________________
मृगावती
॥१२॥
| तेनाखंडप्रयाणेन, प्रपेदे मलयाचलः । भूमिविदाथ मीभेन, जगदे जगदीश्वरः ॥ १९ ॥ स एष | मलयो देव, यन्मैत्रीमात्रगर्वितः । अभृद्विरहिणां नूनं, सद्यः प्राणहरो मरुत् ॥ २० ॥ राजस्तवानुजोवातु-वल्लभालाभतोऽस्त्वयं । इदानीं त्वनुजानीहि, स्वस्थानं गमनाय मां ॥ २१ ॥ पावनः पुरतो देव, मुनीनामयमाश्रमः। तपस्विशापभीरूणां, मादृशां न हि गोचरः॥ २२ ॥ उपकारोत्तमर्णस्य, तस्याढ्यं करणं धनं । प्रसादीकृत्य कृत्यज्ञो-ऽनुमेने गमनं नृपः ॥ २३ ॥अथोत्सुकः पुरो गच्छं-स्तुच्छेतरपरिच्छदः । सुप्रतीपं समीपस्थं, सप्रसादं जगाद सः ॥२४॥मृगावतीवियोगात,प्रवर्धिष्णुरसो भृशं । उन्मदश्चंदनामोदो, मां दुनोति पदे पदे ॥ २५ ॥ धैर्यं ममापि केकाभिः, खंडयंति शिखंडिनः | ।। एतदभ्यर्णकर्णा तु, कथं देवी भविष्यति ॥ २६ ॥ यथामी तरवो मुले, वेदीबद्धमनोहराः । तथा | ध्रुवमहं मन्ये, तापसानामियं मही ॥ २७ ॥ कृतमालतमालादि-पादपश्रेणिसंकुलाः । नेत्रानंदक्षमां लक्ष्मी, दधत्याश्रमभूमयः ॥ २८ ॥
बहिस्तपोवनस्थाना-दवस्थाप्य वरुथिनीं । नृपोऽथ सुप्रतीपेन, सममाश्रममाविशत् ॥ २९ ॥
॥१२॥