________________
॥ ९३ ॥
मृगावती रजनीमुखे ||१००॥ निर्व्याजं व्याजहाराथ, राजा राजसुतां तदा । वचो मे श्रूयतामेक — मेकतानं मनः कुरु ॥ १ ॥ प्राप्तः संप्रत्यमात्यो मां, कौशांबीं नेतुमुत्सुकः । तद्गतास्मि विधातास्मि, वत्सानामुत्सवं चिरात् ॥ २ ॥ वांछा वत्साधिपे ह्यस्ति, यदि ते मदिरेक्षणे । तदुत्तिष्ट प्रतिष्टस्व, संप्रत्येव मया समं ॥ ३ ॥ तदाकर्ण्य प्रसन्नास्य- -धुतिः प्रद्योतनंदिनी । अमृदग्रेसरी राज्ञः समं कांचनमालया ||४|| नृपोऽथ सपरीवारः, कृत्वा घोषवतीं करे। आरुह्य करिणीमुच्चे - रिदं राजपथेऽपठत् ॥५॥ एषः प्रयाति सार्थः, कांचनमाला वसंतकश्चैव । घोषवतीभद्रवत्यौ, वासवदत्ता उदयनश्च ||६|| विदिते तत्र वृत्तांते, कुद्धः प्रद्योत भूपतिः । सुतौ गोपालपालाख्यो, समाहूय समादिशत् ॥७॥ बलात्पलाय्य गच्छंतं वत्सराजमुदायुधौ । युवां नलगिरिस्कंध - मधिरुह्यानुगच्छतं ॥ ८॥ सुता वासवदत्तापि, तेन नीता सहात्मना । अस्या व्यावर्त्तने यत्नं कुर्वीयाथां यथा तथा ॥ ९ ॥ संमतो मे न जामाता, लोकं - पृणगुणोऽप्ययं । अस्य पक्षो विपक्षो न, पारंपर्यक्रमायतः ||१०|| इति तातसमादिष्टो, दृढं संवर्मितावुभो । गजमात्रपरीवारौ, कुमारौ तावधावतां ॥ ११ ॥ भद्रवत्यामतीतायां, पंचविंशतियोजनीं । मदा
चरित्रम्
॥ ९३ ॥