________________
चरित्रम
n७॥
मृगावती || विक्रमारंभा, बभूवुर्निष्फलाः परं ॥ ६३ ।। यदि नाम श्रयेदेषः, शाखां कस्यापि शाखिनः । इत्यानु-
पदिकानां नः, सोऽदृश्यत्वमगात्खगः ॥ ६४ ॥ ३च्योतती स्वामिनीक्षौमा-द्वीक्ष्य यां बिंदुधोरणीं । अवजाम प्रतीपेन, सापि दैवेन संहृता ॥ ६५ ॥ वैधेयस्य विधेर्वृत्तिं, विलोक्य प्रातिकूलिकों । अभागधेयरस्माभि-ावृत्तं स्वामिनी विना ॥ ६६ ॥ श्रुत्वेदं शोकसंमारो, भूपालो व्यलपत्पुनः ।। भूयः संबोधयांचके, सौधमानोय मंत्रिणा ॥ ६७ ॥ राजन्नेवं युवत्येव, रुद्यते किं पुनः पुनः । महा| त्मनां हि धैर्य स्या-श्यसने निकषोपलः ॥ ६८ ॥ न्यकारमितरोऽप्येति, शोकावेशविसंस्थुलः । किं | पुनर्विस्फुरद्धैर्य-संरंभाः पृथिवीभुजः ॥ ६९ ॥ वेष्टयामास कौशांबी, यदागत्य निरत्ययां। चंडप्रद्योत| भूपालः, किमेतदिति विस्मृतं ॥ ७० ॥ येन वैरायते वैर-स्तादृशः सैन्यवारिधिः । तस्य ते निहता| लोकं, शोकं कर्तुं न युज्यते ॥ ७१ ॥
- इति वैरिकथारंभा-दुजागृतपराक्रमः । मनो व्यापारयामास, राज्यचिंतासु भूपतिः ॥ ७ ॥ IR किंतु तस्मिन् मृगावत्या, जैत्रशस्त्रेण वर्जितः । लेभे संभावनाहीनो, न सेवाऽवसरं स्मरः ॥ ७३ ॥
॥७॥