________________
मृगावती
॥ ११ ॥
पन्नगोऽपि तमन्वगात् ॥ ७ ॥ शिशोस्तेन पवित्रेण, चरित्रेण चमत्कृतः ॥ अहमप्येत्य गेहिन्याः, कंकणं तदुपानयम् ॥ ८ ॥ इदानीं पंचमाद्वर्षात्, समर्प्य मणिकंकणं । प्रेमप्रकर्षवाहिन्या, गेहिन्या प्रहितोऽस्म्यहं ॥ ९ ॥ भणितश्च तथा कांत, कौशांबीं गच्छ संप्रति । एतद्विक्रीय मद्येोग्यं, ताडंकद्वयमानयेः ॥ १० ॥ ततः प्रापमिहादाय, तदेतन्मणिकंकणं । या देवेन समादिष्टा, तदियं कथिता कथा ॥ ११ ॥ क्षितीशः शुश्रुवानेवं, चिंतयामास चेतसि । दिष्ट्या जीवति देवीति मत्वा हृदय नृत्यतां ॥ १२ ॥ अचिरान्नयने भावि, भवतोरपि पारणं । भावता तत्परीरंभा-द्वांछितं वां भुजावपि ॥ १३ ॥ यथाश्रुतः सुतोऽप्येष मदीयो यदि संभवेत् । जयत्येकः शतानीक- स्तदा स्वर्भूर्भुवस्त्रये ॥ १४ ॥ | ममेदृशी कुतो वास्ति, भाले न्यस्ताक्षरावलिः । भवेद्रामस्य सीतेव, मम लभ्या मृगावती ॥ १५ ॥ पंचतरा वार्त्ता, यद्यप्येषा तथापि तं । देशं गंतास्ति तत्पूत - मित्यालोच्य नृपोऽवदत् तं देशं दर्शयास्माकं महाभाग भवाग्रतः । इत्युत्क्वा तस्य ताडंक - प्रभृत्याभरणं ददौ महाजनं विसृज्याथ, न्यस्य राज्यं युगंधरे । सुप्रतीपेन सेनान्या, सहितश्चलितो नृपः ॥
॥
१६ ॥
॥
१८ ॥
१७ ॥
चरित्रम्
॥ ११ ॥