________________
मृगावती
॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीमृगावतीचरित्रं प्रारभ्यते ॥
( कर्ता-मलधारिश्रीदेवप्रभसूरिः ) छपावी प्रसिद्ध करनार-वीठलजी हीरालाल शाह. ( जामनगरवाळा ) जयंति वर्धमानस्य, जितदंभोलिवैभवाः । मोहांधतमसध्वंस-हेलयः सत्त्वकेलयः ॥ १॥ सारसारस्वतामोद-मेदस्कररसायनं । गुरूणामुपदेशस्य, महेम महिमाद्भुतं ॥ २॥ लब्धेऽस्मिन् पुण्यनै- 10 lal पुण्या-न्मानुषत्वेऽपि दुर्लभे । धर्मकर्माणि निर्मातुं, यतितव्यं सचेतसा ॥ ३ ॥ परोपकाररूपश्च,
धर्मः सर्वत्र सम्मतः । कृताद्वितोपदेशाच्च, नोपकारः परः पुनः ॥ ४ ॥ तेनोर्जितरजःपुंज-मार्जनं IRI IR सद्गुणार्जनं । मृगावत्यादिदृष्टांते-स्तदेतदुपदिश्यते॥५॥ उद्दामविनयस्थूल-मूलो गुणगणद्रुमः ।।