________________
मृगावती
॥१०६॥
adio DhODainion
___ अस्ति स्वस्तिकरोऽभ्यणे, यतः स्वर्णपुरे पुरे । आयातः सपरीवारो, जिनः सिद्धार्थनंदनः ॥४७॥ समं तेन समायाता, देवी देव मृगावतीं । दृष्ट्वाहमागमं वेगा-त्तव विज्ञापनाकृते ॥ ४८ ॥ इच्छाकूलंकषं दत्वा, स तस्मै पारितोषिकं । प्रतस्थे प्रियया साधं, वंदारुर्मातरं ततः ॥ ४९ ॥ एकाहेन | स पंथानं, विलंघ्य श्लाघ्यमानसः । पुरं स्वर्णपुरं प्राप, यत्पुनाति स्वयं प्रभुः ॥ ५० ॥ तो निःप्रद-1 क्षिणीकृत्य, दंपतो प्रणिपेततुः । अपश्चिमजिनाधीशं, पूर्व पश्चात्प्रवर्तिनीं ॥५१॥ ततश्च नम्रपंचांगA समालिंगितभूतलौ । पदद्वंद्व मृगावत्याः, प्रश्रयेण प्रणेमतुः ॥ ५२ ॥ तावुभो तन्मुखन्यस्त-निर्नि
मेषविलोचनौ । पुरस्तादुपविश्यांबां, वरिवस्यांबभूवतुः ॥ ५३॥ अथ सा वीतरागापि, सरागेवानुकं. |पया। विशदेनोपदेशेन, चकारानुग्रहं सुते ॥ ५४ ॥ आयुष्मन् पुरुषार्थेषु, धर्म एव धुरंधरः । अर्थकामौ हि जानोहि, ध्रुवमेतत्समुद्भवौ ॥ ५५ ॥ निसर्गेणारिषड्वर्ग-निग्रहाग्रहिको भव । इह चामुत्र चाप्येष, प्राणिनामप्रियंकरः ॥ ५६ ॥ भीताऽभयप्रदानेन, धर्ममावर्जयेस्तथा । इमामासादयेवत्स, यथा तीर्थंकरश्रियं ॥ ५७ ॥ अवश्यं नश्वरीमेनां, दोनोद्धरणकर्मसु । श्रियं व्यापार्य वत्सेश, विद
O@OODGoo
॥१०६॥