________________
मृगावती | कदापि स तया सह । जलकेलिच्छलात्कामं, कामोद्यानमसिंचत ॥ ३६ ॥ इत्यंतःपुरवास्तव्य-स्त- चरित्रम्
संगममहोत्सवैः । गणरात्रमहोरात्र लीलया सोऽत्यवाहयत् ॥ ३७॥ सर्वात्मनापि संरुद्ध-मिदं ॥१०५॥
वासवदत्तया । इतीर्ण्ययेव तच्चेतो, मुमुचे राज्यचिंतया ॥३८|कथांतरप्रसंगेन, तमप्रच्छत्प्रियान्यदा।
स्वामिन्नद्यापि तस्मान्मे, मंत्राच्चित्रीयते मनः ॥ ३९॥ ततो मे कथ्यतां नाथ, केयं देवी मृगावती। A यस्याः स्मरणमात्रेण, तीर्यते द्रुतमापदः ॥ ४० ॥ इति पृष्टः सरोमांच-मवोचदथ पार्थिवः । इयं 0
मे तस्य मंत्रस्य, श्रूयतां मूलमात्रिका ॥४१॥ विपत्प्रमाथजननी, जननी मे मृगावती । उरीकृतव्रता साक्षा-तपोवियेव विद्यते ॥४२॥ महिमातिशयस्तस्या, दृष्टपूर्वः सहस्रशः। असो मया चमत्कारी, प्रस्तावे दर्शितस्तव ॥ ४३ ॥ इत्युपश्रुत्य सानंद, प्रद्योतदुहितावदत् । मन्येऽहं धन्यमात्मानं, यस्या श्वश्रूरपीदृशी ॥ ४४ ॥ श्वश्रूपादान प्रसादात्ते, यदि वंदय भक्तितः । फलं जीवितकल्पद्रोः, प्राणेश प्राप्नुयां तदा ॥ ४५ ॥ दैवात्तदैव कोऽप्येत्य, व्याजहार मनोहरं । चिरादभीष्टलाभेन, दिष्ट्या त्वं
|॥१०५॥ देव वर्थसे ॥ ४६॥