________________
मृगावती
॥१०७॥
| ध्यास्त्वमनश्वरीं ॥ ५८ ॥ कामः क्रोधस्तथा लोभो, मानो हर्षो मदस्तथा । षड्वर्गमुत्सृजेदेनं, त्यक्ते चरित्रम् | तस्मिन सुखी नृपः ॥ ५९ ॥ स्नुषामप्यवदद्वत्से, वत्सेश्वरवधूरसि । प्रद्योतस्य सुता चासि, शिक्षा-IN
योग्यासि तध्रुवं ॥ ६० ॥ नित्यं भवसि चेद्वत्से, छायेवोदयनानुगा । एतावतैव पर्याप्तं, सुकृतोप| निषत्तव ॥६१ ॥ स्त्रीणां हि शीलमप्येकं, तुषारकरनिस्तुषं । स्वर्गापवर्गयोहेंतु-रेवं सर्वविदो विदुः । | ॥ ६२ ॥ एवं शिक्षामृतं मातु-रापिवंतो प्रमोदतः । एतौ कांश्चिदहोरात्रां-स्तत्र वासांबभूवतुः | ॥ ६३ ॥ अथ जनन्यामन्यत्र, प्रयातायां महीपतिः । आजगाम स्मरन्मातुः, सबाष्पो निजपत्तनं 0 ॥ ६४ ॥ स मातुरुपदेशेन, स्वस्मिन् देशे समंततः । अमारिपटहध्वाने-रेनोनिर्वासमादिशत् ।।६४॥ | विनयी नयधर्माभ्यां, स मातुरुपदेशतः । स्वःपुरीजित्वरीं चक्रे, कौशांबीमवनीश्वरः ॥ ६५ ॥ इति | जितपुरुहूतः स्फीतपुण्योपहृतः, प्रतिनवनृपतिश्रीसेव्यमानांहिपद्मः । ससुरभिगुणमालो मालवाधी- | शपुत्री-विषयसुखनिमग्नः स्वीयकालं निनाय ॥६६॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते धर्मसारे | ॥१७॥ श्रीमृगावतीचरित्रे चतुर्थो विश्रामः समाप्तः ॥ श्रीरस्तु ॥