________________
मृगावती
चरित्रम्
| अपारराज्यव्यापार-पारवश्यदशामपि । जग्मतुस्तस्य वाकायौ, मनस्त्वनुमृगावति ॥७४ ॥ प्रत्यारामं प्रतिग्रामं, प्रत्याशं प्रतिपर्वतं। स चरान् प्रेषयामास, मृगावत्याः प्रवृत्तये ॥ ७५ ॥ त्वदधीनं सुखं सुभ्र, विमुखी मास्म भूर्मयि । इत्यादि तस्य स्वप्नांतः, श्रुत्वाऽरुद्यत सेवकैः ॥ ७६ ॥ तदेकतानध्यानत्वा-त्सभायामपि तस्थुषः । मृगावतीति तस्याऽभू-जने गात्रविपर्ययः ॥ ७७ ॥ न कश्चित्त-|| स्य चानिन्ये, रामस्य हनुमानिव । पत्नीप्रवृत्तिमित्येत-तं दुनोति पदे पदे ॥ ७८ ॥ तस्य मन्वंततराणीव, दुर्दशस्य चतुर्दश । हायनानि व्यतीतानि, प्रियाविरहिणस्तदा ॥ ७९ ॥ कदाचिदुपदाह- | स्तः, स्वर्णापणमहाजनः । नरमेकं पुरस्कृत्य, महीपतिमुपाययौ ॥ ८० ॥ व्यज्ञपयच्च राजेंद्र, कश्चिदेष नरो नवः । विपणावत्र विक्रेतु-मानिन्ये रत्नकंकणं ॥ ८१ ॥ युष्मन्नामांकमेतच्च, वीक्ष्यास्माभिः सविस्मयः । इहोपानीतमित्युक्त्वा, वणिजस्तदढोकयन् ॥ ८२ ॥ नृपोऽप्यादाय तदेवी-करसंपर्कपावनं । उरसि प्रबलप्रेमा, ददौ दभ्यो च चेतसि ॥८३ ॥ मम प्राणेश्वरी क्वापि, किमु प्राणैरमुच्यत । एतस्या हस्तमध्यास्त, यदिदं रत्नकंकणं ॥ ८४ ॥ अनिष्टयाऽनया यद्वा, किममंगलचिंतया । रत्न