________________
मृगावती
॥७२॥
वापीं जघनं सिंधुसैकतं । ऊरू च कदलीस्तंभौ, चरणौ च कुशेशयौ ॥ १९ ॥ त्रिभिर्विशेषकं || एवं वामदृशामंग- मनंगावेशविह्वलाः । मांसास्थिमयमप्येत - त्कामिनो मन्वतेऽन्यथा ॥ २० ॥ परिणा● ममहादुःखं, दुःखमूलमिदं जनाः । सुखं वैषयिकं तन्मा, सुखं जानीत जानुचित् ॥ २१ ॥ वोतशंकमनातंक - मात्यंतिकमथाव्ययं । ऐकांतिकमनंतं यत्सुखं जानीत तत्सुखं ॥ २२ ॥ पयोमुचि जगन्नाथे, वाक्सुधामिति वर्षति । आसीयाख्यासदः क्षेत्रं, सद्यः संवेगशावलं ॥ २३ ॥ देशना - मृतमापीय, शांतमोहमहाविषः । सोऽपि स्वामिसुहस्तेन, स्तेनः प्रब्रजितस्तदा ॥ २४ ॥
अथ सानंदमुत्थाय, संमीलत्करकुझला । प्रभुं विज्ञपयामास, समयज्ञा मृगावती ॥ २५ ॥ त्वयैवं कल्पिता स्वामिन्, देशनाद्य यया त्वहं । सुधासधर्मिणीचक्रे, चकोर्या इव चंद्रिका ॥ २७ ॥ तन्मालवेशमापृछ्य, दूरमुच्छिन्नमत्सरा । जिनेश प्रत्रजिष्यामि तव पादांतिकेऽधुना ॥ २८ ॥ तीर्थनाथस्ततोऽवादी - न्निजानेतान्मनोरथान् । समर्थयेथास्त्वं मास्म, विलंबेथाः पतिव्रते ॥ २९ ॥ मृगावती ततश्चंडं, चंडप्रद्योतभृपतिं । उपेत्यानाकुलं रम्यं सप्रश्रयमभाषत ॥३०॥ यत्तवास्याभिलाषस्य,
चरित्रम्
॥७२॥