________________
मृगावती ॥ ७४ ॥
1
वीचिमुचा वाचा, मृगावत्यै जिनोत्तमः ॥ ४२ ॥ कल्याणि भाविकल्याणः, कश्चिदेव विपश्चितां । कुर्या न्मनोरथानेतान् लभते विरलः पुनः ॥ ४३ ॥ दुर्लभः संयमो लेभे तत्त्वया ज्ञाततत्वया । तन्नित्यमप्रमत्तापि, कल्पोऽयमिति शिक्ष्यते ||४४ || प्रयतेथास्तथा भद्रे, यथा भद्रेण युज्यसे । प्रव्रज्या क्लेशमप्येनं मन्येथा व्यर्थमन्यथा ॥ ४५ ॥ केवलेनापि शीलेन, दुर्लभं लब्धवत्यसि । संयमेनामुना किंतु, त्रैलोक्यमपि जेष्यसि ॥१६॥ ततो ज्ञाने क्रियायां च प्रवर्त्तेथाः प्रयत्नतः । सदैव द्वयमेतद्धि, विद्धि सिद्धिनिबंधनं ॥ ४७ ॥ प्रमादमादरान्मुक्त्वा तत्वसर्वस्वदृश्वरि । ज्ञानदर्शनचारित्रे - ऽप्यायुष्मति मतिं कुरु ॥४८॥ तथेति प्रतिपेदाना, शिक्षां सर्वविदा तदा । असौ चंदनबालायाः, प्रवर्तिन्याः समर्पिता ॥ ४९ ॥ सा जिनेशोपदेशं तं कुर्वतो सर्वतो हृदि । तदभ्यासे क्रियाभ्यासं, प्रसाधयति सादरं ॥५०॥ अनन्यसदृशोऽन्यत्र, जगाम भगवानपि । जिनेशस्त्वंशुमालीव, नैकत्र कुरुते स्थितिं ॥ ५१ ॥ चंडप्रद्योत भूपालः, पालयन् स्वं प्रतिश्रुतं । पुनः संस्थापयामास पुर्यामुदयनं नृपं ॥ ५२ ॥ नवं राजानमापृछ्य, समुत्सुकपरिच्छदः । ततोऽवंतीमवंतीशः, क्रमशः प्राविशत्पुरीं ॥ ५३ ॥ अथ मथितसम
04064404
चरित्रम्
॥ ७४ ॥