मि कोऽस्मीति, योगीव ध्याननि-1 चलः ॥ ३६॥ नियांतिस्म ततोऽकस्मा-सिंधुरोदरकोटरात् । भटाः शस्त्रस्फुटाः क्षिप्तं, विलादिव || | महोरगाः ॥ ३७ ॥ अहो गृह्णीत गृह्णीत, जीवग्राहममुं नृपं । मास्म यासोदिति क्रूरा-स्ते जजल्पुः ।। | परस्परं ॥ ३८ ॥ वल्लकोसल्लकीसांद्र-रसलालसमानसः । सुभटैनिकटीभूय, रुरुधे राजकुंजरः ॥३९॥ काकोलैरिव तैः पापै–निरुद्धः शाव्यकर्मठैः । राजहंसः स मीमांसा–मिति चेतसि निर्ममे ॥४॥ नायं दंतावलः सत्यः, किंतु यंत्रमयः स्फुटं । तदिदं विदधे कूटं, मम बंधाय केनचित् ॥ ११ ॥ एवं
@
@
@
@