________________
मृगाव
चरित्रम्
॥१३
D®000000
| अदर्शयच्च तस्यासी, पुरः पश्य तरोरधः। सिंहोत्संगनिषण्णेनं, नकुलाश्रितपन्नगं ॥३०॥ तप- स्विकन्यकाहस्त-न्यस्तान् विश्वस्तचेतसः । रभसेनेह नीवारान्, मृगाः कवलयंत्यमी ॥ ३१ ॥ ममायं पश्य दंडेश, बाहुः स्फुरति दक्षिणः । एतच्च दक्षिणं चक्षु-रयं चाधरपल्लवः ॥ ३२ ॥ सेनानोरवदद्वस्तु, दर्शयन्निदमद्भुतं । पुष्पितः शकुनस्तेऽसौ, फलिष्यति पुरः पुनः ॥ ३३ ॥ बालोऽपि महिमाभोग-सुभगो भावुकोदयः । कश्चिन्मुनिकुमारोऽय-मित एवाभिवर्त्तते ॥ ३४ ॥ बालः किरणमालीव, दुरालोकः स्वतेजसा । अथवेंदुरिवानंद-निस्पंदी नेत्रयोरयं ॥ ३५॥ क-| | थंचिद् दुर्मनीभृतः, सैष वाक्यैः प्रियंकरैः । ज्यायसा मुनिना तेन, प्रणयादनुनीयते ॥ ३६ ॥ ऊचे नृपश्च भूनाथं, कथं बालोऽत्र मे दृशः । निर्वृत्ताः कुर्वते वार्ता, नैव व्यावर्त्तनं प्रति ॥ ३७॥
अस्मिन्नदृष्टपूर्वेऽपि, किमु स्निह्यति मे मनः । तदयं किं स नागस्य, न भवेदभयंकरः ॥ ३८ ॥ | एतैर्वा किमु संकल्पै–रेतन्निश्चिनुगो मुनेः । एवमालोच्य तो प्रीत्या, ततस्तं जग्मतुतिं ॥ ३९ ॥ | अभिवंद्य गतावद्यौ, तत्सांत्वनपरं मुनिं । तो रसालतलासीनं, नत्वासीनो बभूवतुः ॥ ४० ॥ नृ