SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ मृगावती स्तप्रत्यनीकांधकारो, मतिविभवगभस्तिद्योतितन्यायमार्गः । उदयमुदयनोऽयं नव्यमासाद्य सो, ॐ रविरिव भुवि तेजो निःसमानस्ततान ॥ ५४ ॥ इति मलधारिश्रोदेवप्रभसूरिविरचिते श्रीमृगावती॥ ७५ ॥ ० चरित्रे तृतीयो विश्रामः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ चतुर्थो विश्रामः प्रारभ्यते ॥ अथ वत्सेश्वरो वत्स्यान् प्रशशासोग्रशासनः । परं निरंतरं मातु - रस्मार्षीन्मातृवत्सलः ॥ १ ॥ रक्तं प्रणामसंपृक्तै- र्मातुश्चरणरेणुभिः | भालस्थलं महीपालः समालिन्यममन्यत ॥ २ ॥ प्रजयोपास्यमानोऽपि जनन्याः पर्युपासनं । विनासौ सततं तेन, राज्येनापि न पिप्रिये ॥ ३ ॥ उत्तान - मानसं प्रेक्ष्य, प्रेक्षावानथ पार्थिवं । तं नुनोद विनोदेषु, मंत्री योगंधरायणः ॥ ४ ॥ ततः कदाचि - |न्मत्तेभ - मभ्रभूपतिविभ्रमं ॥ सोऽधिरूढः श्रियं दधे, निबिडोजा बिडौजसः ॥ ५ ॥ कदाचिच्चतुरं जात्यं, सोऽतिरेकात्तुरंगमं । अशिक्षयद्गतीश्चित्राः, शालिहोत्रविचक्षणः ॥ ६ ॥ स्वसवित्रीचरित्राणां, चरित्रम् ॥७५॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy