________________
चरित्रम्
॥७३॥
.मृगावती में जातास्मि प्रतिकूलिको । आत्मानुकूलमेवैत–जानीयास्त्वं जनाधिप ॥ ३१ ॥ भगवद्वदनांभोज
किंजल्कान् कल्कहारिणः । उपदेशानिमान् राजन्, कदाचिन्मास्म विस्मर ॥ ३२ ॥ इदानीमनुमन्यस्व, संयमग्रहणाय मां । यः स्वर्गमपवर्ग च, मार्गोऽयमुपतिष्टते ॥ ३३ ॥ विवेकोक्तिभिरित्युक्तः, | पर्षत्प्रत्यक्षमेतया । अपत्रपिष्णुर्धात्रीश-स्तां तथेत्यन्वमन्यत ॥ ३४ ॥ आयतिज्ञा ततो राज्ञी, |
प्रद्योतपृथिवीभुजः । अथोदयनमुत्संगे, निचिक्षेप तनूरुहं ॥ ३५ ॥ दत्वा दानानि दीनेभ्यः, प्रवर्त्य | |च महोत्सवं । प्रभुपादांतिके प्रीता, प्रपेदे साथ संयमं ॥ ३६॥ तां गृहीतव्रतां वोक्ष्य, प्रियाः प्रयो- | | तभूभुजः । अष्टांगारवतीमुख्याः, संगत्यागं वितेनिरे ॥३७॥ प्रश्नकृयो जिनाभ्यणे, चौरः प्रबजितः | पुरा । स बोधयितुमेकोनां, चौरपंचशतीं ययौ ॥३८॥ आख्याय विषयोच्छेदां, देशनां प्रभुनिर्मितां । जागृद्भाग्यः सवैराग्यं, तेषामप्युदमीलयत् ॥३९॥ ततस्तेऽपि समस्तेऽपि, योषित्सोख्ये पराङ्मुखाः । उन्मीलद्भावनास्मेर-मुररीचक्रिरे व्रतं ॥ ४० ॥ तया स्त्रिया तथा भोगा-त्पापपाथेयमर्जितं ।। | यथा नरकमार्गेऽपि, नैव तस्यास्त्रटिष्यति ॥४१॥ अथ प्रदातुमारेभे, शिक्षा दोक्षामिव स्वयं । सुधा.
॥७३॥