________________
मृगावती
॥ २४ ॥
तत्र मां नय ॥ ५० ॥ ततस्तेनाहमानीतः, कृशामकुशवैवशां । मन्मार्गदत्तनयना - मपश्यं जननीं निजां ॥ ५१ ॥ किन्नरोऽपि नमन्मौलिः, प्रणम्य मम मातरं । साश्रुर्जगाद मे दिवि, विप्रियं क्षम्यतामिदं || ५२ || यदेनमंब निर्बंधा - न्नयता तनयं तव । भूयः संधुक्षितो दूरं मया दुःखाशुशुक्षणिः || ५३ ॥ किं चातः पंचमे वर्षे, संयुज्य प्रेयसा समं । भुक्त्वा साम्राज्यलक्ष्मी च क्रमाद्भर्तुः सुतस्य च ॥ ५४ ॥ स्वयं वोरजिनेंद्रेण, दत्तमासेदुषी व्रतं । लप्स्यसे तामपि स्फीतां, मातनिःश्रेयसश्रियं ॥ ५५ ॥ युग्मं ॥ कदाचित्किंकरत्वेन, स्मर्त्तव्योऽयं जनः पुनः । इत्यामंत्र्य स नौ स्नेहाद्, भुजंगोऽगाद्यथागतः ॥ ५६ ॥ ततोऽभूत्पंचमे वर्षे, देवेन सह संगमः । विज्ञप्ता तातपादाना — मियं घोषवतीकथा ॥ ५७ ॥
इत्याकर्ण्य महोनाथः, सप्रमोदमचिंतयत् । श्लाघ्योऽहं यद्गुणैरेवं, सुतेनास्मि पराजितः ॥ ५८ ॥ भानुनेवामुना रेजे, मम गोत्रनभस्तलं । राज्यं त्रिजगदिष्टेन, सावष्टंभमनेन मे ।। ५९ ।। कृत्वैवं मानसे भूमि- - वासवः शुभवासरे । राज्यमूलां कुमाराय यांवराज्यश्रियं ददो ।। ६० ।।
चरित्रम्
॥ २४ ॥